[य] सर्वत्र बुद्धिः कथिता शरेष्ठा ते भरतर्षभ अनागता तथॊत्पन्ना दीर्घसूत्रा विनाशिनी ॥ 1 ॥
तद इच्छामि परां बुद्धिं शरॊतुं भरतसत्तम यथा राजन न मुह्येत शत्रुभिः परिवारितः ॥ 2 ॥
धर्मार्थकुशलप्राज्ञ सर्वशास्त्रविशारद पृच्छामि तवा कुरु कश्रेष्ठ तन मे वयाख्यातुम अर्हसि ॥ 3 ॥
शत्रुभिर बहुभिर गरस्तॊ यथा वर्तेत पार्थिवः एतद इच्छाम्य अहं शरॊतुं सर्वम एव यथाविधि ॥ 4 ॥
विषमस्थं हि राजानं शत्रवः परिपन्थिनः बहवॊ ऽपय एकम उद्धर्तुं यतन्ते पूर्वतापिताः ॥ 5 ॥
सर्वतः परार्थ्यमानेन दुर्बलेन महाबलैः एकेनैवासहायेन शक्यं सथातुं कथं भवेत ॥ 6 ॥
कथं मित्रम अरिं चैव विन्देत भरतर्षभ चेष्टितव्यं कथं चाथ शत्रॊर मित्रस्य चान्तरे ॥ 7 ॥
परज्ञात लक्षणे राजन्न अमित्रे मित्रतां गते कथं नु पुरुषः कुर्यात किं वा कृत्वा सुखी भवेत ॥ 8 ॥
विग्रहं केन वा कुर्यात संधिं वा केन यॊजयेत कथं वा शत्रुमध्यस्थॊ वर्तेताबलवान इति ॥ 9 ॥
एतद वै सर्वकृत्यानां परं कृत्यं परंतप नैतस्य कश चिद वक्तास्ति शरॊता चापि सुदुर्लभः ॥ 10 ॥
ऋते शांतनवाद भीष्मात सत्यसंधाज जितेन्द्रियात तद अन्विष्य महाबाहॊ सर्वम एतद वदस्व मे ॥ 11 ॥
[भ] तवद युक्तॊ ऽयम अनुप्रश्नॊ युधिष्ठिर गुणॊदयः शृणु मे पुत्र कार्त्स्न्येन गुह्यम आपत्सु भारत ॥ 12 ॥
अमित्रॊ मित्रतां याति मित्रं चापि परदुष्यति सामर्थ्य यॊगात कार्याणां तद्गत्या हि सदागतिः ॥ 13 ॥
तस्माद विश्वसितव्यं च विग्रहं च समाचरेत देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥ 14 ॥
संधातव्यं बुधैर नित्यं वयवस्यं च हितार्थिभिः अमित्रैर अपि संधेयं पराणा रक्ष्याश च भारत ॥ 15 ॥
यॊ हय अमित्रैर नरॊ नित्यं न संदध्याद अपण्डितः न सॊ ऽरथम आप्नुयात किं चित फलान्य अपि च भारत ॥ 16 ॥
यस तव अमित्रेण संधत्ते मित्रेण च विरुध्यते अर्थयुक्तिं समालॊक्य सुमहद विन्दते फलम ॥ 17 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मार्जारस्य च संवादं नयग्रॊधे मूषकस्य च ॥ 18 ॥
वने महति कस्मिंश चिन नयग्रॊधः सुमहान अभूत लता जालपरिच्छन्नॊ नानाद्विज गणायुतः ॥ 19 ॥
सकन्धवान मेघसंकाशः शीतच छायॊ मनॊरमः वैरन्त्यम अभितॊ जातस तरुर वयालमृगाकुलः ॥ 20 ॥
तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम वसति सम महाप्राज्ञः पलितॊ नाम मूषकः ॥ 21 ॥
शाखाश च तस्य संश्रित्य वसति सम सुखं पुरः लॊमशॊ नाम मार्जारः पक्षिसत्त्वावसादकः ॥ 22 ॥
तत्र चागत्य चाण्डालॊ वैरन्त्य कृतकेतनः अयॊजयत तम उन्माथं नित्यम अस्तं गते रवौ ॥ 23 ॥
तत्र सनायुमयान पाशान यथावत संनिधाय सः गृहं गत्वा सुखं शेते परभाताम एति शर्वरीम ॥ 24 ॥
तत्र सम नित्यं बध्यन्ते नक्तं बहुविधा मृगाः कदा चित तत्र मार्जारस तव अप्रमत्तॊ ऽपय अबध्यत ॥ 25 ॥
तस्मिन बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि तं कालं पलितॊ जञात्वा विचचार सुनिर्भयः ॥ 26 ॥
तेनानुचरता तस्मिन वने विश्वस्तचारिणा भक्षं विचरमाणेन नचिराद दृष्टम आमिषम ॥ 27 ॥
