धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 149

  1. [भ] शृणु पार्थ यथावृत्तम इतिहासं पुरातनम गृध्रजम्बुक संवादं यॊ वृत्तॊ वैदिशे पुरा ॥ 1 ॥

  2. दुःखिताः के चिद आदाय बालम अप्राप्तयौवनम कुलसर्वस्व भूतं वै रुदन्तः शॊकविह्वलाः ॥ 2 ॥

  3. बालं मृतं गृहीत्वाथ शमशानाभिमुखाः सथिताः अङ्केनाङ्कं च संक्रम्य रुरुदुर भूतले तदा ॥ 3 ॥

  4. तेषां रुदितशब्देन गृध्रॊ ऽभयेत्य वचॊ ऽबरवीत एकात्मकम इमं लॊके तयक्त्वा गच्छत माचिरम ॥ 4 ॥

  5. इह पुंसां सहस्राणि सत्रीसहस्राणि चैव हि समानीतानि कालेन किं ते वै जात्व अबान्धवाः ॥ 5 ॥

  6. संपश्यत जगत सर्वं सुखदुःखैर अधिष्ठितम संयॊगॊ विप्रयॊगश च पर्यायेणॊपलभ्यते ॥ 6 ॥

  7. गृहीत्वा ये च गच्छन्ति ये ऽनुयान्ति च तान मृतान ते ऽपय आयुषः परमाणेन सवेन गच्छन्ति जन्तवः ॥ 7 ॥

  8. अलं सथित्वा शमशाने ऽसमिन गृध्रगॊमायुसंकुले कङ्काल बहुले घॊरे सर्वप्राणि भयंकरे ॥ 8 ॥

  9. न पुनर जीवितः कश चित कालधर्मम उपागतः परियॊ वा यदि वा दवेष्यः पराणिनां गतिर ईदृशी ॥ 9 ॥

  10. सर्वेण खलु मर्तव्यं मर्त्यलॊके परसूयता कृतान्तविहिते मार्गे कॊ मृतं जीवयिष्यति ॥ 10 ॥

  11. कर्मान्त विहिते लॊके चास्तं गच्छति भास्करे गम्यतां सवम अधिष्ठानं सुतस्नेहं विसृज्य वै ॥ 11 ॥

  12. ततॊ गृध्रवचः शरुत्वा विक्रॊशन्तस तदा नृप बान्धवास ते ऽभयगच्छन्त पुत्रम उत्सृज्य भूतले ॥ 12 ॥

  13. विनिश्चित्याथ च ततः संत्यजन्तः सवम आत्मजम निराशा जीविते तस्य मार्गम आरुह्य धिष्ठिताः ॥ 13 ॥

  14. धवाङ्क्षाभ्र समवर्णस तु बिलान निःसृत्य जम्बुकः गच्छमानान सम तान आह निर्घृणाः खलु मानवाः ॥ 14 ॥

  15. आदित्यॊ ऽयं सथितॊ मूढाः सनेहं कुरुत मा भयम बहुरूपॊ मुहूर्तश च जीवेतापि कदा चन ॥ 15 ॥

  16. यूयं भूमौ विनिक्षिप्य पुत्रस्नेह विनाकृताः शमशाने पुत्रम उत्सृज्य कस्माद गच्छथ निर्घृणाः ॥ 16 ॥

  17. न वॊ ऽसत्य अस्मिन सुते सनेहॊ बाले मधुरभाषिणि यस्य भाषित मात्रेण परसादम उपगच्छथ ॥ 17 ॥

  18. न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम न येषां धारयित्वा तान कश चिद अस्ति फलागमः ॥ 18 ॥

  19. चतुष्पात पक्षिकीटानां पराणिनां सनेहसङ्गिनाम परलॊकगतिस्थानां मुनियज्ञक्रिया इव ॥ 19 ॥

  20. तेषां पुत्राभिरामाणाम इह लॊके परत्र च न गुणॊ दृश्यते कश चित परजाः संधारयन्ति च ॥ 20 ॥

  21. अपश्यतां परियान पुत्रान नैषां शॊकॊ ऽनुतिष्ठति न च पुष्णन्ति संवृद्धास ते माता पितरौ कव चित ॥ 21 ॥

  22. मानुषाणां कुतः सनेहॊ येषां शॊकॊ भविष्यति इमं कुलकरं पुत्रं कथं तयक्त्वा गमिष्यथ ॥ 22 ॥

  23. चिरं मुञ्चत बाष्पं च चिरं सनेहेन पश्यत एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥ 23 ॥

