[य] युगक्षयात परिक्षीणे धर्मे लॊके च भारत दस्युभिः पीड्यमाने च कथं सथेयं पितामह ॥ 1 ॥
[भ] हन्त ते कथ्ययिष्यामि नीतिम आपत्सु भारत उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥ 2 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम भरद्वाजस्य संवादं राज्ञः शत्रुं तपस्य च ॥ 3 ॥
राजा शत्रुं तपॊ नाम सौवीराणां महारथः कणिङ्कम उपसंगम्य पप्रच्छार्थ विनिश्चयम ॥ 4 ॥
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते वर्धितं पालयेत केन पालितं परणयेत कथम ॥ 5 ॥
तस्मै विनिश्चयार्थं स परिपृष्टार्थ निश्चयः उवाच बराह्मणॊ वाक्यम इदं हेतुमद उत्तरम ॥ 6 ॥
नित्यम उद्यतदण्डः सयान नित्यं विवृतपौरुषः अच्छिद्रश छिद्रदर्शी च परेषां विवरानुगः ॥ 7 ॥
नित्यम उद्यतदण्डस्य भृशम उद्विजते जनः तस्मात सर्वाणि भूतानि दण्डेनैव पररॊधयेत ॥ 8 ॥
एवम एव परशंसन्ति पण्डितास तत्त्वदर्शिनः तस्माच चतुष्टये तस्मिन परधानॊ दण्ड उच्यते ॥ 9 ॥
छिन्नमूले हय अधिष्ठाने सर्वे तज जीविनॊ हताः कथं हि शाखास तिष्ठेयुश छिन्नमूले वनस्पतौ ॥ 10 ॥
मूलम एवादितश छिन्द्यात परपक्षस्य पण्डितः ततः सहायान पक्षं च सर्वम एवानुसारयेत ॥ 11 ॥
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम आपदां पदकालेषु कुर्वीत न विचारयेत ॥ 12 ॥
वान मात्रेण विनीतः सयाद धृदयेन यथा कषुरः शलक्ष्णपूर्वाभिभाषी च कामक्रॊधौ विवर्जयेत ॥ 13 ॥
सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत अपक्रामेत ततः कषिप्रं कृतकार्यॊ विचक्षणः ॥ 14 ॥
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत नित्यशश चॊद्विजेत तस्मात सर्पाद वेश्म गताद इव ॥ 15 ॥
यस्य बुद्धिं परिभवेत तम अतीतेन सान्त्वयेत अनागतेन दुष्प्रज्ञं परत्युत्पन्नेन पण्डितम ॥ 16 ॥
अञ्जलिं शपथं सान्त्वं परणम्य शिरसा वदेत अश्रुप्रपातनं चैव कर्तव्यं भूतिम इच्छता ॥ 17 ॥
वहेद अमित्रं सकन्धेन यावत कालविपर्ययः अथैनम आगते काले भिन्द्याद घटम इवाश्मनि ॥ 18 ॥
मुहूर्तम अपि राजेन्द्र तिन्दुकालातवज जवलेत न तुषाग्निर इवानर्चिर धूमायेत नरश चिरम ॥ 19 ॥
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत अर्थे तु शक्यते भॊक्तुं कृतकार्यॊ ऽवमन्यते तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत ॥ 20 ॥
कॊकिलस्य वराहस्य मेरॊः शून्यस्य वेश्मनः वयाडस्य भक्तिचित्रस्य यच छरेष्ठं तत समाचरेत ॥ 21 ॥
उत्थायॊत्थाय गच्छेच च नित्ययुक्तॊ रिपॊर गृहान कुशलं चापि पृच्छेत यद्य अप्य अकुशलं भवेत ॥ 22 ॥
नालसाः पराप्नुवन्त्य अर्थान न कलीबा न च मानिनः न च लॊकरवाद भीता न च शश्वत परतीक्षिणः ॥ 23 ॥
नास्य छिद्रं परॊ विद्याद विद्याच छिद्रं परस्य तु गूहेत कूर्म इवाङ्गानि रक्षेद विवरम आत्मनः ॥ 24 ॥