स तम उन्माथम आरुह्य तद आमिषम अभक्षयत तस्यॊपरि सपत्नस्य बद्धस्य मनसा हसन ॥ 28 ॥
आमिषे तु परसक्तः स कदा चिद अवलॊकयन अपश्यद अपरं घॊरम आत्मनः शत्रुम आगतम ॥ 29 ॥
शरप्रसून संकाशं मही विवर शायिनम नकुलं हरिकं नाम चपलं ताम्रलॊचनम ॥ 30 ॥
तेन मूषक गन्धेन तवरमाणम उपागतम भक्षार्थं लेलिहद वक्त्रं भूमाव ऊर्ध्वमुखं सथितम ॥ 31 ॥
शखा गतम अरिं चान्यद अपश्यत कॊटरालयम उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं कषपाचरम ॥ 32 ॥
गतस्य विषयं तस्य नकुलॊलूकयॊस तदा अथास्यासीद इयं चिन्ता तत पराप्य सुमहद भयम ॥ 33 ॥
आपद्य अस्यां सुकष्टायां मरणे समुपस्थिते समन्ताद भय उत्पन्ने कथं कार्यं हितैषिणा ॥ 34 ॥
स तथा सर्वतॊ रुद्धः सर्वत्र समदर्शनः अभवद भयसंतप्तश चक्रे चेमां परां गतिम ॥ 35 ॥
आपद विनाशभूयिष्ठा शतैकीयं च जीवितम समन्त संशया चेयम अस्मान आपद उपस्थिता ॥ 36 ॥
गतं हि सहसा भूमिं नकुलॊ मां समाप्नुयात उलूकश चेह तिष्ठन्तं मार्जारः पाशसंक्षयात ॥ 37 ॥
न तव एवास्मद विधः पराज्ञः संमॊहं गन्तुम अर्हति करिष्ये जीविते यत्नं यावद उच्छ्वासनिग्रहम ॥ 38 ॥
न हि बुद्ध्यान्विताः पराज्ञा नीतिशास्त्रविशारदाः संभ्रमन्त्य आपदं पराप्य महतॊ ऽरथान अवाप्य च ॥ 39 ॥
न तव अन्याम इह मार्जाराद गतिं पश्यामि सांप्रतम विषमस्थॊ हय अयं जन्तुः कृत्यं चास्य महन मया ॥ 40 ॥
जीवितार्थी कथं तव अद्य परार्थितः शत्रुभिस तरिभिः तस्माद इमम अहं शत्रुं मार्जारं संश्रयामि वै ॥ 41 ॥
कषत्रविद्यां समाश्रित्य हितम अस्यॊपधारये येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये ॥ 42 ॥
अयम अत्यन्तशत्रुर मे वैषम्यं परमं गतः मूढॊ गराहयितुं सवार्थं संगत्या यदि शक्यते ॥ 43 ॥
कदा चिद वयसनं पराप्य संधिं कुर्यान मया सह बलिना संनिविष्टस्य शत्रॊर अपि परिग्रहः कार्य इत्य आहुर आचार्या विषमे जीवितार्थिना ॥ 44 ॥
शरेयान हि पण्डितः शत्रुर न च मित्रम अपण्डितम मम हय अमित्रे मार्जारे जीवितं संप्रतिष्ठितम ॥ 45 ॥
हन्तैनं संप्रवक्ष्यामि हेतुम आत्माभिरक्षणे अपीदानीम अयं शत्रुः संगत्या पण्डितॊ भवेत ॥ 46 ॥
ततॊ ऽरथगतितत्त्वज्ञः संधिविग्रहकालवित सान्त्वपूर्वम इदं वाक्यं मार्जारं मूषकॊ ऽबरवीत ॥ 47 ॥
सौहृदेन भिभाषे तवा कच चिन मार्जारजीवसि जीवितं हि तवेच्छामि शरेयः साधारणं हि नौ ॥ 48 ॥
न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा अहं तवाम उद्धरिष्यामि पराणाञ जह्यां हि ते कृते ॥ 49 ॥
अस्ति कश चिद उपायॊ ऽतर पुष्कलः परतिभाति माम येन शक्यस तवया मॊक्षः पराप्तुं शरेयॊ यथा मया ॥ 50 ॥
मया हय उपायॊ दृष्टॊ ऽयं विचार्य मतिम आत्मनः आत्मार्थं च तवदर्थं च शरेयः साधारणं हि नौ ॥ 51 ॥
इदं हि नकुलॊलूकं पापबुद्ध्य अभितः सथितम न धर्षयति मार्जारतेन मे सवस्ति सांप्रतम ॥ 52 ॥
कूजंश चपल नेत्रॊ ऽयं कौशिकॊ मां निरीक्षते नगशाखा गरहस तिष्ठंस तस्याहं भृशम उद्विजे ॥ 53 ॥
सतां साप्तपदं सख्यं स वासॊ मे ऽसि पण्डितः सांवास्यकं करिष्यामि नास्ति ते मृत्युतॊ भयम ॥ 54 ॥
