[वैषम्पायन] अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे भरातॄणां बरुवतां तांस तान विविधान वेद निश्चयान ॥ 1 ॥
महाभिजन संपन्ना शरीमत्य आयतलॊचना अभ्यभाषत राजेन्द्रं दरौपदीं यॊषितां वरा ॥ 2 ॥
आसीनम ऋषभं राज्ञां भरातृभिः परिवारितम सिंहशार्दूलसदृशैर वारणैर इव यूथपम ॥ 3 ॥
अभिमानवती नित्यं विशेषेण युधिष्ठिरे लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी ॥ 4 ॥
आमन्त्र्य विपुलश्रॊणी साम्ना परमवल्गुना भर्तारम अभिसंप्रेक्ष्य ततॊ वचनम अब्रवीत ॥ 5 ॥
इमे ते भरातरः पार्थ शुष्यन्त सतॊकका इव वावाश्यमानास तिष्ठन्ति न चैनान अभिनन्दसे ॥ 6 ॥
नन्दयैतान महाराज मत्तान इव महाद्विपान उपपन्नेन वाक्येन सततं दुःखभागिनः ॥ 7 ॥
कथं दवैतवने राजन पूर्वम उक्त्वा तथा वचः भरातॄन एतान सम सहिताञ शीतवातातपार्दितान ॥ 8 ॥
वयं दुर्यॊधनं हत्वा मृधे भॊक्ष्याम मेदिनीम संपूर्णां सर्वकामानाम आहवे विजयैषिणः ॥ 9 ॥
विरथाश च रथान कृत्वा निहत्य च महागजान संस्तीर्य च रथैर भूमिं स सादिभिर अरिंदमाः ॥ 10 ॥
यजतां विविधैर यज्ञैः समृद्धैर आप्तदक्षिणैः वनवास कृतं दुःखं भविष्यति सुखाय नः ॥ 11 ॥
इत्य एतान एवम उक्त्वा तवं सवयं धर्मभृतां वर कथम अद्य पुनर वीर विनिहंसि मनांस्य उत ॥ 12 ॥
न कलीबॊ वसुधां भुङ्क्ते न कलीबॊ धनम अश्नुते न कलीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥ 13 ॥
नादण्डः कषत्रियॊ भाति नादण्डॊ भूतिम अश्नुते नादण्डस्य परजा राज्णः सुखम एधन्ति भारत ॥ 14 ॥
मित्रता सर्वभूतेषु दानम अध्ययनं तपः बराह्मणस्यैष धर्मः सयान न राज्ञॊ राजसत्तम ॥ 15 ॥
असतां परतिषेधश च सतां च परिपालयन एष राज्ञां परॊ धर्मः समरे चापलायनम ॥ 16 ॥
यस्मिन कषमा च करॊधश च दानादाने भयाभये निग्रहानुग्रहौ चॊभौ स वै धर्मविद उच्यते ॥ 17 ॥
न शरुतेन न दानेन न सान्त्वेन न चेज्यया तवयेयं पृथिवी लब्धा नॊत्कॊचेन तथाप्य उत ॥ 18 ॥
यत तद बलम अमित्राणां तथा वीर समुद्यतम हस्त्यश्वरथसंपन्नं तरिभिर अङ्गैर महत्तरम ॥ 19 ॥
रक्षितं दरॊणकर्णाभ्याम अश्वत्थाम्ना कृपेण च तत तवया निहतं वीर तस्माद भुङ्क्ष्व वसुंधराम ॥ 20 ॥
जम्बूद्वीपॊ महाराज नानाजनपदायुतः तवया पुरुषशार्दूल दण्डेन मृदितः परभॊ ॥ 21 ॥
जम्बूद्वीपेन सदृशः करौञ्चद्वीपॊ नराधिप अपरेण महामेरॊर दण्डेन मृदितस तवया ॥ 22 ॥
करौञ्चद्वीपेन सदृशः शाकद्वीपॊ नराधिप पूर्वेण तु महामेरॊर दण्डेन मृदितस तवया ॥ 23 ॥
उत्तरेण महामेरॊः शाकद्वीपेन संमितः भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस तवया ॥ 24 ॥
दवीपाश च सान्तरद्वीपा नानाजनपदालयाः विगाह्य सागरं वीर दण्डेन मृदितास तवया ॥ 25 ॥
एतान्य अप्रतिमानि तवं कृत्वा कर्माणि भारत न परीयसे महाराज पूज्यमानॊ दविजातिभिः ॥ 26 ॥
स तवं भरातॄन इमान दृष्ट्वा परतिनन्दस्व भारत ऋषभान इव संमत्तान गजेन्द्रान ऊर्जितान इव ॥ 27 ॥
अमर परतिमाः सर्वे शत्रुसाहाः परंतपाः एकॊ ऽपि हि सुखायैषां कषमः सयाद इति मे मतिः ॥ 28 ॥
किं पुनः पुरुषव्याघ्राः पतयॊ मे नरर्षभाः समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ॥ 29 ॥
अनृतं माब्रवीच छवश्रूः सर्वज्ञा सर्वदर्शिनी युधिष्ठिरस तवां पाञ्चालि सुखे धास्यत्य अनुत्तमे ॥ 30 ॥
हत्वा राजसहस्राणि बहून्य आशु पराक्रमः तद वयर्थं संप्रपश्यामि मॊहात तव जनाधिप ॥ 31 ॥
येषाम उन्मत्तकॊ जयेष्ठः सर्वे तस्यॊपचारिणः तवॊन्मादेन राजेन्द्र सॊन्मादाः सर्वपाण्डवाः ॥ 32 ॥
यदि हि सयुर अनुन्मत्ता भरातरस ते जनाधिप बद्ध्वा तवां नास्तिकैः सार्धं परशासेयुर वसुंधराम ॥ 33 ॥
कुरुते मूढम एवं हि यः शरेयॊ नाधिगच्छति धूपैर अञ्जन यॊगैश च नस्य कर्मभिर एव च भेषजैः स चिकित्स्यः सयाद य उन्मार्गेण गच्छति ॥ 34 ॥
साहं सर्वाधमा लॊके सत्रीणां भरतसत्तम तथा विनिकृतामित्रैर याहम इच्छामि जीवितुम ॥ 35 ॥
एतेषां यतमानानाम उत्पद्यन्ते तु संपदः तवं तु सर्वां महीं लब्ध्वा कुरुषे सवयम आपदम ॥ 36 ॥
यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ मान्धाता चाम्बरीषश च तथा राजन विराजसे ॥ 37 ॥
परशाधि पृथिवीं देवीं परजा धर्मेण पालयन स पर्वत वनद्वीपां मा राजन विमना भव ॥ 38 ॥
यजस्व विविधैर यज्ञैर जुह्वन्न अग्नीन परयच्छ च पुराणि भॊगान वासांसि दविजातिभ्यॊ नृपॊत्तम ॥ 39 ॥
शान्तिपर्व · Shanti Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15