[य] यद इदं घॊरम उद्दिष्टम अश्रद्धेयम इवानृतम अस्ति सविद दस्यु मर्यादा याम अहं परिवर्जये ॥ 1 ॥
संमुह्यामि विषीदामि धर्मॊ मे शिथिली कृतः उद्यमं नाधिगच्छामि कुतश चित परिचिन्तयन ॥ 2 ॥
[भ] नैतच छुद्धागमाद एव तव धर्मानुशासनम परज्ञा समवतारॊ ऽयं कविभिः संभृतं मधु ॥ 3 ॥
बह्व्यः परतिविधातव्याः परज्ञा राज्ञा ततस ततः नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते ॥ 4 ॥
बुद्धिसंजननं राज्ञां धर्मम आचरतां सदा जयॊ भवति कौरव्य तदा तद विद्धि मे वचः ॥ 5 ॥
बुद्धिश्रेष्ठा हि राजानॊ जयन्ति विजयैषिणः धर्मः परतिविधातव्यॊ बुद्ध्या राज्ञा ततस ततः ॥ 6 ॥
नैकशाकेन धर्मेण राज्ञां धर्मॊ विधीयते दुर्बलस्य कुतः परज्ञा पुरस्ताद अनुदाहृता ॥ 7 ॥
अद्वैधज्ञः पथि दवैधे संशयं पराप्तुम अर्हति बुद्धिद्वैधं वेदितव्यं पुरस्ताद एव भारत ॥ 8 ॥
पार्श्वतः करणं परज्ञा विषूची तव आपगा इव जनस तूच्चारितं धर्मं विजानात्य अन्यथान्यथा ॥ 9 ॥
सम्यग विज्ञानिनः के चिन मिथ्या विज्ञानिनॊ ऽपरे तद वै यथातथं बुद्ध्वा जञानम आददते सताम ॥ 10 ॥
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः वैषम्यम अर्थविद्यानां नैरर्थ्यात खयापयन्ति ते ॥ 11 ॥
आजिजीविषवॊ विद्यां यशः कामाः समन्ततः ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः ॥ 12 ॥
अपक्व मतयॊ मन्दा न जानन्ति यथातथम सदा हय अशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः ॥ 13 ॥
परिमुष्णन्ति शास्त्राणि शास्त्रदॊषानुदर्शिनः विज्ञानम अथ विद्यानां न सम्यग इति वर्तते ॥ 14 ॥
निन्दया परविद्यानां सवां विद्यां खयापयन्ति ये वाग अस्त्रा वाक्छुरीमत्त्वा दुग्ध विद्या फला इव ॥ 15 ॥
तान विद्या वणिजॊ विद्धि रक्षसान इव भारत वयाजेन कृत्स्नॊ विदितॊ धर्मस ते परिहास्यते न धर्मवचनं वाचा न बुद्ध्या चेति नः शरुतम ॥ 16 ॥
इति बार्हस्पतं जञानं परॊवाच मघवा सवयम न तव एव वचनं किं चिद अनिमित्ताद इहॊच्यते ॥ 17 ॥
सवविनीतेन शास्त्रेण वयवस्यन्ति तथापरे लॊकयात्राम इहैके तु धर्मम आहुर मनीषिणः ॥ 18 ॥
समुद्दिष्टं सतां धर्मं सवयम ऊहेन न पण्डितः अमर्षाच छास्त्र संमॊहाद अविज्ञानाच च भारत ॥ 19 ॥
शास्त्रं पराज्ञस्य वदतः समूहे यात्य अदर्शनम आगतागमया बुद्ध्या वचनेन परशस्यते ॥ 20 ॥
अज्ञानाज जञानहेतुत्वाद वचनं साधु मन्यते अनपाहतम एवेदं नेदं शास्त्रम अपार्थकम ॥ 21 ॥
दैतेयान उशनाः पराह संशयच छेदने पुरा जञानम अव्यपदेश्यं हि यथा नास्ति तथैव तत ॥ 22 ॥
तेन तवं छिन्नमूलेन कं तॊषयितुम अर्हसि अतथ्य विहितं यॊ वा नेदं वाक्यम उपाश्नुयात ॥ 23 ॥
उग्रायैव हि सृष्टॊ ऽसि कर्मणे न तव अवेक्षसे अङ्गेमाम अन्ववेक्षस्व राजनीतिं बुभूषितम यया परमुच्यते तव अन्यॊ यदर्थं च परमॊदते ॥ 24 ॥
अजॊ ऽशवः कषत्रम इत्य एतत सदृशं बरह्मणा कृतम तस्माद अभीष्ण भूतानां यात्रा का चित परसिध्यति ॥ 25 ॥
यस तव अवध्यवधे दॊषः स वध्यस्यावधे समृतः एषैव खलु मर्यादा याम अयं परिवर्जयेत ॥ 26 ॥
तस्मात तीक्ष्णः परजा राजा सवधर्मे सथापयेद उत अन्यॊन्यं भक्षयन्तॊ हि परचरेयुर वृका इव ॥ 27 ॥
यस्य दस्यु गणा राष्ट्रे धवाङ्क्षा मत्स्याञ जलाद इव विहरन्ति परस्वानि स वै कषत्रियपांसनः ॥ 28 ॥
कुलीनान सचिवान कृत्वा वेद विद्या समन्वितान परशाधि पृथिवीं राजन परजा धर्मेण पालयन ॥ 29 ॥
विहीनजम अकर्माणं यः परगृह्णाति भूमिपः उभयस्याविशेषज्ञस तद वै कषत्रं नपुंसकम ॥ 30 ॥
नैवॊग्रं नैव चानुग्रं धर्मेणेह परशस्यते उभयं न वयतिक्रामेद उग्रॊ भूत्वा मृदुर भव ॥ 31 ॥
कष्टः कषत्रिय धर्मॊ ऽयं सौहृदं तवयि यत सथितम उग्रे कर्मणि सृष्टॊ ऽसि तस्माद राज्यं परशाधि वै ॥ 32 ॥
अशिष्ट निग्रहॊ नित्यं शिष्टस्य परिपालनम इति शक्रॊ ऽबरवीद धीमान आपत्सु भरतर्षभ ॥ 33 ॥
[य] अस्ति सविद दस्यु मर्यादा याम अन्यॊ नातिलङ्घयेत पृच्छामि तवां सतां शरेष्ठ तन मे बरूहि पितामह ॥ 34 ॥
[भ] बराह्मणान एव सेवेत विद्या वृद्धांस तपस्विनः शरुतचारित्रवृत्ताढ्यान पवित्रं हय एतद उत्तमम ॥ 35 ॥
या देवतासु वृत्तिस ते सास्तु विप्रेषु सर्वदा करुद्धैर हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥ 36 ॥
तेषां परीत्या यशॊ मुख्यम अप्रीत्या तु विपर्ययः परीत्या हय अमृतवद विप्राः करुद्धाश चैव यथा विषम ॥ 37 ॥
शान्तिपर्व · Shanti Parva
अध्याय 140
Reach this point to mark the section finished.
Continue to अध्याय 141