न हि शक्नॊषि मार्जारपाशं छेत्तुं विना मया अहं छेत्स्यामि ते पाशं यदि मां तवं न हिंससि ॥ 55 ॥
तवम आश्रितॊ नगस्याग्रं मूलं तव अहम उपाश्रितः चिरॊषिताव इहावां वै वृक्षे ऽसमिन विदितं हि ते ॥ 56 ॥
यस्मिन्न आश्वसते कश चिद यश च नाश्वसते कव चित न तौ धीराः परशंसन्ति नित्यम उद्विग्नचेतसौ ॥ 57 ॥
तस्माद विवर्धतां परीतिः सत्या संगतिर अस्तु नौ कालातीतम अपार्थं हि न परशंसन्ति पण्डिताः ॥ 58 ॥
अर्थयुक्तिम इमां तावद यथा भूतां निशामय तव जीवितम इच्छामि तवं ममेच्छसि जीवितम ॥ 59 ॥
कश चित तरति काष्ठेन सुगम्भीरां महानदीम स तारयति तत काष्ठं स च काष्ठेन तार्यते ॥ 60 ॥
ईदृशॊ नौ समायॊगॊ भविष्यति सुनिस्तरम अहं तवां तारयिष्यामि तवं च मां तारयिष्यसि ॥ 61 ॥
एवम उक्त्वा तु पलितस तदर्थम उभयॊर हितम हेतुमद गरहणीयं च कालाकाङ्क्षी वयपैक्षत ॥ 62 ॥
अथ सुव्याहृतं तस्य शरुत्वा शत्रुर विचक्षणः हेतुमद गरहणीयार्थं मार्जारॊ वाक्यम अब्रवीत ॥ 63 ॥
बुद्धिमान वाक्यसंपन्नस तद वाक्यम अनुवर्णयन ताम अवस्थाम अवेक्ष्यान्त्यां साम्नैव परत्यपूजयत ॥ 64 ॥
ततस तीक्ष्णाग्रदशनॊ वैडूर्यमणिलॊचनः मूषकं मन्दम उद्वीक्ष्य मार्जारॊ लॊमशॊ ऽबरवीत ॥ 65 ॥
नन्दामि सौम्य भद्रं ते यॊ मां जीवन्तम इच्छसि शरेयश च यदि जानीषे करियतां मा विचारय ॥ 66 ॥
अहं हि दृढम आपन्नस तवम आपन्नतरॊ मया दवयॊर आपन्नयॊः संधिः करियतां मा विचारय ॥ 67 ॥
विधत्स्व पराप्तकालं यत कार्यं सिध्यतु चावयॊः मयि कृच्छ्राद विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम ॥ 68 ॥
नयस्तमानॊ ऽसमि भक्तॊ ऽसमि शिष्यस तवद्धितकृत तथा निदेशवशवर्ती च भवन्तं शरणं गतः ॥ 69 ॥
इत्य एवम उक्तः पलितॊ मार्जारं वशम आगतम वाक्यं हितम उवाचेदम अभिनीतार्थम अर्थवत ॥ 70 ॥
उदारं यद भवान आह नैतच चित्रं भवद्विधे विदितॊ यस तु मार्गॊ मे हितार्थं शृणु तं मम ॥ 71 ॥
अहं तवानुप्रवेक्ष्यामि नकुलान मे महद भयम तरायस्व मां मा वधीश च शक्तॊ ऽसमि तव मॊक्षणे ॥ 72 ॥
उलूकाच चैव मां रक्ष कषुद्रः परार्थयते हि माम अहं छेत्स्यामि ते पाशान सखे सत्येन ते शपे ॥ 73 ॥
तद वचः संगतं शरुत्वा लॊमशॊ युक्तम अर्थवत हर्षाद उद्वीक्ष्य पलितं सवागतेनाभ्यपूजयत ॥ 74 ॥
स तं संपूज्य पलितं मार्जारः सौहृदे सथितः सुविचिन्त्याब्रवीद धीरः परीतस तवरित एव हि ॥ 75 ॥
कषिप्रम आगच्छ भद्रं ते तवं मे पराणसमः सखा तव पराज्ञ परसादाद धि कषिप्रं पराप्स्यामि जीवितम ॥ 76 ॥
यद यद एवंगतेनाद्य शक्यं कर्तुं मया तव तद आज्ञापय कर्ताहं संधिर एवास्तु नौ सखे ॥ 77 ॥
अस्मात ते संशयान मुक्तः स मित्र गणबान्धवः सर्वकार्याणि कर्ताहं परियाणि च हितानि च ॥ 78 ॥
मुक्तश च वयसनाद अस्मात सौम्याहम अपि नाम ते परीतिम उत्पादयेयं च परतिकर्तुं च शक्नुयाम ॥ 79 ॥
गराहयित्वा तु तं सवार्थं मार्जारं मूषकस तदा परविवेश सुविस्रब्धः सम्यग अर्थांश चचार ह ॥ 80 ॥
एवम आश्वसितॊ विद्वान मार्जारेण स मूषकः मार्जारॊरसि विस्रब्धः सुष्वाप पितृमातृवत ॥ 81 ॥
लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम तौ दृष्ट्वा नकुलॊलूकौ निराशौ जग्मतुर गृहान ॥ 82 ॥
लीनस तु तस्य गात्रेषु पलितॊ देशकालवित चिच्छेद पाशान नृपते कालाकाङ्क्षी शनैः शनैः ॥ 83 ॥
अथ बन्धपरिक्लिष्टॊ मार्जारॊ वीक्ष्य मूषकम छिन्दन्तं वै तदा पाशान अत्वरन्तं तवरान्वितः ॥ 84 ॥
तम अत्वरन्तं पलितं पाशानां छेदने तदा संचॊदयितुम आरेभे मार्जारॊ मूषकं तदा ॥ 85 ॥
किं सौम्य नाभित्वरसे किं कृतार्थॊ ऽवमन्यसे छिन्धि पाशान अमित्रघ्न पुरा शवपच एति सः ॥ 86 ॥
इत्य उक्तस तवरता तेन मतिमान पलितॊ ऽबरवीत मार्जारम अकृतप्रज्ञं वश्यम आत्महितं वचः ॥ 87 ॥
तूष्णीं भव न ते सौम्य तवरा कार्या न संभ्रमः वयम एवात्र कालज्ञा न कालः परिहास्यते ॥ 88 ॥
अकाले कृत्यम आरब्धं कर्तुं नार्थाय कल्पते तद एव काल आरब्धं महते ऽरथाय कल्पते ॥ 89 ॥
अकालविप्रमुक्तान मे तवत्त एव भयं भवेत तस्मात कालं परतीक्षस्व किम इति तवरसे सखे ॥ 90 ॥
यावत पश्यामि चण्डालम आयान्तं शस्त्रपाणिनम ततश छेत्स्यामि ते पाशं पराप्ते साधारणे भये ॥ 91 ॥
तस्मिन काले परमुक्तस तवं तरुम एवाधिरॊहसि न हि ते जीविताद अन्यत किं चित कृत्यं भविष्यति ॥ 92 ॥
ततॊ भवत्य अतिक्रान्ते तरस्ते भीते च लॊमश अहं बिलं परवेक्ष्यामि भवाट शाखां गमिष्यति ॥ 93 ॥
एवम उक्तस तु मार्जारॊ मूषकेणात्मनॊ हितम वचनं वाक्यतत्त्वज्ञॊ जीवितार्थी महामतिः ॥ 94 ॥
अथात्मकृत्य तवरितः सम्यक परश्रयम आचरन उवाच लॊमशॊ वाक्यं मूषकं चिरकारिणम ॥ 95 ॥
न हय एवं मित्रकार्याणि परीत्या कुर्वन्ति साधवः यथा तवं मॊक्षितः कृच्छ्रात तवरमाणेन वै मया ॥ 96 ॥
ताथैव तवरमाणेन तवया कार्यं हितं मम यत्नं कुरु महाप्राज्ञ यथा सवस्त्य आवयॊर भवेत ॥ 97 ॥
अथ वा पूर्ववैरं तवं समरन कालं विकर्षसि पश्य दुष्कृतकर्मत्वं वयक्तम आयुः कषयॊ मम ॥ 98 ॥
यच च किं चिन मयाज्ञानात पुरस्ताद विप्रियं कृतम न तन मनसि कर्तव्यं कषमये तवां परसीद मे ॥ 99 ॥
तम एवं वादिनं पराज्ञः शास्त्रविद बुद्धिसंमतः उवाचेदं वचः शरेष्ठं मार्जारं मूषकस तदा ॥ 100 ॥
शरुतं मे तव मार्जारस्वम अर्थं परिगृह्णतः ममापि तवं विजानीहि सवम अर्थं परिगृह्णतः ॥ 101 ॥
यन मित्रं भीतवत साध्यं यन मित्र भयसंहितम सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद इव ॥ 102 ॥
कृत्वा बलवता संधिम आत्मानं यॊ न रक्षति अपथ्यम इव तद भुक्तं तस्यानर्थाय कल्पते ॥ 103 ॥
न कश चित कस्य चिन मित्रं न कश चित कस्य चित सुहृत अर्थैर अर्था निबध्यन्ते गजैर वनगजा इव ॥ 104 ॥
न हि कश चित कृते कार्ये कर्तारं समवेक्षते तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत ॥ 105 ॥
तस्मिन काले ऽपि च भवान दिवा कीर्तिभयान्वितः मम न गरहणे शक्तः पलायनपरायणः ॥ 106 ॥
छिन्नं तु तन्तु बाहुल्यं तन्तुर एकॊ ऽवशेषितः छेत्स्याम्य अहं तद अप्य आशु निर्वृतॊ भव लॊमश ॥ 107 ॥
तयॊः संवदतॊर एवं तथैवापन्नयॊर दवयॊः कषयं जगाम सा रात्रिर लॊमशं चाविशद भयम ॥ 108 ॥
