धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 144

  1. [भ] ततॊ गते शाकुनिके कपॊती पराह दुःखिता संस्मृत्य भर्तारम अथॊ रुदती शॊकमूर्छिता ॥ 1 ॥

  2. नाहं ते विप्रियं कान्त कदा चिद अपि संस्मरे सर्वा वै विधवा नारी बहुपुत्रापि खेचर शॊच्या भवति बन्धूनां पतिहीना मनस्विनी ॥ 2 ॥

  3. लालिताहं तवया नित्यं बहुमानाच च सान्त्विता वचनैर मधुरैः सनिग्धैर असकृत सुमनॊहरैः ॥ 3 ॥

  4. कन्दरेषु च शैलानां नदीनां निर्झरेषु च दरुमाग्रेषु च रम्येषु रमिताहं तवया परिय ॥ 4 ॥

  5. आकाशगमने चैव सुखिताहं तवया सुखम विहृतास्मि तवया कान्त तन मे नाद्यास्ति किं चन ॥ 5 ॥

  6. मितं ददाति हि पिता मितं माता मितं सुतः अमितस्य तु दातारं भर्तारं का न पूजयेत ॥ 6 ॥

  7. नास्ति भर्तृसमॊ नाथॊ न च भर्तृसमं सुखम विसृज्य धनसर्वस्वं भर्ता वै शरणं सत्रियाः ॥ 7 ॥

  8. न कार्यम इह मे नाथ जीवितेन तवया विना पतिहीनापि का नारी सती जीवितुम उत्सहेत ॥ 8 ॥

  9. एवं विलप्य बहुधा करुणं सा सुदुःखिता पतिव्रता संप्रदीप्तं परविवेश हुताशनम ॥ 9 ॥

  10. ततश चित्राम्बर धरं भर्तारं सान्वपश्यत विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ॥ 10 ॥

  11. चित्रमाल्याम्बरधरं सर्वाभरणभूषितम विमानशक्त कॊटीभिर आवृतं पुण्यकीर्तिभिः ॥ 11 ॥

  12. ततः सवर्गगतः पक्षी भार्यया सह संगतः कर्मणा पूजितस तेन रेमे तत्र सभार्यया ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 145

Previous: अध्याय 143