धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 13

  1. [सहदेव] न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा ॥ 1 ॥

  2. बाह्यद्रव्यविमुक्तस्य शरीरेषु च गृध्यतः यॊ धर्मॊ यत सुखं वा सयाद दविषतां तत तथास्तु नः ॥ 2 ॥

  3. शारीरं दरव्यम उत्सृज्य पृथिवीम अनुशासतः यॊ धर्मॊ यत सुखं वा सयात सुहृदां तत तथास्तु नः ॥ 3 ॥

  4. दव्यक्षरस तु भवेन मृत्युस तर्यक्षरं बरह्म शाश्वतम ममेति च भवेन मृत्युर न ममेति च शाश्वतम ॥ 4 ॥

  5. बरह्म मृत्यू च तौ राजन्न आत्मन्य एव समाश्रितौ अदृश्यमानौ भूतानि यॊधयेताम असंशयम ॥ 5 ॥

  6. अविनाशॊ ऽसय सत्त्वस्य नियतॊ यदि भारत भित्त्वा शरीरं भूतानां न हिंसा परतिपत्स्यते ॥ 6 ॥

  7. अथापि च सहॊत्पत्तिः सत्त्वस्य परलयस तथा नष्टे शरीरे नष्टं सयाद वृथा च सयात करिया पथः ॥ 7 ॥

  8. तस्माद एकान्तम उत्सृज्य पूर्वैः पूर्वतरैश च यः पन्था निषेवितः सद्भिः स निषेव्यॊ विजानता ॥ 8 ॥

  9. लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम न भुङ्क्ते यॊ नृपः सम्यङ निष्फलं तस्य जीवितम ॥ 9 ॥

  10. अथ वा वसतॊ राजन वने वन्येन जीवतः दरव्येषु यस्य ममता मृत्यॊर आस्ये स वर्तते ॥ 10 ॥

  11. बाह्याभ्यन्तर भूतानां सवभावं पश्य भारत ये तु पश्यन्ति तद्भावं मुच्यन्ते महतॊ भयात ॥ 11 ॥

  12. भवान पिता भवान माता भवान भराता भवान गुरुः दुःखप्रलापान आर्तस्य तस्मान मे कषन्तुम अर्हसि ॥ 12 ॥

  13. तथ्यं वा यदि वातथ्यं यन मयैतत परभाषितम तद विद्धि पृथिवीपाल भक्त्या भरतसत्तम ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 14

Previous: अध्याय 12