ततः परभातसमये विकृतः कृष्णपिङ्गलः सथूलस्फिग विकचॊ रूक्षः शवचक्रपरिवारितः ॥ 109 ॥
शङ्कुकर्णॊ महावक्त्रः पलितॊ घॊरदर्शनः परिघॊ नाम चण्डालः शस्त्रपाणिर अदृश्यत ॥ 110 ॥
तं दृष्ट्वा यमदूताभं मार्जारस तरस्तचेतनः उवाच पलितं भीतः किम इदानीं करिष्यसि ॥ 111 ॥
अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घॊरदर्शनम कषणेन नकुलॊलूकौ नैराश्यं जग्मतुस तदा ॥ 112 ॥
बलिनौ मतिमन्तौ च संघातं चाप्य उपागतौ अशक्यौ सुनयात तस्मात संप्रधर्षयितुं बलात ॥ 113 ॥
कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ उलूक नकुलौ तूर्णं जग्मतुः सवं सवम आलयम ॥ 114 ॥
ततश चिच्छेद तं तन्तुं मार्जारस्य स मूषकः विप्रमुक्तॊ ऽथ मार्जारस तम एवाभ्यपतद दरुमम ॥ 115 ॥
स च तस्माद भयान मुक्तॊ मुक्तॊ घॊरेण शत्रुणा बिलं विवेश पलितः शाखां भेजे च लॊमशः ॥ 116 ॥
उन्माथम अप्य अथादाय चण्डालॊ वीक्ष्य सर्वशः विहताशः कषणेनाथ तस्माद देशाद अपाक्रमत जगाम च सवभवनं चण्डालॊ भरतर्षभ ॥ 117 ॥
ततस तस्माद भयान मुक्तॊ दुर्लभं पराप्य जीवितम बिलस्थं पादपाग्रस्थः पलितं लॊमशॊ ऽबरवीत ॥ 118 ॥
अकृत्वा संविदं कां चित सहसाहम उपप्लुतः कृतज्ञं कृतकल्याणं कच चिन मां नाभिशङ्कसे ॥ 119 ॥
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम मित्रॊपभॊग समये किं तवं नैवॊपसर्पसि ॥ 120 ॥
कृत्वा हि पूर्वं मित्राणि यः पश्चान नानुतिष्ठति न स मित्राणि लभते कृच्छ्रास्व आपत्सु दुर्मतिः ॥ 121 ॥
तत कृतॊ ऽहं तवया मित्रं सामर्थ्याद आत्मनः सखे स मां मित्रत्वम आपन्नम उपभॊक्तुं तवम अर्हसि ॥ 122 ॥
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः सर्वे तवां पूजयिष्यन्ति शिष्या गुरुम इव परियम ॥ 123 ॥
अहं च पूजयिष्ये तवां समित्रगणबान्धवम जीवितस्य परदातारं कृतज्ञः कॊ न पूजयेत ॥ 124 ॥
ईश्रवॊ मे भवान अस्तु शरीरस्य गृहस्य च अर्थानां चैव सर्वेषाम अनुशास्ता च मे भव ॥ 125 ॥
अमात्यॊ मे भव पराज्ञ पितेव हि परशाधि माम न ते ऽसति भयम अस्मत्तॊ जीवितेनात्मनः शपे ॥ 126 ॥
बुद्ध्या तवम उशनाः साक्षाद बले तव अधिकृता वयम तवन्मन्त्रबलयुक्तॊ हि विन्देत जयम एव ह ॥ 127 ॥
एवम उक्तः परं सान्त्वं मार्जारेण स मूषकः उवाच परमार्थज्ञः शलक्ष्णम आत्महितं वचः ॥ 128 ॥
यद भवान आह तत सर्वं मया ते लॊमश शरुतम ममापि तावद बरुवतः शृणु यत परतिभाति माम ॥ 129 ॥
वेदितव्यानि मित्राणि बॊद्धव्याश चापि शत्रवः एतत सुसूक्ष्मं लॊके ऽसमिन दृश्यते पराज्ञसंमतम ॥ 130 ॥
शत्रुरूपाश च सुहृदॊ मित्ररूपाश च शत्रवः सान्त्वितास ते न बुध्यन्ते रागलॊभ वशंगताः ॥ 131 ॥
नास्ति जात्या रिपुर नाम मित्रं नाम न विद्यते सामर्थ्य यॊगाज जायन्ते मित्राणि रिपवस तथा ॥ 132 ॥
यॊ यस्मिञ जीवति सवार्थं पश्येत तावत स जीवति स तस्य तावन मित्रं सयाद यावन न सयाद विपर्ययः ॥ 133 ॥
नास्ति मैत्री सथिरा नाम न च धरुवम असौहृदम अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस तथा ॥ 134 ॥
