[य] अबुद्धि पूर्वं यः पापं कुर्याद भरतसत्तम मुच्यते स कथं तस्माद एनसस तद वदस्व मे ॥ 1 ॥
[भ] अत्र ते वर्णयिष्ये ऽहम इतिहासं पुरातनम इन्द्रॊतः शौनकॊ विप्रॊ यद आह जनमेजयम ॥ 2 ॥
आसीद राजा महावीर्यः पारिक्षिज जनमेजयः अबुद्धि पूर्वं बरह्महत्या तम आगच्छन महीपतिम ॥ 3 ॥
तं बराह्मणाः सर्व एव तत्यजुः स पुरॊहिताः जगाम स वनं राजा दह्यमानॊ दिवानिशम ॥ 4 ॥
स परजाभिः परित्यक्तश चकार कुशलं महत अतिवेलं तपस तेपे दह्यमानः स मन्युना ॥ 5 ॥
तत्रेतिहासं वक्ष्यामि धर्मस्यास्यॊपबृंहणम दह्यमानः पापकृत्या जगाम जनमेजयः ॥ 6 ॥
वरिष्यमाण इन्द्रॊतं शौनकं संशितव्रतम समासाद्यॊपजग्राह पादयॊः परिपीडयन ॥ 7 ॥
ततॊ भीतॊ महाप्रज्ञॊ जगर्हे सुभृशं तदा कर्ता पापस्य महतॊ भरूणहा किम इहागतः ॥ 8 ॥
किं तवास्मासु कर्तव्यं मामा सप्राक्षीः कथं चन गच्छ गच्छ न ते सथानं परीणात्य अस्मान इह धरुवम ॥ 9 ॥
रुधिरस्येव ते गन्धः शवस्येव च दर्शनम अशिवः शिव संकाशॊ मृतॊ जीवन्न इवाटसि ॥ 10 ॥
अन्तर मृत्युर अशुद्धात्मा पापम एवानुचिन्तयन परबुध्यसे परस्वपिषि वर्तसे चरसे सुखी ॥ 11 ॥
मॊघं ते जीवितं राजन परिक्लिष्टं च जीवसि पापायेव च सृष्टॊ ऽसि कर्मणे ह यवीयसे ॥ 12 ॥
बहुकल्याणम इच्छन्त ईहन्ते पितरः सुतान तपसा देवतेज्याभिर वन्दनेन तितिक्षया ॥ 13 ॥
पितृवंशम इमं पश्य तवत्कृते नरकं गतम निरर्थाः सर्व एवैषाम आशा बन्धास तवदाश्रयाः ॥ 14 ॥
यान पूजयन्तॊ विन्दन्ति सवर्गम आयुर यशः सुखम तेषु ते सततं दवेषॊ बराह्मणेषु निरर्थकः ॥ 15 ॥
इमं लॊकं विमुच्य तवम अवाङ्मूर्धा पतिष्यसि अशाश्वतीः शाश्वतीश च समाः पापेन कर्मणा ॥ 16 ॥
अद्यमानॊ जन्तु गृध्रैः शितिकण्ठैर अयॊमुखैर ततॊ ऽपि पुनर आवृत्तः पापयॊनिं गमिष्यसि ॥ 17 ॥
यद इदं मन्यसे राजन नायम अस्ति परः कुतः परतिस्मारयितारस तवां यमदूता यमक्षये ॥ 18 ॥
शान्तिपर्व · Shanti Parva
अध्याय 146
Reach this point to mark the section finished.
Continue to अध्याय 147