धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 129

  1. [य] कषीणस्य दीर्घसूत्रस्य सानुक्रॊशस्य बन्धुषु विरक्त पौरराष्ट्रस्य निर्द्रव्य निचयस्य च ॥ 1 ॥

  2. परिशङ्कित मुख्यस्य सरुत मन्त्रस्य भारत असंभावित मित्रस्य भिन्नामात्यस्य सर्वशः ॥ 2 ॥

  3. परचक्राभियातस्य दुर्बलस्य बलीयसा आपन्न चेतसॊ बरूहि किं कार्यम अवशिष्यते ॥ 3 ॥

  4. [भ] बाह्यश चेद विजिगीषुः सयाद धर्मार्थकुशलः शुचिः जवेन संधिं कुर्वीत पूर्वान पूर्वा विमॊक्षयन ॥ 4 ॥

  5. अधर्मविजिगीषुश चेद बलवान पापनिश्चयः आत्मनः संनिरॊधेन संधिं तेनाभियॊजयेत ॥ 5 ॥

  6. अपास्य राजधानीं वा तरेद अन्येन वापदम तद्भावभावे दरव्याणि जीवन पुनर उपार्जयेत ॥ 6 ॥

  7. यास तु सयुः केवलत्यागाच छक्त्यास तरितुम आपदः कस तत्राधिकम आत्मानं संत्यजेद अर्थधर्मवित ॥ 7 ॥

  8. अवरॊधाज जुगुप्सेत का सपत्नधने दया न तव एवात्मा परदातव्यः शक्ये सति कथं चन ॥ 8 ॥

  9. [य] आभ्यन्तरे परकुपिते बाह्ये चॊपनिपीडिते कषीणे कॊशे सरुते मन्त्रे किं कार्यम अवशिष्यते ॥ 9 ॥

  10. [बः] कषिप्रं वा संधिकामः सयात कषिप्रं वा तीक्ष्णविक्रमः पदापनयनं कषिप्रम एतावत साम्परायिकम ॥ 10 ॥

  11. अनुरक्तेन पुष्टेन हृष्टेन जगतीपते अल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ 11 ॥

  12. हतॊ वा दिवम आरॊहेद विजयी कषितिम आवसेत युद्धे तु संत्यजन पराणाञ शक्रस्यैति सलॊकताम ॥ 12 ॥

  13. सर्वलॊकागमं कृत्वा मृदुत्वं गन्तुम एव च विश्वासाद विनयं कुर्याद वयवस्येद वाप्य उपानहौ ॥ 13 ॥

  14. अपक्रमितुम इच्छेद वा यथाकामं तु सान्त्वयेत विलिङ्गमित्वा मित्रेण ततः सवयम उपक्रमेत ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 130

Previous: अध्याय 128