[य] हीने परमके धर्मे सर्वलॊकातिलङ्घिनि अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥ 1 ॥
मर्यादासु परभिन्नासु कषुभिते धर्मनिश्चये राजभिः पीडिते लॊके चॊरैर वापि विशां पते ॥ 2 ॥
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च कामान मॊहाच च लॊभाच च भयं पश्यत्सु भारत ॥ 3 ॥
अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम ॥ 4 ॥
संप्रदीप्तेषु देशेषु बराह्मण्ये चाभिपीडिते अवर्षति च पर्जन्ये मिथॊ भेदे समुत्थिते ॥ 5 ॥
सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने केन सविद बराह्मणॊ जीवेज जघन्ये काल आगते ॥ 6 ॥
अतित्यक्षुः पुत्रपौत्रान अनुक्रॊशान नराधिप कथम आपत्सु वर्तेत तन मे बरूहि पितामह ॥ 7 ॥
कथं च राजा वर्तेत लॊके कलुषतां गते कथम अर्थाच च धर्माच च न हीयेत परंतप ॥ 8 ॥
[भ] राजमूला महाराज यॊगक्षेम सुवृष्टयः परजासु वयाधयश चैव मरणं च भयानि च ॥ 9 ॥
कृतं तरेता दवापरश च कलिश च भरतर्षभ राजमूलानि सर्वाणि मम नास्त्य अत्र संशयः ॥ 10 ॥
तस्मिंस तव अभ्यागते काले परजानां दॊषकारके विज्ञानबलम आस्थाय जीवितव्यं तदा भवेत ॥ 11 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥ 12 ॥
तरेता दवापरयॊः संधौ पुरा दैवविधिक्रमात अनावृष्टिर अभूद घॊरा राजन दवादश वार्षिकी ॥ 13 ॥
परजानाम अभिवृद्धानां युगान्ते पर्युपस्थिते तरेता निर्मॊक्ष समये दवापरप्रतिपादने ॥ 14 ॥
न ववर्ष सहस्राक्षः परतिलॊमॊ ऽभवद गुरुः जगाम दक्षिणं मार्गं सॊमॊ वयावृत्तलक्षणः ॥ 15 ॥
नावश्यायॊ ऽपि रात्र्यन्ते कुत एवाभ्र राजयः नद्यः संक्षिप्ततॊयौघाः कव चिद अन्तर्गताभवन ॥ 16 ॥
सरांसि सरितश चैव कूपाः परस्रवणानि च हतत्विट्कान्य अलक्ष्यन्त निसर्गाद दैवकारितात ॥ 17 ॥
उपशुष्क जलस्थाया विनिवृत्तसभा परपा निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥ 18 ॥
उत्सन्नकृषि गॊरक्ष्या निवृत्तविपणापणा निवृत्तपूगसमया संप्रनष्ट महॊत्सवा ॥ 19 ॥
अस्थि कङ्काल संकीर्णा हाहाभूतजनाकुला शून्यभूयिष्ठ नगरा दग्धग्राम निवेशना ॥ 20 ॥
कव चिच चॊरैः कव चिच छस्त्रैः कव चिद राजभिर आतुरैः परस्परभयाच चैव शून्यभूयिष्ठ निर्जना ॥ 21 ॥
गतदैवतसंकल्पा वृद्धबाल विनाकृता गॊजावि महिषैर हीना परस्परहरा हरा ॥ 22 ॥
हतविप्रा हता रक्षा परनष्टौषधि संचया शयाव भूतनरप्राया बभूव वसुधा तदा ॥ 23 ॥
तस्मिन परतिभये काले कषीणे धर्मे युधिष्ठिर बभ्रमुः कषुधिता मर्त्याः खादन्तः सम परस्परम ॥ 24 ॥
ऋषयॊ नियमांस तयक्त्वा परित्यक्ताग्निदैवताः आश्रमान संपरित्यज्य पर्यधावन्न इतस ततः ॥ 25 ॥
विश्वामित्रॊ ऽथ भगवान महर्षिर अनिकेतनः कषुधा परिगतॊ धीमान समन्तात पर्यधावत ॥ 26 ॥
स कदा चित परिपतञ शवपचानां निवेशनम हिंस्राणां पराणिहन्तॄणाम आससाद वने कव चित ॥ 27 ॥