  24. कषीणस्याथाभियुक्तस्य शमशानाभिमुखस्य च बान्धवा यत्र तिष्ठन्ति तत्रान्यॊ नावतिष्ठते ॥ 24 ॥

  25. सर्वस्य दयिताः पराणाः सर्वः सनेहं च विन्दति तिर्यग्यॊनिष्व अपि सतां सनेहं पश्यत यादृशम ॥ 25 ॥

  26. तयक्त्वा कथं गच्छेथेमं पद्मलॊलायताक्षकम यथा नवॊद्वाह कृतं सनानमाल्यविभूषितम ॥ 26 ॥

  27. [भ] जम्बुकस्य वचः शरुत्वा कृपणं परिदेवतः नयवर्तन्त तदा सर्वे शवार्थं ते सम मानुषाः ॥ 27 ॥

  28. [गृध्र] अहॊ धिक सुनृशंसेन जम्बुकेनाल्प मेधसा कषुद्रेणॊक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ॥ 28 ॥

  29. पञ्च भूतपरित्यक्तं शून्यं काष्ठत्वम आगतम कस्माच छॊचथ निश्चेष्टम आत्मानं किं न शॊचथ ॥ 29 ॥

  30. तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥ 30 ॥

  31. अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः येन गच्छति लॊकॊ ऽयं दत्त्वा शॊकम अनन्तकम ॥ 31 ॥

  32. धनं गाश च सुवर्णं च मणिरत्नम अथापि च अपत्यं च तपॊ मूलं तपॊयॊगाच च लभ्यते ॥ 32 ॥

  33. यथा कृता च भूतेषु पराप्यते सुखदुःखिता गृहीत्वा जायते जन्तुर दुःखानि च सुखानि च ॥ 33 ॥

  34. न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा मार्गेणान्येन गच्छन्ति तयक्त्वा सुकृतदुष्कृते ॥ 34 ॥

  35. धर्मं चरत यत्नेन तथाधर्मान निवर्तत वर्तध्वं च यथाकालं दैवतेषु दविजेषु च ॥ 35 ॥

  36. शॊकं तयजत दैन्यं च सुतस्नेहान निवर्तत तयज्यताम अयम आकाशे ततः शीघ्रं निवर्तत ॥ 36 ॥

  37. यत करॊति शुभं कर्म तथाधर्मं सुदारुणम तत कर्तैव समश्नाति बान्धवानां किम अत्र हि ॥ 37 ॥

  38. इह तयक्त्वा न तिष्ठन्ति बान्धवा बान्धवं परियम सनेहम उत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥ 38 ॥

  39. पराज्ञॊ वा यदि वा मूर्खः सधनॊ निर्धनॊ ऽपि वा सर्वः कालवशं याति शुभाशुभसमन्वितः ॥ 39 ॥

  40. किं करिष्यथ शॊचित्वा मृतं किम अनुशॊचथ सर्वस्य हि परभुः कालॊ धर्मतः समदर्शनः ॥ 40 ॥

  41. यौवनस्थांश च बालांश च वृद्धान गर्भगतान अपि सर्वान आविशते मृत्युर एवं भूतम इदं जगत ॥ 41 ॥

  42. [ज] अहॊ मन्दी कृतः सनेहॊ गृध्रेणेहाल्प मेधसा पुत्रस्नेहाभिभूतानां युष्माकं शॊचतां भृशम ॥ 42 ॥

  43. समैः सम्यक परयुक्तैश च वचनैः परश्रयॊत्तरैः यद गच्छथ जलस्थायं सनेहम उत्सृज्य दुस्त्यजम ॥ 43 ॥

  44. अहॊ पुत्र वियॊगेन मृतशून्यॊपसेवनात करॊशतां वै भृशं दुःखं विवत्सानां गवाम इव ॥ 44 ॥

  45. अद्य शॊकं विजानामि मानुषाणां महीतले सनेहं हि करुणं दृष्ट्वा ममाप्य अश्रूण्य अथागमन ॥ 45 ॥

  46. यत्नॊ हि सततं कार्यः कृतॊ दैवेन सिध्यति दैवं पुरुषकारश च कृतान्तेनॊपपद्यते ॥ 46 ॥

  47. अनिर्वेदः सदा कार्यॊ निर्वेदाद धि कुतः सुखम परयत्नात पराप्यते हय अर्थः कस्माद गच्छथ निर्दयाः ॥ 47 ॥

