[भ] विमानस्थौ तु तौ राजँल लुब्धकॊ वै ददर्श ह दृष्ट्वा तौ दम्पती दुःखाद अचिन्तयत सद गतिम ॥ 1 ॥
कीदृशेनेह तपसा गच्छेयं परमां गतिम इति बुद्ध्या विनिश्चित्य गमनायॊपचक्रमे ॥ 2 ॥
महाप्रस्थानम आश्रित्य लुब्धकः पक्षिजीवनः निश्चेष्टॊ मारुताहारॊ निर्ममः सवर्गकाङ्क्षया ॥ 3 ॥
ततॊ ऽपश्यत सुविस्तीर्णं हृद्यं पद्मविभूषितम नानाद्विज गणाकीर्णं सरः शीतजलं शुभम पिपासार्थॊ ऽपि तद दृष्ट्वा तृप्तः सयान नात्र संशयः ॥ 4 ॥
उपवासकृशॊ ऽतयर्थं स तु पार्थिव लुब्धकः उपसर्पत संहृष्टः शवापदाध्युषितं वनम ॥ 5 ॥
महान्तं निश्चयं कृत्वा लुब्धकः परविवेश ह परविशन्न एव च वनं निगृहीतः स कण्टकैः ॥ 6 ॥
स कण्टक विभुग्नाङ्गॊ लॊहितार्द्रीकृतच्छविः बभ्राम तस्मिन विजने नानामृगसमाकुले ॥ 7 ॥
ततॊ दरुमाणां महतां पवनेन वने तदा उदतिष्ठत संघर्षात सुमहान हव्यवाहनः ॥ 8 ॥
तद वनं वृष्क संकीर्णं लता विटप संकुलम ददाह पावकः करुद्धॊ युगान्ताग्निसमप्रभः ॥ 9 ॥
स जवालैः पवनॊद्धूतैर विस्फुलिङ्गैः समन्वितः ददाह तद वनं घॊरं मृगपक्षिसमाकुलम ॥ 10 ॥
ततः स देहमॊक्षार्थं संप्रहृष्टेन चेतसा अभ्यधावत संवृद्धं पावकं लुब्धकस तदा ॥ 11 ॥
ततस तेनाग्निना दग्धॊ लुब्धकॊ नष्टकिल्बिषः जगाम परमां सिद्धिं तदा भरतसत्तम ॥ 12 ॥
ततः सवर्गस्थम आत्मानं सॊ ऽपश्यद विगतज्वरः यक्षगन्धर्वसिद्धानां मध्ये भराजन्तम इन्द्रवत ॥ 13 ॥
एवं खलु कपॊतश च कपॊती च पतिव्रता लुब्धकेन सह सवर्गं गताः पुण्येन कर्मणा ॥ 14 ॥
यापि चैवं विधा नारी भर्तारम अनुवर्तते विराजते हि सा कषिप्रं कपॊतीव दिवि सथिताः ॥ 15 ॥
एवम एतत पुरावृत्तं लुब्धकस्य महात्मनः कपॊतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा ॥ 16 ॥
यश चेदं शृणुयान नित्यं यश चेदं परिकीर्तयेत नाशुभं विद्यते तस्य मनसापि परमाद्यतः ॥ 17 ॥
युधिष्ठिर महान एष धर्मॊ धर्मभृतां वर गॊघ्नेष्व अपि भवेद अस्मिन निष्कृतिः पापकर्मणः निष्कृतिर न भवेत तस्मिन यॊ हन्याच छरणागतम ॥ 18 ॥
शान्तिपर्व · Shanti Parva
अध्याय 145
Reach this point to mark the section finished.
Continue to अध्याय 146