विभिन्नकलशाकीर्णं शवचर्माच्छादनायुतम वराहखरभग्नास्थि कपालघट संकुलम ॥ 28 ॥
मृतचेल परिस्तीर्णं निर्माल्य कृतभूषणम सर्पनिर्मॊक मालाभिः कृतचिह्नकुटी मठम ॥ 29 ॥
उलूक पक्षध्वजिभिर देवतायतनैर वृतम लॊहघण्टा परिष्कारं शवयूथपरिवारितम ॥ 30 ॥
तत परविश्य कषुधाविष्टॊ गाधेः पुत्रॊ महान ऋषिः आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥ 31 ॥
न च कव चिद अविन्दत स भिक्षमाणॊ ऽपि कौशिकः मांसम अन्नं मूलफलम अन्यद वा तत्र किं चन ॥ 32 ॥
अहॊ कृच्छ्रं मया पराप्तम इति निश्चित्य कौशिकः पपात भूमौ दौर्बाल्यात तस्मिंश चण्डाल पक्कणे ॥ 33 ॥
चिन्तयाम आस स मुनिः किं नु मे सुकृतं भवेत कथं वृथा न मृत्युः सयाद इति पार्थिव सत्तम ॥ 34 ॥
स ददर्श शवमांसस्य कुतन्तीं विततां मुनिः चण्डालस्य गृहे राजन सद्यः शस्त्रहतस्य च ॥ 35 ॥
स चिन्तयाम आस तदा सतेयं कार्यम इतॊ मया न हीदानीम उपायॊ ऽनयॊ विद्यते पराणधारणे ॥ 36 ॥
आपत्सु विहितं सतेयं विशिष्ट समहीनतः परं परं भवेत पूर्वम अस्तेयम इति निश्चयः ॥ 37 ॥
हीनाद आदेयम आदौ सयात समानात तदनन्तरम असंभवाद आददीत विशिष्टाद अपि धार्मिकात ॥ 38 ॥
सॊ ऽहम अन्तावसानानां हरमाणः परिग्रहात न सतेय दॊषं पश्यामि हरिष्याम एतद आमिषम ॥ 39 ॥
एतां बुद्धिं समास्थाय विश्वामित्रॊ महामुनिः तस्मिन देशे परसुष्वाप पतितॊ यत्र भारत ॥ 40 ॥
स विगाढां निशां दृष्ट्वा सुप्ते चण्डाल पक्कणे शनैर उत्थाय भगवान परविवेश कुटी मठम ॥ 41 ॥
स सुप्त एव चण्डालः शरेष्मापिहित लॊचनः परिभिन्न सवरॊ रूक्ष उवाचाप्रिय दर्शनः ॥ 42 ॥
कः कुतन्तीं घट्टयति सुप्ते चण्डाल पक्कणे जागर्मि नावसुप्तॊ ऽसमि हतॊ ऽसीति च दारुणः ॥ 43 ॥
विश्वामित्रॊ ऽहम इत्य एव सहसा तम उवाच सः सहसाभ्यागत भयः सॊद्वेगस तेन कर्मणा ॥ 44 ॥
चण्डालस तद वचः शरुत्वा महर्षेर भावितात्मनः शयनाद उपसंभ्रान्त इयेषॊत्पतितुं ततः ॥ 45 ॥
स विसृज्याश्रु नेत्राभ्यां बहुमानात कृताञ्जलिः उवाच कौशिकं रात्रौ बरह्मन किं ते चिकीर्षितम ॥ 46 ॥
विश्वामित्रस तु मातङ्गम उवाच परिसान्त्वयन कषुधितॊ ऽहं गतप्राणॊ हरिष्यामि शवजाघनीम ॥ 47 ॥
अवसीदन्ति मे पराणाः समृतिर मे नश्यति कषुधा सवधर्मं बुध्यमानॊ ऽपि हरिष्यामि शवजाघनीम ॥ 48 ॥
अटन भैक्षं न विन्दामि यदा युष्माकम आलये तदा बुद्धिः कृता पापे हरिष्यामि शवजाघनीम ॥ 49 ॥
तृषितः कलुषं पाता नास्ति हरीर अशनार्थिनः कषुद धर्मं दूषयत्य अत्र हरिष्यामि शवजाघनीम ॥ 50 ॥
अग्निर मुखं पुरॊधाश च देवानां शुचि पाद विभुः यथा स सर्वभुग बरह्मा तथा मां विद्धि धर्मतः ॥ 51 ॥
तम उवाच स चण्डालॊ महर्षे शृणु मे वचः शरुत्वा तथा समातिष्ठ यथा धर्मान न हीयसे ॥ 52 ॥