मित्रं च शत्रुताम एति कस्मिंश चित कालपर्यये शत्रुश च मित्रताम एति सवार्थॊ हि बलवत्तरः ॥ 135 ॥
यॊ विश्वसति मित्रेषु न चाश्वसति शत्रुषु अर्थयुक्तिम अविज्ञाय चलितं तस्य जीवितम ॥ 136 ॥
अर्थयुक्तिम अविज्ञाय यः शुभे कुरुते मतिम मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥ 137 ॥
न विश्वसेद अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत विश्वासाद भयम उत्पन्नं मूलान्य अपि निकृन्तति ॥ 138 ॥
अर्थयुक्त्या हि देश्यन्ते पिता माता सुतास तथा मातुला भागिनेयाश च तथा संबन्धिबान्धवाः ॥ 139 ॥
पुत्रं हि माता पितरु तयजतः पतितं परियम लॊकॊ रक्षति चात्मानं पश्य सवार्थस्य सारताम ॥ 140 ॥
तं मन्ये निकृतिप्रज्ञं यॊ मॊक्षं परत्यनन्तरम कृत्यं मृगयसे कर्तुं सुखॊपायम असंशयम ॥ 141 ॥
अस्मिन निलय एव तवं नयग्रॊधाद अवतारितः पूर्वं निविष्टम उन्माथं चपलत्वान न बुद्धिवान ॥ 142 ॥
आत्मनश चपलॊ नास्ति कुतॊ ऽनयेषां भविष्यति तस्मात सर्वाणि कार्याणि चपलॊ हन्त्य असंशयम ॥ 143 ॥
बरवीति मधुरं कं चित परियॊ मे ह भवान इति तन मिथ्या करणं सर्वं विस्तरेणापि मे शृणु ॥ 144 ॥
कारणात परियताम एति दवेष्यॊ भवति कारणात अर्थार्थी जीवलॊकॊ ऽयं न कश चित कस्य चित परियः ॥ 145 ॥
सख्यं सॊदरयॊर भरात्रॊर दम्पत्यॊर वा परस्परम कस्य चिन नाभिजानामि परीतिं निष्कारणाम इह ॥ 146 ॥
यद्य अपि भरातरः करुद्धा मार्या वा कारणान्तरे सवभावतस ते परीयन्ते नेतरः परीयते जनः ॥ 147 ॥
परियॊ भवति दानेन परियवादेन चापरः मन्त्रहॊम जपैर अन्यः कार्यार्थं परीयते जनः ॥ 148 ॥
उत्पन्ने कारणे परीतिर नास्ति नौ कारणान्तरे परध्वस्ते कारणस्थाने सा परीतिर विनिवर्तते ॥ 149 ॥
किं नु तत कारणं मन्ये यनाहं भवतः परियः अन्यत्राभ्यवहारार्थात तत्रापि च बुधा वयम ॥ 150 ॥
कालॊ हेतुं विकुरुते सवार्थस तम अनुवर्तते सवार्थं पराज्ञॊ ऽभिजानाति पराज्ञं लॊकॊ ऽनुवर्तते ॥ 151 ॥
न तव ईदृशं तवया वाच्यं विदुषि सवार्थपण्डिते अकाले ऽविषमस्थस्य सवार्थहेतुर अयं तव ॥ 152 ॥
तस्मान नाहं चले सवार्थात सुस्थितः संधिविग्रहे अभ्राणाम इव रूपाणि विकुर्वन्ति कषणे कषणे ॥ 153 ॥
अद्यैव हि रिपुर भूत्वा पुनर अद्यैव सौहृदम पुनश च रिपुर अद्यैव युक्तीनां पश्य चापलम ॥ 154 ॥
आसीत तावत तु मैत्री नौ यावद धेतुर अभूत पुरा सा गता सह तेनैव कालयुक्तेन हेतुना ॥ 155 ॥
तवं हि मे ऽतयन्ततः शत्रुः सामर्थ्यान मित्रतां गतः तत कृत्यम अभिनिर्वृत्तं परकृतिः शत्रुतां गता ॥ 156 ॥
सॊ ऽहम एवं परणीतानि जञात्वा शास्त्राणि तत्त्वतः परविशेयं कथं पाशं तवत्कृतं तद वदस्व मे ॥ 157 ॥
तवद्वीर्येण विमुक्तॊ ऽहं मद्वीर्येण तथा भवान अन्यॊन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥ 158 ॥
तवं हि सौम्य कृतार्थॊ ऽदय निर्वृत्तार्थास तथा वयम न ते ऽसत्य अन्यन मया कृत्यं किं चिद अन्यत्र भक्षणात ॥ 159 ॥
अहम अन्नं भवान भॊक्ता दुर्बलॊ ऽहं भवान बली नावयॊर विद्यते संधिर नियुक्ते विषमे बले ॥ 160 ॥
