[भ] सवराष्ट्रात परराष्ट्राच च कॊशं संजनयेन नृपः कॊशाद धि धर्मः कौन्तेय राज्यमूलः परवर्तते ॥ 1 ॥
तस्मात संजनयेत कॊशं संहृत्य परिपालयेत परिपाल्यानुगृह्णीयाद एष धर्मः सनातनः ॥ 2 ॥
न कॊशः शुद्धशौचेन न नृशंसेन जायते पदं मध्यमम आस्थाय कॊशसंग्रहणं चरेत ॥ 3 ॥
अबलस्य कुतः कॊशॊ हय अकॊशस्य कुतॊ बलम अबलस्य कुतॊ राज्यम अराज्ञः शरीः कुतॊ भवेत ॥ 4 ॥
उच्चैर वृत्तेः शरियॊ हानिर यथैव मरणं तथा तस्मात कॊशं बलं मित्राण्य अथ राजा विवर्धयेत ॥ 5 ॥
हीनकॊशं हि राजानम अवजानन्ति मानवाः न चास्याल्पेन तुष्यन्ति कार्यम अभ्युत्सहन्ति च ॥ 6 ॥
शरियॊ हि कारणाद राजा सत्क्रियां लभते पराम सास्य गूहति पापानि वासॊ गुह्यम इव सत्रियाः ॥ 7 ॥
ऋद्धिम अस्यानुवर्तन्ते पुरा विप्रकृता जनाः शाला वृका इवाजस्रं जिघांसून इव विन्दति ईदृशस्य कुतॊ राज्ञः सुखं भरतसत्तम ॥ 8 ॥
उद्यच्छेद एव न गलायेद उद्यमॊ हय एव पौरुषम अप्य अपर्वणि भज्येत न नमेतेह कस्य चित ॥ 9 ॥
अप्य अरण्यं समाश्रित्य चरेर दस्यु गणैः सह न तव एवॊद्धृत मर्यादैर दस्युभिः सहितश चरेत दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ॥ 10 ॥
एकान्तेन हय अमर्यादात सर्वॊ ऽपय उद्विजते जनः दस्यवॊ ऽपय उपशङ्कन्ते निरनुक्रॊश कारिणः ॥ 11 ॥
सथापयेद एव मर्यादां जनचित्तप्रसादिनीम अल्पाप्य अथेह मर्यादा लॊके भवति पूजिता ॥ 12 ॥
नायं लॊकॊ ऽसति न पर इति वयवसितॊ जनः नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि ॥ 13 ॥
यथा सद्भिः परादानम अहिंसा दस्युभिस तथा अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ॥ 14 ॥
अयुध्यमानस्य वधॊ दारामर्शः कृतघ्नता बरह्मवित तस्य चादानं निःशेष करणं तथा सत्रिया मॊषः परिस्थानं दस्युष्व एतद विगर्हितम ॥ 15 ॥
स एष एव भवति दस्युर एतानि वर्जयन अभिसंदधते ये न विनाशायास्य भारत नशेषम एवॊपालभ्य न कुर्वन्तीति निश्चयः ॥ 16 ॥
तस्मात सशेषं कर्तव्यं सवाधीनम अपि दस्युभिः न बलस्थॊ ऽहम अस्मीति नृशंसानि समाचरेत ॥ 17 ॥
सशेषकारिणस तात शेषं पश्यन्ति सर्वतः निःशेष कारिणॊ नित्यम अशेष करणाद भयम ॥ 18 ॥
शान्तिपर्व · Shanti Parva
अध्याय 131
Reach this point to mark the section finished.
Continue to अध्याय 132