मृगाणाम अधमं शवानं परवदन्ति मनीषिणः तस्याप्य अधम उद्देशः शरीरस्यॊरु जाघनी ॥ 53 ॥
नेदं सम्यग वयवसितं महर्षे कर्म वैकृतम चण्डाल सवस्य हरणम अभक्ष्यस्य विशेषतः ॥ 54 ॥
साध्व अन्यम अनुपश्य तवम उपायं पराणधारणे न मांसलॊभात तपसॊ नाशस ते सयान महामुने ॥ 55 ॥
जानतॊ ऽविहितॊ मार्गॊ न कार्यॊ धर्मसंकरः मा सम धर्मं परित्याक्षीस तवं हि धर्मविद उत्तमः ॥ 56 ॥
विश्वामित्रस ततॊ राजन्न इत्य उक्तॊ भरतर्षभ कषुधार्तः परत्युवाचेदं पुनर एव महामुनिः ॥ 57 ॥
निराहारस्य सुमहान मम कालॊ ऽभिधावतः न विद्यते ऽभयुपायश च कश चिन मे पराणधारणे ॥ 58 ॥
येन तेन विशेषेण कर्मणा येन केन चित अभ्युज्जीवेत सीदमानः समर्थॊ धर्मम आचरेत ॥ 59 ॥
ऐन्द्रॊ धर्मः कषत्रियाणां बराह्मणानाम अथाग्निकः बरह्म वह्निर मम बलं भक्ष्यामि समयं कषुधा ॥ 60 ॥
यथा यथा वै जीवेद धि तत कर्तव्यम अपीडया जीवितं मरणाच छरेयॊ जीवन धर्मम अवाप्नुयात ॥ 61 ॥
सॊ ऽहं जीवितम आकाङ्क्षन्न अभक्षस्यापि भक्षणम वयवस्ये बुद्धिपूर्वं वै तद भवान अनुमन्यताम ॥ 62 ॥
जीवन धर्मं चरिष्यामि परणॊत्स्याम्य अशुभानि च तपॊभिर विद्यया चैव जयॊतींषीव महत तमः ॥ 63 ॥
[षवपच] नैतत खादन पराप्स्यसे पराणम अन्यं; नायुर दीर्घं नामृतस्येव तृप्तिम भिक्षाम अन्यां भिक्ष माते मनॊ ऽसतु; शवभक्षणे शवा हय अभक्षॊ दविजानाम ॥ 64 ॥
[वि] न दुर्भिक्षे सुलभं मांसम अन्यच; छवपाक नान्नं न च मे ऽसति वित्तम कषुधार्तश चाहम अगतिर निराशः; शवमांसे चास्मिन षड्रसान साधु मन्ये ॥ 65 ॥
[ष] पञ्च पञ्चनखा भक्ष्या बरह्मक्षत्रस्य वै दविज यदि शास्त्रं परमाणं ते माभक्ष्ये मानसं कृथाः ॥ 66 ॥
[व] अगस्त्येनासुरॊ जग्धॊ वातापिः कषुधितेन वै अहम आपद गतः कषुब्धॊ भक्षयिष्ये शवजाघनीम ॥ 67 ॥
[ष] भिक्षाम अन्याम आहरेति न चैतत कर्तुम अर्हसि न नूनं कार्यम एतद वै हर कामं शवजाघनीम ॥ 68 ॥
[वि] शिष्टा वै कारणं धर्मे तद्वृत्तम अनुवर्तये परां मेध्याशनाद एतां भक्ष्यां मन्ये शवजाघनीम ॥ 69 ॥
[ष] असता यत समाचीर्णं न स धर्मः सनातनः नावृत्तम अनुकार्यं वै मा छलेनानृतं कृथाः ॥ 70 ॥
[वि] न पातकं नावमतम ऋषिः सन कर्तुम अर्हसि समौ च शवमृगौ मन्ये तस्माद भक्ष्या शवजाघनी ॥ 71 ॥
[ष] यद बराह्मणार्थे कृतम अर्थितेन; तेनर्षिणा तच च भक्ष्याधिकारम स वै धर्मॊ यत्र न पापम अस्ति; सर्वैर उपायैर हि स रक्षितव्यः ॥ 72 ॥
[वि] मित्रं च मे बराह्मणश चायम आत्मा; परियश च मे पूज्यतमश च लॊके तं भर्तु कामॊ ऽहम इमां हरिष्ये; नृशंसानाम ईदृशानां न बिभ्ये ॥ 73 ॥
[ष] कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः परतिकुर्वन्ति तत्र सर्वान कामान पराप्नुवन्तीह विद्वन; परियस्व कामं सहितः कषुधा वै ॥ 74 ॥
