[य] उक्तॊ मन्त्रॊ महाबाहॊ न विश्वासॊ ऽसति शत्रुषु कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत ॥ 1 ॥
विश्वासाद धि परं राज्ञॊ राजन्न उत्पद्यते भयम कथं वै नाश्वसन राजा शत्रूञ जयति पार्थिव ॥ 2 ॥
एतन मे संशयं छिन्धि मनॊ मे संप्रमुह्यति अविश्वास कथाम एताम उपश्रुत्य पितामह ॥ 3 ॥
[भ] शृणु कौन्तेय यॊ वृत्तॊ बरह्मदत्तनिवेशने पूजन या सह संवादॊ बरह्मदत्तस्य पार्थिव ॥ 4 ॥
काम्पिल्ये बरह्मदत्तस्य अन्तःपुरनिवासिनी पूजनी नाम शकुनी दीर्घकालं सहॊषिता ॥ 5 ॥
रुतज्ञा सर्वभूतानां यथा वै जीव जीवकः सर्वज्ञा सर्वधर्मज्ञा तिर्यग्यॊनिगतापि सा ॥ 6 ॥
अभिप्रजाता सा तत्र पुत्रम एकं सुवर्चसम समकालं च राज्ञॊ ऽपि देव्याः पुत्रॊ वयजायत ॥ 7 ॥
समुद्रतीरं गत्वा सा तव आजहार फलद्वयम पुष्ट्य अर्थं च सवपुत्रस्य राजपुत्रस्य चैव ह ॥ 8 ॥
फलम एकं सुतायादाद राजपुत्राय चापरम अमृतास्वाद सदृशं बलतेजॊ विवर्धनम तत्रागच्छत परां वृद्धिं राजपुत्रः फलाशनात ॥ 9 ॥
धात्र्या हस्तगतश चापि तेनाक्रीडत पक्षिणा शून्ये तु तम उपादाय पक्षिणं समजातकम हत्वा ततः स राजेन्द्र धात्र्या हस्तम उपागमत ॥ 10 ॥
अथ सा शकुनी राजन्न आगमत फलहारिका अपश्यन निहतं पुत्रं तेन बालेन भूतले ॥ 11 ॥
बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम पूजनी दुःखसंतप्ता रुदती वाक्यम अब्रवीत ॥ 12 ॥
कषत्रिये संगतं नास्ति न परीतिर न च सौहृदम कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च ॥ 13 ॥
कषत्रियेषु न विश्वासः कार्यः सर्वॊपघातिषु अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम ॥ 14 ॥
अहम अस्य करॊम्य अद्य सदृशीं वैरयातनाम कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥ 15 ॥
सह संजातवृद्धस्य तथैव सह भॊजिनः शरणा गतस्य च वधस तरिविधं हय अस्य किल्बिषम ॥ 16 ॥
इत्य उक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा भित्त्वा सवस्था तत इदं पूजनी वाक्यम अब्रवीत ॥ 17 ॥
इच्छयैव कृतं पापं सद्य एवॊपसर्पति कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम ॥ 18 ॥
पापं कर्मकृतं किं चिन न तस्मिन यदि विद्यते निपात्यते ऽसय पुत्रेषु न चेत पौत्रेषु नप्तृषु ॥ 19 ॥
[ब] अस्ति वै कृतम अस्माभिर अस्ति परतिकृतं तवया उभयं तत समीभूतं वस पूजनि मा गमः ॥ 20 ॥
[प] सकृत कृतापराधस्य तत्रैव परिलम्बतः न तद बुधाः परशंसन्ति शरेयस तत्रापसर्पणम ॥ 21 ॥