बकवच चिन्तयेद अर्थान सिंहवच च पराक्रमेत वृकवच चावलुम्पेत शशवच च निविष्पतेत ॥ 25 ॥
पानम अक्षास तथा नार्यॊ मृगया गीतवादितम एतानि युक्त्या सेवेत परसङ्गॊ हय अत्र दॊषवान ॥ 26 ॥
कुर्यात कृणमयं चापं शयीत मृगशायिकाम अन्धः सयाद अन्धवेलायां बाधिर्यम अपि संश्रयेत ॥ 27 ॥
देशं कालं समासाद्य विक्रमेत विचक्षणः देशकालाभ्यतीतॊ हि विक्रमॊ निष्फलॊ भवेत ॥ 28 ॥
कालाकालौ संप्रधार्य बलाबलम अथात्मनः परस्परबलं जञात्वा तथात्मानं नियॊजयेत ॥ 29 ॥
दण्डेनॊपनतं शत्रुं यॊ राजा न नियच्छति स मृत्युम उपगूह्यास ते गर्भम अश्वतरी यथा ॥ 30 ॥
सुपुष्पितः सयाद अफलः फलवान सयाद दुरारुहः आमः सयात पक्वसंकाशॊ न च शीर्येत कस्य चित ॥ 31 ॥
आशां कालवतीं कुर्यात तां च विघ्नेन यॊजयेत विघ्नं निमित्ततॊ बरूयान निमित्तं चापि हेतुतः ॥ 32 ॥
भीतवत संविधातव्यं यावद भयम अनागतम आगतं तु भयं दृष्ट्वा परहर्तव्यम अभीतवत ॥ 33 ॥
न संशयम अनारुह्य नरॊ भद्राणि पश्यति संशयं पुनर आरुह्य यदि जीवति पश्यति ॥ 34 ॥
अनागतं विजानीयाद यच्छेद भयम उपस्थितम पुनर वृद्धिक्षयात किं चिद अभिवृत्तं निशामयेत ॥ 35 ॥
परत्युपस्थित कालस्य सुखस्य परिवर्जनम अनागतसुखाशा च नैष बुद्धिमतां नयः ॥ 36 ॥
यॊ ऽरिणा सह संधाय सुखं सवपिति विश्वसन स वृक्षाग्र परसुप्तॊ वा पतितः परतिबुध्यते ॥ 37 ॥
कर्मणा येन तेनेह मृदुना दारुणेन वा उद्धरेद दीनम आत्मानं समर्थॊ धर्मम आचरेत ॥ 38 ॥
ये सपत्नाः सपत्नानां सर्वांस तान अपवत्सयेत आत्मनश चापि बॊद्धव्याश चाराः परणिहितः परैः ॥ 39 ॥
चारः सुविहितः कार्य आत्मनॊ ऽथ परस्य च पाषण्डांस तापसादींश च परराष्ट्रं परवेशयेत ॥ 40 ॥
उद्यानेषु विहारेषु परपास्व आवसथेषु च पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥ 41 ॥
धर्माभिचारिणः पापाश चारा लॊकस्य कण्टकाः समागच्छन्ति तान बुद्ध्वा नियच्छेच छमयेद अपि ॥ 42 ॥
न विश्वसेद अविश्वस्ते विश्वस्ते नापि विश्वसेत विश्वस्तं भयम अन्वेति नापरीक्ष्य च विश्वसेत ॥ 43 ॥
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना अथास्य परहरेत काले किं चिद विचलिते पदे ॥ 44 ॥
अशङ्क्यम अपि शङ्केत नित्यं शङ्केत शङ्कितात भयं हि शङ्किताज जातं स मूलम अपि कृन्तति ॥ 45 ॥
अवधानेन मौनेन काषायेण जटाजिनैः विश्वासयित्वा दवेष्टारम अवलुम्पेद यथा वृकः ॥ 46 ॥
पुत्रॊ वा यदि वा भराता पिता वा यदि वा सुहृत अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः ॥ 47 ॥
गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः उत्पथप्रतिपन्नस्य दण्डॊ भवति शासनम ॥ 48 ॥
परत्युत्थानाभिवादाभ्यां संप्रदानेन कस्य चित परतिपुष्कल घाती सयात तीक्ष्णतुण्ड इव दविजः ॥ 49 ॥
