धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 143

  1. [भ] ततस तं लुब्धकः पश्यन कृपयाभिपरिप्लुतः कपॊतम अग्नौ पतितं वाक्यं पुनर उवाच ह ॥ 1 ॥

  2. किम ईदृशं नृशंसेन मया कृतम अबुद्धिना भविष्यति हि मे नित्यं पातकं हृदि जीवतः ॥ 2 ॥

  3. स विनिन्दन्न अथात्मानं पुनः पुनर उवाच ह धिन माम अस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम शुभं कर्म परित्यज्य यॊ ऽहं शकुनिलुब्धकः ॥ 3 ॥

  4. नृशंसस्य ममाद्यायं परत्यादेशॊ न संशयः दत्तः सवमांसं ददता कपॊतेन महात्मना ॥ 4 ॥

  5. सॊ ऽहं तयक्ष्ये परियान पराणान पुत्रदारं विसृज्य च उपदिष्टॊ हि मे धर्मः कपॊतेनातिधर्मिणा ॥ 5 ॥

  6. अद्य परभृति देहं सवं सर्वभॊगैर विवर्जितम यथा सवल्पं जलं गरीष्मे शॊषयिष्याम्य अहं तथा ॥ 6 ॥

  7. कषुत्पिपासातप सहः कृशॊ धमनि संततः उपवासैर बहुविधैश चरिष्ये पारलौकिकम ॥ 7 ॥

  8. अहॊ देहप्रदानेन दर्शितातिथि पूजना तस्माद धर्मं चरिष्यामि धर्मॊ हि परमा गतिः दृष्टॊ हि धर्मॊ धर्मिष्ठैर यादृशॊ विहगॊत्तमे ॥ 8 ॥

  9. एवम उक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः महाप्रस्थानम आश्रित्य परययौ संशितव्रतः ॥ 9 ॥

  10. ततॊ यष्टिं शलाकाश च कषारकं पञ्जरं तथा तांश च बद्धा कपॊतान स संप्रमुच्यॊत्ससर्ज ह ॥ 10 ॥

Reach this point to mark the section finished.

Continue to अध्याय 144

Previous: अध्याय 142