सान्त्वे परयुक्ते नृपते कृतवैरे न विश्वसेत कषिप्रं परबध्यते मूढॊ न हि वैरं परशाम्यति ॥ 22 ॥
अन्यॊन्यं कृतवैराणां पुत्रपौत्रं निगच्छति पुत्रपौत्रे विनष्टे तु परलॊकं निगच्छति ॥ 23 ॥
सर्वेषां कृतवैराणाम अविश्वासः सुखावहः एकान्ततॊ न विश्वासः कार्यॊ विश्वासघातकः ॥ 24 ॥
न विश्वसेद अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत कामं विश्वासयेद अन्यान परेषां तु न विश्वसेत ॥ 25 ॥
माता पिता बान्धवानां परिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः भराता शत्रुः कलिन्नपाणिर वयस्य; आत्मा हय एकः सुखदुःखस्य वेत्ता ॥ 26 ॥
अन्यॊन्यकृतवैराणां न संधिर उपपद्यते स च हेतुर अतिक्रान्तॊ यदर्थम अहम आवसम ॥ 27 ॥
पूजितस्यार्थ मानाभ्यां जन्तॊः पूर्वापकारिणः चेतॊ भवत्य अविश्वस्तं पूर्वं तरासयते बलात ॥ 28 ॥
पूर्वं संमानना यत्र पश्चाच चैव विमानना जह्यात तं सत्त्ववान वासं संमानित विमानितः ॥ 29 ॥
उषितास्मि तवागारे दीर्घकालम अहिंसिता तद इदं वैरम उत्पन्नं सुखम आस्स्व वरजाम्य अहम ॥ 30 ॥
[ब] यत्कृते परतिकुर्याद वै न स तत्रापराध्नुयात अनृणस तेन भवति वस पूजानि मा गमः ॥ 31 ॥
[प] न कृतस्य न कर्तुश च सख्यं संधीयते पुनः हृदयं तत्र जानाति कर्तुश चैव कृतस्य च ॥ 32 ॥
[ब] कृतस्य चैव कर्तुश च सख्यं संधीयते पुनः वैरस्यॊपशमॊ दृष्टः पापं नॊपाश्नुते पुनः ॥ 33 ॥
[प] नास्ति वैरम उपक्रान्तं सान्त्वितॊ ऽसमीति नाश्वसेत विश्वासाद बध्यते बालस तस्माच छरेयॊ हय अदर्शनम ॥ 34 ॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैर अपि साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ॥ 35 ॥
[ब] संवासाज जायते सनेहॊ जीवितान्तकरेष्व अपि अन्यॊन्यस्य च विश्वासः शवपचेन शुनॊ यथा ॥ 36 ॥
अन्यॊन्यकृतवैराणां संवासान मृदुतां गतम नैव तिष्ठति तद वैरं पुष्करस्थम इवॊदकम ॥ 37 ॥
[प] वैरं पञ्च समुत्थानं तच च बुध्यन्ति पण्डिताः सत्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम ॥ 38 ॥
तत्र दाता निहन्तव्यः कषत्रियेण विशेषतः परकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम ॥ 39 ॥
कृतवैरे न विश्वासः कार्यस तव इह सुहृद्य अपि छन्नं संतिष्ठते वैरं गूढॊ ऽगनिर इव दारुषु ॥ 40 ॥
न वित्तेन न पारुष्यैर न सान्त्वेन न च शरुतैः वैराग्निः शाम्यते राजन्न और्वाग्निर इव सागरे ॥ 41 ॥
न हि वैराग्निर उद्भूतः कर्म वाप्य अपराधजम शाम्यत्य अदग्ध्वा नृपते विना हय एकतर कषयात ॥ 42 ॥