संमन्ये ऽहं तव परज्ञां यन मॊक्षात परत्यनन्तरम भक्ष्यं मृगयसे नूनं सुखॊपायम असंशयम ॥ 161 ॥
भक्ष्यार्थम एव बद्धस तवं स मुक्तः परसृतः कषुधा शास्त्रज्ञम अभिसंधाय नूनं भक्षयिताद्य माम ॥ 162 ॥
जानामि कषुधितं हि तवाम आहारसमयश च ते स तवं माम अभिसंधाय भक्ष्यं मृगयसे पुनः ॥ 163 ॥
यच चापि पुत्रदारं सवं तत संनिसृजसे मयि शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम ॥ 164 ॥
तवया मां सहितं दृष्ट्वा परिया भार्या सुताश च ये कस्मान मां ते न खादेयुर हृष्टाः परणयिनस तवयि ॥ 165 ॥
नाहं तवया समेष्यामि वृत्तॊ हेतुः समागमे शिवं धयायस्व मे ऽतरस्थः सुकृतं समर्यते यदि ॥ 166 ॥
शत्रॊर अन्नाद्य भूतः सन कलिष्टस्य कषुधितस्य च भक्ष्यं मृगयमाणस्य कः पराज्ञॊ विषयं वरजेत ॥ 167 ॥
सवस्ति ते ऽसतु गमिष्यामि दूराद अपि तवॊद्विजे नाहं तवया समेष्यामि निर्वृतॊ भव लॊमश ॥ 168 ॥
बलवत संनिकर्षॊ हि न कदा चित परशस्यते परशान्ताद अपि मे पराज्ञ भेतव्यं बलिनः सदा ॥ 169 ॥
यदि तव अर्थेन मे कार्यं बरूहि किं करवाणि ते कामं सर्वं परदास्यामि न तव आत्मानं कदा चन ॥ 170 ॥
आत्मार्थे संततिस तयाज्या राज्यं रत्नं धनं तथा अपि सर्वस्वम उत्सृज्य रक्षेद आत्मानम आत्मना ॥ 171 ॥
ऐश्वर्यधनरत्नानां परत्यमित्रे ऽपि तिष्ठताम दृष्टा हि पुनर आवृत्तिर जीविताम इति नः शरुतम ॥ 172 ॥
न तव आत्मनः संप्रदानं धनरत्नवद इष्यते आत्मा तु सर्वतॊ रक्ष्यॊ दारैर अपि धनैर अपि ॥ 173 ॥
आत्मरक्षित तन्त्राणां सुपरीक्षित कारिणाम आपदॊ नॊपपद्यन्ते पुरुषाणां सवदॊषजाः ॥ 174 ॥
शत्रून सम्यग विजानन्ति दुर्बला ये बलीयसः तेषां न चाल्यते बुद्धिर आत्मार्थं कृतनिश्चया ॥ 175 ॥
इत्य अभिव्यक्तम एवासौ पलितेनावभर्त्सितः मार्जारॊ वरीडितॊ भूत्वा मूषकं वाक्यम अब्रवीत ॥ 176 ॥
संमन्ये ऽहं तव परज्ञां यस तवं मम हिते रतः उक्तवान अर्थतत्त्वेन मया संभिन्नदर्शनः ॥ 177 ॥
न तु माम अन्यथा साधॊ तवं विज्ञातुम इहार्हसि पराणप्रदानजं तवत्तॊ मम सौहृदम आगतम ॥ 178 ॥
धर्मज्ञॊ ऽसमि गुणज्ञॊ ऽसमि कृतज्ञॊ ऽसमि विशेषतः मित्रेषु वत्सलश चास्मि तवद्विधेषु विशेषतः ॥ 179 ॥
तन माम एवंगते साधॊ न यावयितुम अर्हसि तवया हि याव्यमानॊ ऽहं पराणाञ जह्यां सबान्धवः ॥ 180 ॥
धिक शब्दॊ हि बुधैर दृष्टॊ मद्विधेषु मनस्विषु मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम अर्हसि ॥ 181 ॥
इति संस्तूयमानॊ हि मार्जारेण स मूषकः मनसा भावगम्भीरं मार्जारं वाक्यम अब्रवीत ॥ 182 ॥
साधुर भवाञ शरुतार्थॊ ऽसमि परीयते न च विश्वसे संस्तवैर वा धनौघैर वा नाहं शक्यः पुनस तवया ॥ 183 ॥
न हय अमित्रवशं यान्ति पराज्ञा निष्करणं सखे अस्मिन्न अर्थे च गाथे दवे निबॊधॊशनसा कृते ॥ 184 ॥
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा समाहितश चरेद युक्त्या कृतार्थश च न विश्वसेत ॥ 185 ॥
तस्मात सर्वास्व अवस्थासु रक्षेञ जीवितम आत्मनः दरव्याणि संततिश चैव सर्वं भवति जीवतः ॥ 186 ॥
