[भ] अत्र कर्मान्त वचनं कीर्तयन्ति पुराविदः परत्यक्षाव एव धर्मार्थौ कषत्रियस्य विजानतः तत्र न वयवधातव्यं परॊक्षा धर्मयापना ॥ 1 ॥
अधर्मॊ धर्म इत्य एतद यथा वृकपदं तथा धर्माधर्मफले जातु न ददर्शेह कश चन ॥ 2 ॥
बुभूषेद बलवान एव सर्वं बलवतॊ वशे शरियं बलम अमात्यांश च बलवान इह विन्दति ॥ 3 ॥
यॊ हय अनाढ्यः स पतितस तद उच्छिष्टं यद अल्पकम बह्व अपथ्यं बलवति न किं चित तरायते भयात ॥ 4 ॥
उभौ सत्याधिकारौ तौ तरायेते महतॊ भयात अति धर्माद बलं मन्ये बलाद धर्मः परवर्तते ॥ 5 ॥
बले परतिष्ठितॊ धर्मॊ धरण्याम इव जङ्गमः धूमॊ वायॊर इव वशं बलं धर्मॊ ऽनुवर्तते ॥ 6 ॥
अनीश्वरे बलं धर्मॊ दरुमं वल्लीव संश्रिता वश्यॊ बलवतां धर्मः सुखं भॊगवताम इव नास्त्य असाध्यं बलवतां सर्वं बलवतां शुचि ॥ 7 ॥
दुराचारः कषीणबलः परिमाणं नियच्छति अथ तस्माद उद्विजते सर्वॊ लॊकॊ वृकाद इव ॥ 8 ॥
अपध्वस्तॊ हय अवमतॊ दुःखं जीवति जीवितम जीवितं यद अवक्षिप्तं यथैव मरणं तथा ॥ 9 ॥
यद एनम आहुः पापेन चारित्रेण विनिक्षतम स भृशं तप्यते ऽनेन वाक्शल्येन परिक्षतः ॥ 10 ॥
अत्रैतद आहुर आचार्याः पापस्य परिमॊक्षणे तरयीं विद्यां निषेवेत तथॊपासीत स दविजान ॥ 11 ॥
परसादयेन मधुरया वाचाप्य अथ च कर्मणा महामनाश चैव भवेद विवहेच च महाकुले ॥ 12 ॥
इत्य अस्मीति वदेद एवं परेषां कीर्तयन गुणान जपेद उदकशीलः सयात पेशलॊ नातिजल्पनः ॥ 13 ॥
बरह्मक्षत्रं संप्रविशेद बहु कृत्वा सुदुष्करम उच्यमानॊ ऽपि लॊकेन बहु तत तद अचिन्तयन ॥ 14 ॥
अपापॊ हय एवम आचारः कषिप्रं बहुमतॊ भवेत सुखं वित्तं च भुञ्जीत वृत्तेनानेन गॊपयेत लॊके च लभते पूजां परत्र च महत फलम ॥ 15 ॥
शान्तिपर्व · Shanti Parva
अध्याय 132
Reach this point to mark the section finished.
Continue to अध्याय 133