सत्कृतस्यार्थ मानाभ्यां सयात तु पूर्वापकारिणः नैव शान्तिर न विश्वासः कर्म तरासयते बलात ॥ 43 ॥
नैवापकारे कस्मिंश चिद अहं तवयि तथा भवान विश्वासाद उषिता पूर्वं नेदानीं विश्वसाम्य अहम ॥ 44 ॥
[ब] कालेन करियते कार्यं तथैव विविधाः करियाः कालेनैव परवर्तन्ते कः कस्येहापराध्यति ॥ 45 ॥
तुल्यं चॊभे परवर्तेते मरणं जन्म चैव ह कार्यते चैव कालेन तन्निमित्तं हि जीवति ॥ 46 ॥
बध्यन्ते युगपत के चिद एकैकस्य न चापरे कालॊ दहति पूतानि संप्राप्याग्निर इवेन्धनम ॥ 47 ॥
नाहं परमाणं नैव तवम अन्यॊन्यकरणे शुभे कालॊ नित्यम उपाधत्ते सुखं दुःखं च देहिनाम ॥ 48 ॥
एवं वसेह स सनेहा यथाकालम अहिंसिता यत्कृतं तच च मे कषान्तं तवं चैव कषम पूजनि ॥ 49 ॥
[प] यदि कालः परमाणं ते न वैरं कस्य चिद भवेत कस्मात तव अपचितिं यान्ति बान्धवा बान्धवे हते ॥ 50 ॥
कस्माद देवासुराः पूर्वम अन्यॊन्यम अभिजघ्निरे यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥ 51 ॥
भिषजॊ भेषजं कर्तुं कस्माद इच्छन्ति रॊगिणे यदि कालेन पच्यन्ते भेषजैः किं परयॊजनम ॥ 52 ॥
परलापः करियते कस्मात सुमहाञ शॊकमूर्छितैः यदि कालः परमाणं ते कस्माद धर्मॊ ऽसति कर्तृषु ॥ 53 ॥
तव पुत्रॊ ममापत्यं हतवान हिंसितॊ मया अनन्तरं तवया चाहं बन्धनीया महीपते ॥ 54 ॥
अहं हि पुत्रशॊकेन कृतपापा तवात्मजे तथा तवया परहर्तव्यं मयि तत्त्वं च मे शृणु ॥ 55 ॥
भक्षार्थं करीडनार्थं वा नरा वाञ्छन्ति पक्षिणः तृतीयॊ नास्ति संयॊगॊ वधबन्धाद ऋते कषमः ॥ 56 ॥
वधबन्धभयाद एके मॊक्षतन्त्रम उपागताः मरणॊत्पातजं दुःखम आहुर धर्मविदॊ जनाः ॥ 57 ॥
सर्वस्य दयिताः पराणाः सर्वस्य दयिताः सुताः दुःखाद उद्विजते सर्वः सर्वस्य सुखम ईप्सितम ॥ 58 ॥
दुःखं जरा बरह्मदत्तदुःखम अर्थविपर्ययः दुःखं चानिष्ट संवासॊ दुःखम इष्टवियॊगजम ॥ 59 ॥
वैरबन्धकृतं दुःखं हिंसाजं सत्रीकृतं तथा दुःखं सुखेन सततं जनाद विपरिवर्तते ॥ 60 ॥
न दुःखं परदुःखे वै के चिद आहुर अबुद्धयः यॊ दुःखं नाभिजानाति स जल्पति महाजने ॥ 61 ॥
यस तु शॊचति दुःखार्तः स कथं वक्तुम उत्सहेत रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ॥ 62 ॥
यत्कृतं ते मया राजंस तवया च मम यत्कृतम न तद वर्षशतैः शक्यं वयपॊहितुम अरिंदम ॥ 63 ॥
आवयॊः कृतम अन्यॊन्यं तत्र संधिर न विद्यते समृत्वा समृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥ 64 ॥
वैरम अन्तिकम आसज्य यः परीतिं कर्तुम इच्छति मृन्मयस्येव भग्नस्य तस्य संधिर न विद्यते ॥ 65 ॥