  48. आत्ममांसॊपवृत्तं च शरीरार्धमयीं तनुम पितॄणां वंशकर्तारं वने तयक्त्वा कव यास्यथ ॥ 48 ॥

  49. अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते ततॊ नेष्यथ वा पुत्रम इहस्था वा भविष्यथ ॥ 49 ॥

  50. [ग] अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः न च पश्यामि जीवन्तं मृतं सत्री पुंनपुंसकम ॥ 50 ॥

  51. मृता गर्भेषु जायन्ते मरियन्ते जातमात्रकाः विक्रमन्तॊ मरियन्ते च यौवनस्थास तथापरे ॥ 51 ॥

  52. अनित्यानीह भाग्यानि चतुष्पात पक्षिणाम अपि जङ्गमाजङ्गमानां चाप्य आयुर अग्रे ऽवतिष्ठते ॥ 52 ॥

  53. इष्टदारवियुक्ताश च पुत्रशॊकान्वितास तथा दह्यमानाः सम शॊकेन गृहं गच्छन्ति नित्यदा ॥ 53 ॥

  54. अनिष्टानां सहस्राणि तथेष्टानां शतानि च उत्सृज्येह परयाता वै बान्धवा भृशदुःखिताः ॥ 54 ॥

  55. तयज्यताम एष निस्तेजाः शून्यः काष्ठत्वम आगतः अन्यदेहविषक्तॊ हि शावं काष्ठम उपासते ॥ 55 ॥

  56. भरान्तजीवस्य वै बाष्पं कस्माद धित्वा न गच्छत निरर्थकॊ हय अयं सनेहॊ निरर्थश च परिग्रहः ॥ 56 ॥

  57. न चक्षुर्भ्यां न कर्णाभ्यां संशृणॊति समीक्षते तस्माद एनं समुत्सृज्य सवगृहान गच्छताशु वै ॥ 57 ॥

  58. मॊक्षधर्माश्रितैर वाक्यैर हेतुमद्भिर अनिष्टुरैः मयॊक्ता गच्छत कषिप्रं सवं सवम एव निवेशनम ॥ 58 ॥

  59. परज्ञा विज्ञानयुक्तेन बुद्धिसंज्ञा परदायिना वचनं शराविता रूक्षं मानुषाः संनिवर्तते ॥ 59 ॥

  60. [ज] इमं कनकवर्णाभं भूषणैः समलंकृतम गृध्रवाक्यात कथं पुत्रं तयजध्वं पितृपिण्डदम ॥ 60 ॥

  61. न सनेहस्य विरॊधॊ ऽसति विलापरुदितस्य वै मृतस्यास्य परित्यागात तापॊ वै भविता धरुवम ॥ 61 ॥

  62. शरूयते शम्बुके शूद्रे हते बराह्मण दारकः जीवितॊ धर्मम आसाद्य रामात सत्यपराक्रमात ॥ 62 ॥

  63. तथा शवेतस्य राजर्षेर बालॊ दिष्टान्तम आगतः शवॊ ऽभूते धर्मनित्येन मृतः संजीवितः पुनः ॥ 63 ॥

  64. तथा कश चिद भवेत सिद्धॊ मुनिर वा देवतापि वा कृपणानाम अनुक्रॊशं कुर्याद वॊ रुदताम इह ॥ 64 ॥

  65. [भ] इत्य उक्ताः संन्यवर्तन्त शॊकार्ताः पुत्रवत्सलाः अङ्के शिरः समाधाय रुरुदुर बहुविस्तरम ॥ 65 ॥

  66. [ग] अश्रुपात परिक्लिन्नः पाणिस्पर्शन पीडितः धर्मराज परयॊगाच च दीर्घां निद्रां परवेशितः ॥ 66 ॥

  67. तपसापि हि संयुक्तॊ न काले नॊपहन्यते सर्वस्नेहावसानं तद इदं तत परेतपत्तनम ॥ 67 ॥

  68. बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः दिनानि चैव रात्रीश च दुःखं तिष्ठन्ति भूतले ॥ 68 ॥

  69. अलं निर्बन्धम आगम्य शॊकस्य परिवारणम अप्रत्ययं कुतॊ हय अस्य पुनर अद्येह जीवितम ॥ 69 ॥

  70. नैष जम्बुक वाक्येन पुनः पराप्स्यति जीवितम मृतस्यॊत्सृष्ट देहस्य पुनर देहॊ न विद्यते ॥ 70 ॥

  71. न वै मूर्ति परदानेन न जम्बुक शतैर अपि शक्यॊ जीवयितुं हय एष बालॊ वर्षशतैर अपि ॥ 71 ॥