नाछित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम नाहत्वा मत्स्यघातीव पराप्नॊति परमां शरियम ॥ 50 ॥
नास्ति जात्या रिपुर नाम मित्रं नाम न विद्यते सामर्थ्य यॊगाज जायन्ते मित्राणि रिपवस तथा ॥ 51 ॥
अमित्रं नैव मुञ्चेत बरुवन्तं करुणान्य अपि दुःखं तत्र न कुर्वीत हन्यात पूर्वापकारिणम ॥ 52 ॥
संग्रहानुग्रहे यत्नः सदा कार्यॊ ऽनसूयता निग्रहश चापि यत्नेन कर्तव्यॊ भूतिम इच्छता ॥ 53 ॥
परहरिष्यन परियं बरूयात परहृत्यापि परियॊत्तरम अपि चास्य शिरश छित्त्वा रुद्याच छॊचेद अथापि वा ॥ 54 ॥
निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया आशा कारणम इत्य एतत कर्तव्यं भूतिम इच्छता ॥ 55 ॥
न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत अपार्थकम अनायुष्यं गॊविषाणस्य भक्षणम दन्ताश च परिघृष्यन्ते रसश चापि न लभ्यते ॥ 56 ॥
तरिवर्गे तरिविधा पीडानुबन्धास तरय एव च अनुबन्ध वधौ जञात्वा पीडां हि परिवर्जयेत ॥ 57 ॥
ऋण शेषॊ ऽगनिशेषश च शत्रुशेषस तथैव च पुनः पुनर विवर्धेत सवल्पॊ ऽपय अनिवारितः ॥ 58 ॥
वर्धमानम ऋणं तिष्ठत परिभूताश च शत्रवः आवहन्त्य अनयं तीव्रं वयाधयश चाप्य उपेक्षिताः ॥ 59 ॥
नासम्यक कृतकारी सयाद अप्रमत्तः सदा भवेत कण्टकॊ ऽपि हि दुश्छिन्नॊ विकारं कुरुते चिरम ॥ 60 ॥
वधेन च मनुष्याणां मार्गाणां दूषणेन च आकराणां विनाशैश च परराष्ट्रं विनाशयेत ॥ 61 ॥
गृध्रदृष्टिर बकालीनः शवचेष्टः सिंहविक्रमः अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत ॥ 62 ॥
शरेणि मुख्यॊपजापेषु वल्लभानुनयेषु च अमात्यान परिरक्षेत भेदसंघातयॊर अपि ॥ 63 ॥
मृदुर इत्य अवमन्यन्ते तीक्ष्ण इत्य उद्विजन्ति च तीक्ष्णकाले च तीक्ष्णः सयान मृदु काले मृदुर भवेत ॥ 64 ॥
मृदुना सुमृदं हन्ति मृदुना हन्ति दारुणम नासाध्यं मृदुना किं चित तस्मात तीक्ष्णतरं मृदु ॥ 65 ॥
काले मृदुर यॊ भवति काले भवति दारुणः स साधयति कृत्यानि शत्रूंश चैवाधितिष्ठति ॥ 66 ॥
पण्डितेन विरुद्धः सन दूरे ऽसमीति न विश्वसेत दीर्घौ बुद्धिमतॊ बाहू याभ्यां हिंसति हिंसितः ॥ 67 ॥
न तत तरेद यस्य न पारम उत्तरेन; न तद धरेद यत पुनर आहरेत परः न तत खनेद यस्य न मूलम उत्खनेन; न तं हन्याद यस्य शिरॊ न पातयेत ॥ 68 ॥
इतीदम उक्तं वृजिनाभिसंहितं; न चैतद एवं पुरुषः समाचरेत परप्रयुक्तं तु कथं निशामयेद; अतॊ मयॊक्तं भवतॊ हितार्थिना ॥ 69 ॥
यथावद उक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीर राष्ट्रियः तथाकरॊद वाक्यम अदीनचेतनः; शरियं च दीप्तां बुभुजे स बान्धवः ॥ 70 ॥
शान्तिपर्व · Shanti Parva
अध्याय 138
Reach this point to mark the section finished.
Continue to अध्याय 139