निश्चितश चार्थशास्त्रज्ञैर अविश्वासः सुखॊदयः उशनाश चाथ गाथे दवे परह्रादायाब्रवीत पुरा ॥ 66 ॥
ये वैरिणः शरद्दधते सत्ये सत्येतरे ऽपि वा ते शरद्दधाना वध्यन्ते मधु शुष्ककृणैर यथा ॥ 67 ॥
न हि वैराणि शाम्यन्ति कुलेष्व आ दशमाद युगात आख्यातारश च विद्यन्ते कुले चेद विद्यते पुमान ॥ 68 ॥
उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः अथैनं परतिपिंषन्ति पूर्णं घटम इवाश्मनि ॥ 69 ॥
सदा न विश्वसेद राजन पापं कृत्वेह कस्य चित अपकृत्य परेषां हि विश्वासाद दुःखम अश्नुते ॥ 70 ॥
[ब] नाविश्वासाच चिन्वते ऽरहान नेहन्ते चापि किं चन भयाद एकतरान नित्यं मृतकल्पा भवन्ति च ॥ 71 ॥
[प] यस्येह वरणिनौ पादौ पद्भ्यां च परिसर्पति कषण्येते तस्य तौ पादौ सुगुप्तम अभिधावतः ॥ 72 ॥
नेत्राभ्यां स रुजाभ्यां यः परतिवातम उदीक्षते तस्य वायुरुजात्यर्थं नेत्रयॊर भवति धरुवम ॥ 73 ॥
दुष्टं पन्थानम आश्रित्य यॊ मॊहाद अभिपद्यते आत्मनॊ बलम अज्ञत्वा तद अन्तं तस्य जीवितम ॥ 74 ॥
यस तु वर्षम अविज्ञाय कषेत्रं कृषति मानवः हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ॥ 75 ॥
यश च तिक्तं कषायं वाप्य आस्वाद विधुरं हितम आहारं कुरुते नित्यं सॊ ऽमृतत्वाय कल्पते ॥ 76 ॥
पथ्यं भुक्त्वा नरॊ लॊभाद यॊ ऽनयद अश्नाति भॊजनम परिणामम अविज्ञाय तद अन्तं तस्य जीवितम ॥ 77 ॥
दैवं पुरुषकारश च सथिताव अन्यॊन्यसंश्रयात उदात्तानां कर्म तन्त्रं दैवं कलीबा उपासते ॥ 78 ॥
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु गरस्यते ऽकर्म शीलस तु सदानर्थैर अकिंचनः ॥ 79 ॥
तस्मात संशयिते ऽपय अर्थे कार्य एव पराक्रमः सर्वस्वम अपि संत्यज्य कार्यम आत्महितं नरैः ॥ 80 ॥
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चकम मित्राणि सहजान्य आहुर वर्तयन्तीह यैर बुधाः ॥ 81 ॥
निवेशनं च कुप्यं च कषेत्रं भार्या सुहृज्जनः एतान्य उपचितान्य आहुः सर्वत्र लभते पुमान ॥ 82 ॥
सर्वत्र रमते पराज्ञः सर्वत्र च विरॊचते न विभीषयते कं चिद भीषितॊ न बिभेति च ॥ 83 ॥
नित्यं बुद्धिमतॊ हय अर्थः सवल्पकॊ ऽपि विवर्धते दाक्ष्येण कुरुते कर्म संयमात परतितिष्ठति ॥ 84 ॥
गृहस्नेहावबद्धानां नराणाम अल्पमेधसाम कुस्त्री खादति मांसानि माघमा सेगवाम इव ॥ 85 ॥
गृहं कषेत्राणि मित्राणि सवदेश इति चापरे इत्य एवम अवसीदन्ति नरा बुद्धिविपर्यये ॥ 86 ॥
उत्पतेत सरुजाद देशाद वयाधिदुर्भिक्ष पीडितात अन्यत्र वस्तुं गच्छेद वा वसेद वा नित्यमानितः ॥ 87 ॥
