धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 142

  1. [भ] अथ वृक्षस्य शाखायां विहंगः स सुहृज्जनः दीर्घकालॊषितॊ राजंस तत्र चित्रतनू रुहः ॥ 1 ॥

  2. तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत पराप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥ 2 ॥

  3. वातवर्षं महच चासीन न चागच्छति मे परिया किं नु तत कारणं येन साद्यापि न निवर्तते ॥ 3 ॥

  4. अपि सवस्ति भवेत तस्याः परियाया मम कानने तया विरहितं हीदं शून्यम अद्य गृहं मम ॥ 4 ॥

  5. यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥ 5 ॥

  6. पतिधर्मरता साध्वी पराणेभ्यॊ ऽपि गरीयसी सा हि शरान्तं कषुधार्तं च जानीते मां तपस्विनी ॥ 6 ॥

  7. अनुरक्ता हिता चैव सनिग्धा चैव पतिव्रता यस्य वै तादृशी भार्या धन्यः स मनुजॊ भुवि ॥ 7 ॥

  8. भार्या हि परमॊ नाथः पुरुषस्येह पठ्यते असहायस्य लॊके ऽसमिँल लॊकयात्रा सहायिनी ॥ 8 ॥

  9. तथा रॊगाभिभूतस्य नित्यं कृच्छ्रगतस्य च नास्ति भार्यासमं किं चिन नरस्यार्तस्य भेषजम ॥ 9 ॥

  10. नास्ति भार्यासमॊ बन्धुर नास्ति भार्यासमा गतिः नास्ति भार्यासमॊ लॊके सहायॊ धर्मसाधनः ॥ 10 ॥

  11. एवं विपलतस तस्य दविजस्यार्तस्य तत्र वै गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम ॥ 11 ॥

  12. न सा सत्रीत्य अभिभाषा सयाद यस्या भर्ता न तुष्यति अग्निसाक्षिकम अप्य एतद भर्ता हि शरणं सत्रियः ॥ 12 ॥

  13. इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा कपॊती लुब्धकेनाथ यत्ता वचनम अब्रवीत ॥ 13 ॥

  14. हन्त वक्ष्यामि ते शरेयः शरुत्वा च कुरु तत तथा शरणागत संत्राता भव कान्त विशेषतः ॥ 14 ॥

  15. एष शाकुनिकः शेते तव वासं समाश्रितः शीतार्तश च कषुधार्तश च पूजाम अस्मै परयॊजय ॥ 15 ॥

  16. यॊ हि कश चिद दविजं हन्याद गां वा लॊकस्य मातरम शरणागतं च यॊ हन्यात तुल्यं तेषां च पातकम ॥ 16 ॥

  17. यास्माकं विहिता वृत्तिः कापॊती जातिधर्मतः सा नयाय्यात्मवता नित्यं तवद्विधेनाभिवर्तितुम ॥ 17 ॥

  18. यस तु धर्मं यथाशक्ति गृहस्थॊ हय अनुवर्तते स परेत्य लभते लॊकान अक्षयान इति शुश्रुम ॥ 18 ॥

  19. स तवं संतानवान अद्य पुत्रवान अपि च दविज तत सवदेहे दयां तयक्त्वा धर्मार्थौ परिगृह्य वै पूजाम अस्मै परयुङ्क्ष्व तवं परीयेतास्य मनॊ यथा ॥ 19 ॥

  20. इति सा शकुनी वाक्यं कषारकस्था तपस्विनी अतिदुःखान्विता परॊच्य भर्तारं समुदैक्षत ॥ 20 ॥

  21. स पत्न्या वचनं शरुत्वा धर्मयुक्ति समन्वितम हर्षेण महता युक्तॊ बाष्पव्याकुललॊचनः ॥ 21 ॥

  22. तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा पूजयाम आस यत्नेन स पक्षी पक्षिजीविनम ॥ 22 ॥

  23. उवाच च सवागतं ते बरूहि किं करवाण्य अहम संतापश च न कर्तव्यः सवगृहे वर्तते भवान ॥ 23 ॥

