धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 133

  1. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा दस्युः समर्यादः परेत्य भावे न नश्यति ॥ 1 ॥

  2. परहर्ता मतिमाञ शूरः शरुतवान अनृशंसवान रक्षन्न अक्षयिणं धर्मं बरह्मण्यॊ गुरु पूजकः ॥ 2 ॥

  3. निषाद्यां कषत्रियाज जातः कषत्रधर्मानुपालकः कापव्यॊ नाम नैषादिर दस्युत्वात सिद्धिम आप्तवान ॥ 3 ॥

  4. अरण्ये साय पूर्वाह्णे मृगयूथप्रकॊपिता विधिज्ञॊ मृगजातीनां निपानानां च कॊविदः ॥ 4 ॥

  5. सर्वकानन देशज्ञः पारियात्र चरः सदा धर्मज्ञः सर्वभूतानाम अमॊघेषुर दृढायुधः ॥ 5 ॥

  6. अप्य अनेकशताः सेना एक एव जिगाय सः स वृद्धाव अन्धपितरौ महारण्ये ऽभयपूजयत ॥ 6 ॥

  7. मधु मांसैर मूलफलैर अन्नैर उच्चावचैर अपि सत्कृत्य भॊजयाम आस सम्यक परिचचार च ॥ 7 ॥

  8. आरण्यकान परव्रजितान बराह्मणान परिपालयन अपि तेभ्यॊ मृगान हत्वा निनाय च महावने ॥ 8 ॥

  9. ये सम न परतिगृह्णन्ति दस्यु भॊजनशङ्कया तेषाम आसज्य गेहेषु काल्य एव स गच्छति ॥ 9 ॥

  10. तं बहूनि सहस्राणि गरामणित्वे ऽभिवव्रिरे निर्मर्यादानि दस्यूनां निरनुक्रॊश कारिणाम ॥ 10 ॥

  11. [दस्यवह] मुहूर्तदेशकालज्ञ पराज्ञ शीलदृढायुध गरामणीर भव नॊ मुख्यः सर्वेषाम एव संमतः ॥ 11 ॥

  12. यथा यथा वक्ष्यसि नः करिष्यामस तथा तथा पालयास्मान यथान्यायं यथा माता यथा पिता ॥ 12 ॥

  13. [क] मा वधीस तवं सत्रियं भीरुं मा शिशुं मा तपस्विनम नायुध्यमानॊ हन्तव्यॊ न च गराह्या बलात सत्रियः ॥ 13 ॥

  14. सर्वथा सत्री न हन्तव्या सर्वसत्त्वेषु युध्यता नित्यं गॊब्राह्मणे सवस्ति यॊद्धव्यं च तदर्थतः ॥ 14 ॥

  15. सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः पूज्यन्ते यत्र देवाश च पितरॊ ऽतिथयस तथा ॥ 15 ॥

  16. सर्वभूतेष्व अपि च वै बराह्मणॊ मॊक्षम अर्हति कार्या चापचितिस तेषां सर्वस्वेनापि या भवेत ॥ 16 ॥

  17. यस्य हय एते संप्ररुष्टा मन्त्रयन्ति पराभवम न तस्य तरिषु लॊकेषु तराता भवति कश चन ॥ 17 ॥

  18. यॊ बराह्मणान परिभवेद विनाशं वापि रॊचयेत सूर्यॊदय इवावश्यं धरुवं तस्य पराभवः ॥ 18 ॥

  19. इहैव फलम आसीनः परत्याकाङ्क्षति शक्तितः ये ये नॊ न परदास्यन्ति तांस तान सेनाभियास्यति ॥ 19 ॥

  20. शिष्ट्य अर्थं विहितॊ दण्डॊ न वधार्थं विनिश्चयः ये च शिष्टान परबाधन्ते धर्मस तेषां वधः समृतः ॥ 20 ॥

  21. ये हि राष्ट्रॊपरॊधेन वृत्तिं कुर्वन्ति के चन तद एव ते ऽनु मीयन्ते कुणपं कृमयॊ यथा ॥ 21 ॥

  22. ये पुनर धर्मशास्त्रेण वर्तेरन्न इह दस्यवः अपि ते दस्यवॊ भूत्वा कषिप्रं सिद्धिम अवाप्नुयुः ॥ 22 ॥

  23. [भ] तत सर्वम उपचक्रुस ते कापव्यस्यानुशासनम वृत्तिं च लेभिरे सर्वे पापेभ्यश चाप्य उपारमन ॥ 23 ॥

  24. कापव्यः कर्मणा तेन महतीं सिद्धिम आप्तवान साधूनाम आचरन कषेमं दस्यून पापान निवर्तयन ॥ 24 ॥

  25. इदं कापव्य चरितं यॊ नित्यम अनुकीर्तयेत नारण्येभ्यः स भूतेभ्यॊ भयम आर्छेत कदा चन ॥ 25 ॥

  26. भयं तस्य न मर्त्येभ्यॊ नामर्त्येभ्यः कथं चन न सतॊ नासतॊ राजन स हय अरण्येषु गॊपतिः ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 134

Previous: अध्याय 132