[भ] अत्र गाथा बरह्म गीताः कीर्तयन्ति पुराविदः येन मार्गेण राजानः कॊशं संजनयन्ति च ॥ 1 ॥
न धनं यज्ञशीलानां हार्यं देव सवम एव तत दस्यूनां निष्क्रियाणां च कषत्रियॊ हर्तुम अर्हति ॥ 2 ॥
इमाः परजाः कषत्रियाणां रक्ष्याश चाद्याश च भारत धनं हि कषत्रियस्येह दवितीयस्य न विद्यते ॥ 3 ॥
तद अस्य सयाद बलार्थं वा धनं यज्ञार्थम एव वा अभॊग्या हय ओषधीश छित्त्वा भॊग्या एव पचन्त्य उत ॥ 4 ॥
यॊ वै न देवान न पितॄन न मर्त्यान हविषार्चति आनन्तिकां तां धनिताम आहुर वेद विदॊ जनाः ॥ 5 ॥
हरेत तद दरविणं राजन धार्मिकः पृथिवीपतिः न हि तत परीणयेल लॊकान न कॊशं तद विधं नृपः ॥ 6 ॥
असाधुभ्यॊ निरादाय साधुभ्यॊ यः परयच्छति आत्मानं संक्रमं कृत्वा मन्ये धर्मविद एव सः ॥ 7 ॥
औद्भिज्जा जन्तवः के चिद युक्तवाचॊ यथातथा अनिष्टतः संभवन्ति तथा यज्ञः परतायते ॥ 8 ॥
यथैव दंश मशकं यथा चाण्ड पिपीलिकम सैव वृत्तिर अयज्ञेषु तथा धर्मॊ विधीयते ॥ 9 ॥
यथा हय अकस्माद भवति भूमौ पांसुतृणॊलपम तथैवेह भवेद धर्मः सूक्ष्मः सूक्ष्मतरॊ ऽपि च ॥ 10 ॥
शान्तिपर्व · Shanti Parva
अध्याय 134
Reach this point to mark the section finished.
Continue to अध्याय 135