  24. तद बरवीतु भवान कषिप्रं किं करॊमि किम इच्छसि परणयेन बरवीमि तवां तवं हि नः शरणागतः ॥ 24 ॥

  25. शरणागतस्य कर्तव्यम आतिथ्यम इह यत्नतः पञ्च यज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥ 25 ॥

  26. पञ्च यज्ञांस तु यॊ मॊहान न करॊति गृहाश्रमी तस्य नायं नच परॊ लॊकॊ भवति धर्मतः ॥ 26 ॥

  27. तद बरूहि तवं सुविस्रब्धॊ यत तवं वाचा वदिष्यसि तत करिष्याम्य अहं सर्वं मा तवं लॊके मनः कृथाः ॥ 27 ॥

  28. तस्य तद वचनं शरुत्वा शकुनेर लुब्धकॊ ऽबरवीत बाधते खलु मा शीतं हिमत्राणं विधीयताम ॥ 28 ॥

  29. एवम उक्तस ततः पक्षी पर्णान्य आस्तीर्य भूतले यथा शुष्काणि यत्नेन जवलनार्थं दरुतं ययौ ॥ 29 ॥

  30. स गत्वाङ्गार कर्मान्तं गृहीत्वाग्निम अथागमत ततः शुष्केषु पर्णेषु पावकं सॊ ऽभयदीदिपत ॥ 30 ॥

  31. सुसंदीप्तं महत कृत्वा तम आह शरणागतम परतापय सुविस्रब्धं सवगात्राण्य अकुतॊभयः ॥ 31 ॥

  32. स तथॊक्तस तथेत्य उक्त्वा लुब्धॊ गात्राण्य अतापयत अग्निप्रत्यागत पराणस ततः पराह विहंगमम ॥ 32 ॥

  33. दत्तम आहारम इच्छामि तवया कषुद बाधते हि माम तद वचः स परतिश्रुत्य वाक्यम आह विहंगमः ॥ 33 ॥

  34. न मे ऽसति विभवॊ येन नाशयामि तव कषुधाम उत्पन्नेन हि जीवामॊ वयं नित्यं वनौकसः ॥ 34 ॥

  35. संचयॊ नास्ति चास्माकं मुनीनाम इव कानने इत्य उक्त्वा स तदा तत्र विवर्णवदनॊ ऽभवत ॥ 35 ॥

  36. कथं नु खलु कर्तव्यम इति चिन्तापरः सदा बभूव भरतश्रेष्ठ गर्हयन वृत्तिम आत्मनः ॥ 36 ॥

  37. मुहूर्ताल लब्धसंज्ञस तु स पक्षी पक्षिघातकम उवाच तर्पयिष्ये तवां मुहूर्तं परतिपालय ॥ 37 ॥

  38. इत्य उक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम हर्षेण महता युक्तः कपॊतः पुनर अब्रवीत ॥ 38 ॥

  39. देवानां च मुनीनां च पितॄणां च महात्मनाम शरुतपूर्वॊ मया धर्मॊ महान अतिथिपूजने ॥ 39 ॥

  40. कुरुष्वानुग्रहं मे ऽदय सत्यम एतद बरवीमि ते निश्चिता खलु मे बुद्धिर अतिथिप्रतिपूजने ॥ 40 ॥

  41. ततः सत्यप्रतिज्ञॊ वै स पक्षी परहसन्न इव तम अग्निं तरिः परिक्रम्य परविवेश महीपते ॥ 41 ॥

  42. अग्निमध्यं परविष्टं त लुब्धॊ दृष्ट्वाथ पक्षिणम चिन्तयाम आस मनसा किम इदं नु कृतं मया ॥ 42 ॥

  43. अहॊ मम नृशंसस्य गर्हितस्य सवकर्मणा अधर्मः सुमहान घॊरॊ भविष्यति न संशयः ॥ 43 ॥

  44. एवं बहुविधं भूरि विललाप स लुब्धकः गर्हयन सवानि कर्माणि दविजं दृष्ट्वा तथागतम ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 143

Previous: अध्याय 141