तस्माद अन्यत्र यास्यामि वस्तुं नाहम इहॊत्सहे कृतम एतद अनाहार्यं तव पुत्रेण पार्थिव ॥ 88 ॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत ॥ 89 ॥
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतॊ रतिः कुराज्ये निर्वृतिर नास्ति कुदेशे न परजीव्यते ॥ 90 ॥
कुमित्रे संगतं नास्ति नित्यम अस्थिरसौहृदे अवमानः कुसंबन्धे भवत्य अर्थविपर्यये ॥ 91 ॥
सा भार्या या परियं बरूते सपुत्रॊ यत्र निर्वृतिः तन मित्रं यत्र विश्वासः स देशॊ यत्र जीव्यते ॥ 92 ॥
यत्र नास्ति बलात कारः स राजा तीव्रशासनः न चैव हय अभिसंबन्धॊ दरिद्रं यॊ बुभूषति ॥ 93 ॥
भार्या देशॊ ऽथ मित्राणि पुत्र संबन्धिबान्धवाः एतत सर्वं गुणवति धर्मनेत्रे महीपतौ ॥ 94 ॥
अधर्मज्ञस्य विलयं परजा गच्छन्त्य अनिग्रहात राजा मूलं तरिवर्गस्य अप्रमत्तॊ ऽनुपालयन ॥ 95 ॥
बलिषड भागम उद्धृत्य बलिं तम उपयॊजयेत न रक्षति परजाः सम्यग यः स पार्थिव तस्करः ॥ 96 ॥
दत्त्वाभयं यः सवयम एव राजा; न तत परमाणं कुरुते यथावत स सर्वलॊकाद उपलभ्य पापम; अधर्मबुद्धिर निरयं परयाति ॥ 97 ॥
दत्त्वाभयं यः सम राजा परमाणं कुरुते सदा स सर्वसुखकृज जञेयः परजा धर्मेण पालयन ॥ 98 ॥
पिता माता गुरुर गॊप्ता वह्निर वैश्रवणॊ यमः सप्त राज्ञॊ गुणान एतान मनुर आह परजापतिः ॥ 99 ॥
पिता हि राजा राष्ट्रस्य परजानां यॊ ऽनुकम्पकः तस्मिन मिथ्या परणीते हि तिर्यग गच्छति मानवः ॥ 100 ॥
संभावयति मातेव दीनम अभ्यवपद्यते दहत्य अग्निर इवानिष्टान यमयन भवते यमः ॥ 101 ॥
इष्टेषु विसृजत्य अर्थान कुबेर इव कामदः गुरुर धर्मॊपदेशेन गॊप्ता च परिपालनात ॥ 102 ॥
यस तु रञ्जयते राजा पौरजानपदान गुणैः न तस्य भरश्यते राज्यं गुणधर्मानुपालनात ॥ 103 ॥
सवयं समुपजानन हि पौरजानपद करियाः स सुखं मॊदते भूप इह लॊके परत्र च ॥ 104 ॥
नित्यॊद्विग्नाः परजा यस्य करभार परपीडिताः अनर्थैर विप्रलुप्यन्ते स गच्छति पराभवम ॥ 105 ॥
परजा यस्य विवर्धन्ते सरसीव महॊत्पलम स सर्वयज्ञफलभाग राजा लॊके महीयते ॥ 106 ॥
बलिना विग्रहॊ राजन न कथं चित परशस्यते बलिना विगृहीतस्य कुतॊ राज्यं कुतः सुखम ॥ 107 ॥
[भ] सैवम उक्त्वा शकुनिका बरह्मदत्तं नराधिपम राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम ॥ 108 ॥
एतत ते बरह्मदत्तस्य पूजन्या सह भाषितम मयॊक्तं भरतश्रेष्ठ किम अन्यच छरॊतुम इच्छसि ॥ 109 ॥
शान्तिपर्व · Shanti Parva
अध्याय 137
Reach this point to mark the section finished.
Continue to अध्याय 138