  72. अपि रुद्रः कुमारॊ वा बरह्मा वा विष्णुर एव वा वरम अस्मै परयच्छेयुस ततॊ जीवेद अयं शिशुः ॥ 72 ॥

  73. न च बाष्पविमॊक्षेण न चाश्वास कृतेन वै न दीर्घरुदितेनेह पुनर जीवॊ भविष्यति ॥ 73 ॥

  74. अहं च करॊष्टुकश चैव यूयं चैवास्य बान्धवाः धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहे ऽधवनि ॥ 74 ॥

  75. अप्रियं परुषं चापि परद्रॊहं परस्त्रियम अधर्मम अनृतं चैव दूरात पराज्ञॊ निवर्तयेत ॥ 75 ॥

  76. सत्यं धर्मं शुभं नयाय्यं पराणिनां महतीं दयाम अजिह्मत्वम अशाठ्यं च यत्नतः परिमार्गत ॥ 76 ॥

  77. मातरं पितरं चैव बान्धवान सुहृदस तथा जीवतॊ ये न पश्यन्ति तेषां धर्मविपर्ययः ॥ 77 ॥

  78. यॊ न पश्यति चक्षुर्भ्यां नेङ्गते च कथं चन तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ ॥ 78 ॥

  79. [भ] इत्य उक्तास तं सुतं तयक्त्वा भूमौ शॊकपरिप्लुताः दह्यमानाः सुतस्नेहात परययुर बान्धवा गृहान ॥ 79 ॥

  80. [ज] दारुणॊ मर्त्यलॊकॊ ऽयं सर्वप्राणि विनाशनः इष्टबन्धुवियॊगश च तथैवाल्पं च जीवितम ॥ 80 ॥

  81. बह्व अलीकम असत्यं च परतिवादाप्रियं वदम इमं परेक्ष्य पुनर भावं दुःखशॊकाभिवर्धनम ॥ 81 ॥

  82. न मे मानुषलॊकॊ ऽयं मुहूर्तम अपि रॊचते अहॊ धिग गृध्रवाक्येन संनिवर्तथ मानुषाः ॥ 82 ॥

  83. परदीप्ताः पुत्रशॊकेन यथैवाबुद्धयस तथा कथं गच्छथ स सनेहाः सुतस्नेहं विसृज्य च शरुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥ 83 ॥

  84. सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम सुखदुःखान्विते लॊके नेहास्त्य एकम अनन्तकम ॥ 84 ॥

  85. इमं कषितितले नयस्य बालं रूपसमन्वितम कुलशॊकाकरं मूढाः पुत्रं तयक्त्वा कव यास्यथ ॥ 85 ॥

  86. रूपयौवन संपन्नं दयॊतमानम इव शरिया जीवंतम एवं पश्यामि मनसा नात्र संशयः ॥ 86 ॥

  87. विनाशश चाप्य अनर्हॊ ऽसय सुखं पराप्स्यथ मानुषाः पुत्रशॊकाग्निदग्धानां मृतम अप्य अद्य वः कषमम ॥ 87 ॥

  88. दुःखसंभावनां कृत्वा धारयित्वा सवयं सुखम तयक्त्वा गमिष्यथ कवाद्य समुत्सृज्याल्प बुद्धिवत ॥ 88 ॥

  89. [भ] तथा धर्मविरॊधेन परिय मिथ्याभिध्यायिना शमशानवासिना नित्यं रात्रिं मृगयता तदा ॥ 89 ॥

  90. ततॊ मध्यस्थतां नीता वचनैर अमृतॊपमैः जम्बुकेन सवकार्यार्थं बान्धवास तस्य धिष्ठिताः ॥ 90 ॥

  91. [ग] अयं परेतसमाकीर्णॊ यक्षराक्षस सेवितः दारुणः काननॊद्देशः कौशिकैर अभिनादितः ॥ 91 ॥

  92. भीमः सुघॊरश च तथा नीलमेघसमप्रभः अस्मिञ शवं परित्यज्य परेतकार्याण्य उपासत ॥ 92 ॥

  93. भानुर यावन न यात्य अस्तं यावच च विमला दिशः तावद एनं परित्यज्य परेतकार्याण्य उपासत ॥ 93 ॥

  94. नदन्ति परुषं शयेनाः शिवाः करॊशन्ति दारुणाः मृगेन्द्राः परतिनन्दन्ति रविर अस्तं च गच्छति ॥ 94 ॥