[वि] सथाने तावत संशयः परेत्य भावे; निःसंशयं कर्मणां वा विनाशः अहं पुनर वर्त इत्य आशयात्मा; मूलं रक्षन भक्षयिष्याम्य अभक्ष्यम ॥ 75 ॥
बुद्ध्यात्मके वयस्तम अस्तीति तुष्टॊ; मॊहाद एकत्वं यथा चर्म चक्षुः यद्य अप्य एनः संशयाद आचरामि; नाहं भविष्यामि यथा तवम एव ॥ 76 ॥
[ष] पतनीयम इदं दुःखम इति मे वर्तते मतिः दुष्कृती बराह्मणं सन्तं यस तवाम अहम उपालभे ॥ 77 ॥
[वि] पिबन्त्य एवॊदकं गावॊ मण्डूकेषु रुवत्स्व अपि न ते ऽधिकारॊ धर्मे ऽसति मा भूर आत्मप्रशंसकः ॥ 78 ॥
[ष] सुहृद भूत्वानुशास्मि तवा कृपा हि तवयि मे दविज तद एवं शरेय आधत्स्व मा लॊभाच छवानम आदिथाः ॥ 79 ॥
[वि] सुहृन मे तवं सुखेप्सुश चेद आपदॊ मां समुद्धर जाने ऽहं धर्मतॊ ऽऽतमानं शवानीम उत्सृज जाघनीम ॥ 80 ॥
[ष] नैवॊत्सहे भवते दातुम एतां; नॊपेक्षितुं हरियमाणं सवम अन्नम उभौ सयावः सवमलेनावलिप्तौ; दाताहं च तवं च विप्र परतीच्छन ॥ 81 ॥
[वि] अद्याहम एतद वृजिनं कर्मकृत्वा; जीवंश चरिष्यामि महापवित्रम परपूतात्मा धर्मम एवाभिपत्स्ये; यद एतयॊर गुरु तद वै बरवीहि ॥ 82 ॥
[ष] आत्मैव साक्षी किल लॊककृत्ये; तवम एव जानासि यद अत्र दुष्टम यॊ हय आद्रियेद भक्ष्यम इति शवमांसं; मन्ये न तस्यास्ति विवर्जनीयम ॥ 83 ॥
[वि] उपादाने खादने वास्य दॊषः; कार्यॊ नयायैर नित्यम अत्रापवादः यस्मिन न हिंसा नानृते वाक्यलेशॊ; भक्ष्यक्रिया तत्र न तद गरीयः ॥ 84 ॥
[ष] यद्य एष हेतुस तव खादनस्य; न ते वेदः कारणं नान्यधर्मः तस्माद अभक्ष्ये भक्षणाद वा दविजेन्द्र; दॊषं न पश्यामि यथेदम आत्थ ॥ 85 ॥
[वि] न पातकं भक्षणम अस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः अन्यॊन्यकर्माणि तथा तथैव; न लेश मात्रेण कृत्यं हिनस्ति ॥ 86 ॥
[ष] अस्थानतॊ हीनतः कुत्सिताद वा; तं विद्वांसं बाधते साधुवृत्तम सथानं पुनर यॊ लभते निषङ्गात; तेनापि दण्डः सहितव्य एव ॥ 87 ॥
[भ] एवम उक्त्वा निववृते मातङ्गः कौशिकं तदा विश्वामित्रॊ जहारैव कृतबुद्धिः शवजाघनीम ॥ 88 ॥
ततॊ जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः सदारस ताम उपाकृत्य वने यातॊ महामुनिः ॥ 89 ॥
एतस्मिन्न एव काले तु परववर्षाथ वासवः संजीवयन परजाः सर्वा जनयाम आस चौषधीः ॥ 90 ॥
विश्वामित्रॊ ऽपि भगवांस तपसा दग्धकिल्बिषः कालेन महता सिद्धिम अवाप परमाद्भुताम ॥ 91 ॥
एवं विद्वान अदीनात्मा वयसनस्थॊ जिजीविषुः सर्वॊपायैर उपायज्ञॊ दीनम आत्मानम उद्धरेत ॥ 92 ॥
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत जीवन पुण्यम अवाप्नॊति नरॊ भद्राणि पश्यति ॥ 93 ॥
तस्मात कौन्तेय विदुषा धर्माधर्मविनिश्चये बुद्धिम आस्थाय लॊके ऽसमिन वर्तितव्यं यतात्मना ॥ 94 ॥
शान्तिपर्व · Shanti Parva
अध्याय 139
Reach this point to mark the section finished.
Continue to अध्याय 140