[भ] अत्रैव चेदम अव्यग्रः शृण्वाख्यानम अनुत्तमम दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये ॥ 1 ॥
नातिगाधे जलस्थाये सुहृदः शकुलास तरयः परभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥ 2 ॥
अत्रैकः पराप्तकालज्ञॊ दीर्घदर्शी तथापरः दीर्घसूत्रश च तत्रैकस तरयाणां जलचारिणाम ॥ 3 ॥
कदा चित तज जलस्थायं मत्स्यबन्धाः समन्ततः निःस्रावयाम आसुर अथॊ निम्नेषु विविधैर मुखैः ॥ 4 ॥
परक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे अव्रवीद दीर्घदर्शी तु ताव उभौ सुहृदौ तदा ॥ 5 ॥
इयम आपत समुत्पन्ना सर्वेषां सलिलौकसाम शीघ्रम अन्यत्र गच्छामः पन्था यावन न दुष्यति ॥ 6 ॥
अनागतम अनर्थं हि सुनयैर यः परबाधते न स संशयम आप्नॊति रॊचतां वां वरजामहे ॥ 7 ॥
दीर्घसूत्रस तु यस तत्र सॊ ऽबरवीत सम्यग उच्यते न तु कार्या तवरा यावद इति मे निश्चिता मतिः ॥ 8 ॥
अथ संप्रतिपत्तिज्ञः पराब्रवीद दीर्घदर्शिनम पराप्ते काले न मे किं चिन नयायतः परिहास्यते ॥ 9 ॥
एवम उक्तॊ निराक्रामद दीर्घदर्शी महामतिः जगाम सरॊतसैकेन गम्भीरसलिलाशयम ॥ 10 ॥
ततः परस्रुत तॊयं तं समीक्ष्य सलिलाशयम बबन्धुर विविधैर यॊगैर मत्स्यान मत्स्यॊपजीविनः ॥ 11 ॥
विलॊड्यमाने तस्मिंस तु सरॊत तॊये जलाशये अगच्छद गरहणं तत्र दीर्घसूत्रः सहापरैः ॥ 12 ॥
उद्दानं करियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः परविश्यान्तरम अन्येषाम अग्रसत परतिपत्तिमान ॥ 13 ॥
गरस्तम एव तद उद्दानं गृहीत्वास्त तथैव सः सर्वान एव तु तांस तत्र ते विदुर गरथिता इति ॥ 14 ॥
ततः परक्षाल्यमानेषु मत्स्येषु विमले जले तक्त्वा रज्जुं विमुक्तॊ ऽभूच छीघ्रं संप्रतिपत्तिमान ॥ 15 ॥
दीर्घसूत्रस तु मन्दात्मा हीनबुद्धिर अचेतनः मरणं पराप्तवान मूढॊ यथैवॊपहतेन्द्रियः ॥ 16 ॥
एवं पराप्ततमं कालं यॊ मॊहान नावबुध्यते स विनश्यति वै कषिप्रं दीर्घसूत्रॊ यथा झषः ॥ 17 ॥
आदौ न कुरुते शरेयः कुशलॊ ऽसमीति यः पुमान स संशयम अवाप्नॊति यथा संप्रतिपत्तिमान ॥ 18 ॥
अनागतविधानं तु यॊ नरः कुरुते कषमम शरेयः पराप्नॊति सॊ ऽतयर्थं दीर्घदर्शी यथा हय असौ ॥ 19 ॥
कलाः काष्ठा मुहूर्ताश च दिना नाड्यः कषणा लवाः पक्षा मासाश च ऋतवस तुल्याः संवत्सराणि च ॥ 20 ॥
पृथिवीदेश इत्य उक्तः कालः स च न दृश्यते अभिप्रेतार्थ सिद्ध्यर्थं नयायतॊ यच च तत तथा ॥ 21 ॥
एतौ धर्मार्थशास्त्रेषु मॊक्षशास्त्रेषु चर्षिभिः परधानाव इति निर्दिष्टौ कामेशाभिमतौ नृणाम ॥ 22 ॥
परीक्ष्य कारी युक्तस तु सम्यक समुपपादयेत देशकालाव अभिप्रेतौ ताभ्यां फलम अवाप्नुयात ॥ 23 ॥
शान्तिपर्व · Shanti Parva
अध्याय 135
Reach this point to mark the section finished.
Continue to अध्याय 136