संक्षेपॊ नीतिशास्त्राणाम अविश्वासः परॊ मतः नृषु तस्माद अविश्वासः पुष्कलं हितम आत्मनः ॥ 187 ॥
वध्यन्ते न हय अविश्वस्ताः शत्रुभिर दुर्बला अपि विश्वस्तास तव आशु वध्यन्ते बलवन्तॊ ऽपि दुर्बलैः ॥ 188 ॥
तवद्विधेभ्यॊ मया हय आत्मा रक्ष्यॊ मार्जारसर्वदा रक्ष तवम अपि चात्मानं चण्डालाञ जातिकिल्बिषात ॥ 189 ॥
स तस्य बरुवतस तव एवं संत्रासाञ जातसाध्वसः सवबलिं हि जवेनाशु मार्जारः परययौ ततः ॥ 190 ॥
ततः शास्त्रार्थतत्त्वज्ञॊ बुद्धिसामर्थ्यम आत्मनः विश्राव्य पलितः पराज्ञॊ बिलम अन्यञ जगाम ह ॥ 191 ॥
एवं परज्ञावता बुद्ध्या दुर्बलेन महाबलाः एकेन बहवॊ ऽमित्राः संधिं कुर्वीत पण्डितः ॥ 192 ॥
अरिणापि समर्थेन संधिं कुर्वीत पण्डितः मूषकश च विडालश च मुक्ताव अन्यॊन्यसंश्रयात ॥ 193 ॥
इत्य एष कषत्रधर्मस्य मया मार्गॊ ऽनुदर्शितः विस्तरेण महीपाल संक्षेपेण पुनः शृणु ॥ 194 ॥
अन्यॊन्यकृतवैरौ तु चक्रतुः परीतिम उत्तमाम अन्यॊन्यम अभिसंधातुम अभूच चैव तयॊर मतिः ॥ 195 ॥
तत्र पराज्ञॊ ऽभिसंधत्ते सम्यग बुद्धिबलाश्रयात अभिसंधीयते पराज्ञः परमादाद अपि चाबुधैः ॥ 196 ॥
तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन न हय अप्रमत्तश चलति चलितॊ वा विनश्यति ॥ 197 ॥
कालेन रिपुणा संधिः काले मित्रेण विग्रहः कार्य इत्य एव तत्त्वज्ञाः पराजुर नित्यं युधिष्ठिर ॥ 198 ॥
एवं मत्वा महाराज शास्त्रार्थम अभिगम्य च अभियुक्तॊ ऽपरमत्तश च पराग भयाद भीतवच चरेत ॥ 199 ॥
भीतवत संविधिः कार्यः परतिसंधिस तथैव च भयाद उत्पद्यते बुद्धिर अप्रमत्ताभियॊगजा ॥ 200 ॥
न भयं विद्यते राजन भीतस्यानागते भये अभीतस्य तु विस्रम्भात सुमहाञ जायते भयम ॥ 201 ॥
न भीरुर इति चात्यन्तं मन्त्रॊ ऽदेयः कथं चन अविज्ञानाद धि विज्ञाते गच्छेद आस्पद दर्शिषु ॥ 202 ॥
तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन कार्याणां गुरुतां बुद्ध्वा नानृतं किं चिद आचरेत ॥ 203 ॥
एवम एतन मया परॊक्तम इतिहासं युधिष्ठिर शरुत्वा तवं सुहृदां मध्ये यथावत समुपाचर ॥ 204 ॥
उपलभ्य मतिं चाग्र्याम अरिमित्रान्तरं तथा संधिविग्रहकालं च मॊक्षॊपायं तथापदि ॥ 205 ॥
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा समागमं चरेद युक्त्या कृतार्थॊ न च विश्वसेत ॥ 206 ॥
अविरुद्धां तरिवर्गेण नीतिम एतां युधिष्ठिर अभ्युत्तिष्ठ शरुताद अस्माद भूयस तवं रञ्जयन परजाः ॥ 207 ॥
बराह्मणैश चापि ते सार्धं यात्रा भवतु पाण्डव बराह्मणा हि परं शरेयॊ दिवि चेह च भारत ॥ 208 ॥
एते धर्मस्य वेत्तारः कृतज्ञाः सततं परभॊ पूजिताः शुभकर्माणः पूर्वजित्या नराधिप ॥ 209 ॥
राज्यं शरेयः परं राजन यशः कीर्तिं च लप्स्यसे कुलस्य संततिं चैव यथान्यायं यथाक्रमम ॥ 210 ॥
दवयॊर इमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम तथान्ववेक्ष्य कषितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले ॥ 211 ॥
शान्तिपर्व · Shanti Parva
अध्याय 136
Reach this point to mark the section finished.
Continue to अध्याय 137