[य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद शरणं पालयानस्य यॊ धर्मस तं वदस्व मे ॥ 1 ॥
[भ] महान धर्मॊ महाराज शरणागत पालने अर्हः परष्टुं भवांश चैव परश्नं भरतसत्तम ॥ 2 ॥
नृगप्रभृतयॊ राजन राजानः शरणागतान परिपाल्य महाराज संसिद्धिं परमां गताः ॥ 3 ॥
शरूयते हि कपॊतेन शत्रुः शरणम आगतः पूजितश च यथान्यायं सवैश च मांसैर निमन्त्रितः ॥ 4 ॥
[य] कथं कपॊतेन पुरा शत्रुः शरणम आगतः सवमांसैर भॊजितः कां च गतिं लेभे स भारत ॥ 5 ॥
[भ] शृणु राजन कथां दिव्यां सर्वपापप्रणाशिनीम नृपतेर मुचुकुन्दस्य कथितां भार्गवेण ह ॥ 6 ॥
इमम अर्थं पुरा पार्थ मुचुकुन्दॊ नराधिपः भार्गवं परिपप्रच्छ परणतॊ भरतर्षभ ॥ 7 ॥
तस्मै शुश्रूषमाणाय भार्गवॊ ऽकथयत कथाम इयं यथा कपॊतेन सिद्धिः पराप्ता नराधिप ॥ 8 ॥
धर्मनिश्चय संयुक्तां कामार्थसहितां कथाम शृणुष्वावहितॊ राजन गदतॊ मे महाभुज ॥ 9 ॥
कश चित कषुद्रसमाचारः पृथिव्यां कालसंमतः चचार पृथिवीं पापॊ घॊरः शकुनिलुब्धकः ॥ 10 ॥
काकॊल इव कृष्णाङ्गॊ रूक्षः पापसमाहितः यवमध्यः कृश गरीवॊ हरस्वपादॊ महाहनुः ॥ 11 ॥
नैव तस्य सुहृत कश चिन न संबन्धी न बान्धवः स हि तैः संपरित्यक्तस तेन घॊरेण कर्मणा ॥ 12 ॥
स वै कषारकम आदाय दविजान हत्वा वने सदा चकार विक्रयं तेषां पतंगानां नराधिप ॥ 13 ॥
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः अगमत सुमहान कालॊ न चाधर्मम अबुध्यत ॥ 14 ॥
तस्य भार्या सहायस्य रममाणस्य शाश्वतम दैवयॊगविमूढस्य नान्या वृत्तिर अरॊचत ॥ 15 ॥
ततः कदा चित तस्याथ वनस्थस्य समुद्गतः पातयन्न इव वृक्षांस तान सुमहान वातसंभ्रमः ॥ 16 ॥
मेघसंकुलम आकाशं विद्युन्मण्डलमण्डितम संछन्नं सुमुहूर्तेन नौ सथानेनेव सागरः ॥ 17 ॥
वारिधारा समूहैश च संप्रहृष्टः शतक्रतुः कषणेन पूरयाम आस सलिलेन वसुंधराम ॥ 18 ॥
ततॊ धाराकुले लॊके संभ्रमन नष्टचेतनः शीतार्तस तद वनं सर्वम आकुलेनान्तर आत्मना ॥ 19 ॥
नैव निम्नं सथलं वापि सॊ ऽविन्दत विहंगहा पूरितॊ हि जलौघेन मार्गस तस्य वनस्य वै ॥ 20 ॥
पक्षिणॊ वातवेगेन हता लीनास तदाभवन मृगाः सिंहा वराहाश च सथलान्य आश्रित्य तस्थिरे ॥ 21 ॥
महता वातवर्षेण तरासितास ते वनौकसः भयार्ताश च कषुधार्ताश च बभ्रमुः सहिता वने ॥ 22 ॥
स तु शीतहतैर गात्रैर जगामैव न तस्थिवान सॊ ऽपश्यद वनषण्डेषु मेघनीलं वनस्पतिम ॥ 23 ॥
ताराढ्यं कुमुदाकारम आकाशं निर्मलं च ह मेघैर मुक्तं नभॊ दृष्ट्वा लुब्धकः शीतविह्वलः ॥ 24 ॥
दिशॊ ऽवलॊकयाम आस वेलां चैव दुरात्मवान दूरे गरामनिवेशश च तस्माद देशाद इति परभॊ कृतबुद्धिर वने तस्मिन वस्तुं तां रजनीं तदा ॥ 25 ॥
सॊ ऽञजलिं परयतः कृत्वा वाक्यम आह वनस्पतिम शरणं यामि यान्य अस्मिन दैवतानीह भारत ॥ 26 ॥
स शिलायां शिरः कृत्वा पर्णान्य आस्तीर्य भूतले दुःखेन महताविष्टस ततः सुष्वाप पक्षिहा ॥ 27 ॥
शान्तिपर्व · Shanti Parva
अध्याय 141
Reach this point to mark the section finished.
Continue to अध्याय 142