  95. चिताधूमेन नीलेन संरज्यन्ते च पादपाः शमशाने च निराहाराः परतिनन्दन्ति देहिनः ॥ 95 ॥

  96. सर्वे विक्रान्तवीर्याश च अस्मिन देशे सुदारुणाः युष्मान परधर्षयिष्यन्ति विकृता मांसभॊजनाः ॥ 96 ॥

  97. दूराच चायं वनॊद्देशॊ भयम अत्र भविष्यति तयज्यतां काष्ठभूतॊ ऽयं मृष्यतां जाम्बुकं वचः ॥ 97 ॥

  98. यदि जम्बुक वाक्यानि निष्फलान्य अनृतानि च शरॊष्यथ भरष्टविज्ञानास ततः सर्वे विनङ्क्ष्यथ ॥ 98 ॥

  99. [ज] सथीयतां नेह भेतव्यं यावत तपति भास्करः तावद अस्मिन सुतस्नेहाद अनिर्वेदेन वर्तत ॥ 99 ॥

  100. सवैरं रुदत विस्रब्धाः सवैरं सनेहेन पश्यत सथीयतां यावद आदित्यः किं वः करव्यादभाषितैः ॥ 100 ॥

  101. यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च गृह्णीत मॊहितात्मानः सुतॊ वॊ न भविष्यति ॥ 101 ॥

  102. [भ] गृध्रॊ ऽनस्तमिते तव आह गते ऽसतम इति जम्बुकः मृतस्य तं परिजनम ऊचतुस तौ कषुधान्वितौ ॥ 102 ॥

  103. सवकार्यदक्षिणौ राजन गृध्रॊ जम्बुक एव च कषुत्पिपासापरिश्रान्तौ शास्त्रम आलम्ब्य जल्पतः ॥ 103 ॥

  104. तयॊर विज्ञानविदुषॊर दवयॊर जम्बुक पत्रिणॊः वाक्यैर अमृतकल्पैर हि परातिष्ठन्त वरजन्ति च ॥ 104 ॥

  105. शॊकदैन्य समाविष्टा रुदन्तस तस्थिरे तदा सवकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात ॥ 105 ॥

  106. तथा तयॊर विवदतॊर विज्ञानविदुषॊर दवयॊः बान्धवानां सथितानां च उपातिष्ठत शंकरः ॥ 106 ॥

  107. ततस तान आह मनुजान वरदॊ ऽसमीति शूलभृत ते परत्यूचुर इदं वाक्यं दुःखिताः परणताः सथिताः ॥ 107 ॥

  108. एकपुत्र विहीनानां सर्वेषां जीवितार्थिनाम पुत्रस्य नॊ जीव दानाज जिवितं दातुम अर्हसि ॥ 108 ॥

  109. एवम उक्तः स भगवान वारिपूर्णेन पाणिना जीवं तस्मै कुमाराय परादाद वर्षशताय वै ॥ 109 ॥

  110. तथा गॊमायुगृध्राभ्याम अददत कषुद विनाशनम वरं पिनाकी भगवान सर्वभूतहिते रतः ॥ 110 ॥

  111. ततः परणम्य तं देवं शरेयॊ हर्षसमन्विताः कृतकृत्याः सुखं हृष्टाः परातिष्ठन्त तदा विभॊ ॥ 111 ॥

  112. अनिर्वेदेन दीर्घेण निश्चयेन धरुवेण च देवदेव परसादाच च कषिप्रं फलम अवाप्यते ॥ 112 ॥

  113. पश्य देवस्य संयॊगं बान्धवानां च निश्चयम कृपणानां हि रुदतां कृतम अश्रुप्रमार्जनम ॥ 113 ॥

  114. पश्य चाल्पेन कालेन निश्चयान्वेषणेन च परसादं शंकरात पराप्य दुःखिताः सुखम आप्नुवन ॥ 114 ॥

  115. ते विस्मिताः परहृष्टाश च पुत्र संजीवनात पुनः बभूवुर भरतश्रेष्ठ परसादाच छंकरस्य वै ॥ 115 ॥

  116. ततस ते तवरिता राजञ शरुत्वां शॊकम अघॊद्भवम विविशुः पुत्रम आदाय नगरं हृष्टमानसाः एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता ॥ 116 ॥

  117. धर्मार्थमॊक्षसंयुक्तम इतिहासम इमं शुभम शरुत्वा मनुष्यः सततम इह परेत्य च मॊदते ॥ 117 ॥

Reach this point to mark the section finished.

Continue to अध्याय 150

Previous: अध्याय 148