धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 130

  1. [य] हीने परमके धर्मे सर्वलॊकातिलङ्घिनि सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने ॥ 1 ॥

  2. केनास्मिन बराह्मणॊ जीवेज जघन्ये काल आगते असंत्यजन पुत्रपौत्रान अनुक्रॊशात पितामह ॥ 2 ॥

  3. [भ] विज्ञानबलम आस्थाय जीवितव्यं तथागते सर्वं साध्व अर्थम एवेदम असाध्व अर्थं न किं चन ॥ 3 ॥

  4. असाधुभ्यॊ निरादाय साधुभ्यॊ यः परयच्छति आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविद एव सः ॥ 4 ॥

  5. सुरॊषेणात्मनॊ राजन राज्ये सथितिम अकॊपयन अदत्तम अप्य आददीत दातुर वित्तं ममेति वा ॥ 5 ॥

  6. विज्ञानबलपूतॊ यॊ वर्तते निन्दितेष्व अपि वृत्तविज्ञानवान धीरः कस तं किं वक्तुम अर्हसि ॥ 6 ॥

  7. येषां बलकृता वृत्तिर नैषाम अन्याभिरॊचते तेजसाभिप्रवर्धन्ते बलवन्तॊ युधिष्ठिर ॥ 7 ॥

  8. यद एव परकृतं शास्त्रम अविशेषेण विन्दति तद एव मध्याः सेवन्ते मेधावी चाप्य अथॊत्तरम ॥ 8 ॥

  9. ऋत्विक पुरॊहिताचार्यान सत्कृतैर अभिपूजितान न बराह्मणान यातयेत दॊषान पराप्नॊति यातयन ॥ 9 ॥

  10. एतत परमाणं लॊकस्य चक्षुर एत सनातनम तत परमाणॊ ऽवगाहेत तेन तत साध्व असाधु वा ॥ 10 ॥

  11. बहूनि गरामवास्तव्या रॊषाद बरूयुः परस्परम न तेषां वचनाद राजा सत्कुर्याद यातयेत वा ॥ 11 ॥

  12. न वाच्यः परिवादॊ वै न शरॊतव्यः कथं चन कर्णाव एव पिधातव्यौ परस्थेयं वा ततॊ ऽनयतः ॥ 12 ॥

  13. न वै सतां वृत्तम एतत परिवादॊ न पैशुनम गुणानाम एव वक्तारः सन्तः सत्सु युधिष्ठिर ॥ 13 ॥

  14. यथा समधुरौ दम्यौ सुदान्तौ साधु वाहिनौ धुरम उद्यम्य वहतस तथा वर्तेत वै नृपः यथा यथास्य वहतः सहायाः सयुस तथापरे ॥ 14 ॥

  15. आचारम एव मन्यन्ते गरीयॊ धर्मलक्षणम अपरे नैवम इच्छन्ति ये शङ्खलिखित परियाः मार्दवाद अथ लॊभाद वा ते बरूयुर वाक्यम ईदृशम ॥ 15 ॥

  16. आर्षम अप्य अत्र पश्यन्ति विकर्मस्थस्य यापनम न चार्षात सदृशं किं चित परमाणं विद्यते कव चित ॥ 16 ॥

  17. देवा अपि विकर्मस्थं यातयन्ति नराधमम वयाजेन विन्दन वित्तं हि धर्मात तु परिहीयते ॥ 17 ॥

  18. सर्वतः सत्कृतः सद्भिर भूतिप्रभव कारणैः हृदयेनाभ्यनुज्ञातॊ यॊ धर्मस तं वयवस्यति ॥ 18 ॥

  19. यश चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित अहेर इव हि धर्मस्य पदं दुःखं गवेषितुम ॥ 19 ॥

  20. यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत कक्षे रुधिरपातेन तथा धर्मपदं नयेत ॥ 20 ॥

  21. एवं सद्भिर विनीतेन पथा गन्तव्यम अच्युत राजर्षीणां वृत्तम एतद अवगच्छ युधिष्ठिर ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 131

Previous: अध्याय 129