[वैषम्पायन] अर्जुनस्य वचॊ शरुत्वा नकुलॊ वाक्यम अब्रवीत राजानम अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम ॥ 1 ॥
अनुरुध्य महाप्राज्ञॊ भरातुश चित्तम अरिंदमः वयूढॊरः कॊ महाबाहुस ताम्रास्यॊ मित भाषिता ॥ 2 ॥
विशाख यूपे देवानां सर्वेषाम अग्नयश चिताः तस्माद विद्धि महाराज देवान कर्म पथि सथितान ॥ 3 ॥
अनास्तिकान आस्तिकानां पराणदाः पितरश च ये ते ऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव वेदवादापविद्धांस तु तान विद्धि भृशनास्तिकान ॥ 4 ॥
न हि वेदॊक्तम उत्सृज्य विप्रः सर्वेषु कर्मसु देव यानेन नाकस्य पृष्ठम आप्नॊति भारत ॥ 5 ॥
अत्य आश्रमान अयं सर्वान इत्य आहुर वेद निश्चयाः बराह्मणाः शरुतिसंपन्नास तान निबॊध जनाधिप ॥ 6 ॥
वित्तानि धर्मलब्धानि करतुमुख्येष्व अवासृजन कृतात्मसु महाराज स वै तयागी समृतॊ नरः ॥ 7 ॥
अनवेक्ष्य सुखादानं तथेवॊर्ध्वं परतिष्ठितः आत्मत्यागी महाराज स तयागी तामसः परभॊ ॥ 8 ॥
अनिकेतः परिपतन वृक्षमूलाश्रयॊ मुनिः अपाचकः सदा यॊगी स तयागी पार्थ भिक्षुकः ॥ 9 ॥
करॊधहर्षाव अनादृत्य पैशुन्यं च विशां पते विप्रॊ वेदान अधीते यः स तयागी गुरु पूजकः ॥ 10 ॥
आश्रमांस तुलया सर्वान धृतान आहुर मनीषिणः एकतस ते तरयॊ राजन गृहस्थाश्रम एकतः ॥ 11 ॥
समीक्षते तु यॊ ऽरथं वै कामस्वर्गं च भारत अयं पन्था महर्षीणाम इयं लॊकविदां गतिः ॥ 12 ॥
इति यः कुरुते भावं स तयागी भरतर्षभ न यः परित्यज्य गृहान वनम एति विमूढवत ॥ 13 ॥
यदा कामान समीक्षेत धर्मवैतंसिकॊ ऽनृजुः अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराज ॥ 14 ॥
अभिमान कृतं कर्म नैतत फलवद उच्यते तयागयुक्तं महाराज सर्वम एव महाफलम ॥ 15 ॥
शमॊ दमस तपॊ दानं सत्यं शौचम अथार्जवम यज्ञॊ धृतिश च धर्मश च नित्यम आर्षॊ विधिः समृतः ॥ 16 ॥
पितृदेवातिथि कृते समारम्भॊ ऽतर शस्यते अत्रैव हि महाराज तरिवर्गः केवलं फलम ॥ 17 ॥
एतस्मिन वर्तमानस्य विधौ विप्रनिषेविते तयागिनः परकृतस्येह नॊच्छित्तिर विद्यते कव चित ॥ 18 ॥
असृजद धि परजा राजन परजापतिर अकल्मषः मां यक्ष्यन्तीति शान्तात्मा यज्ञैर विविधदक्षिणैः ॥ 19 ॥
वीरुधश चैव वृक्षांश च यज्ञार्थं च तथौषधीः पशूंश चैव तथा मेध्यान यज्ञार्थानि हवींषि च ॥ 20 ॥
गृहस्थाश्रमिणस तच च यज्ञकर्म विरॊधकम तस्माद गार्हस्थ्यम एवेह दुष्करं दुर्लभं तथा ॥ 21 ॥
तत संप्राप्य गृहस्था ये पशुधान्य समन्विताः न यजन्ते महाराज शाश्वतं तेषु किल्बिषम ॥ 22 ॥
सवाध्याययज्ञा ऋषयॊ जञानयज्ञास तथापरे अथापरे महायज्ञान मनसैव वितन्वते ॥ 23 ॥
एवं दानसमाधानं मार्गम आतिष्ठतॊ नृप दविजातेर बरह्मभूतस्य सपृहयन्ति दिवौकसः ॥ 24 ॥
स रत्नानि विचित्राणि संभृतानि ततस ततः मखेष्व अनभिसंत्यज्य नास्तिक्यम अभिजल्पसि कुटुम्बम आस्थिते तयागं न पश्यामि नराधिप ॥ 25 ॥
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः य चान्ये करतवस तात बराह्मणैर अभिपूजिताः तैर यजस्व महाराज शक्रॊ देवपतिर यथा ॥ 26 ॥
राज्ञः परमाददॊषेण दस्युभिः परिमुष्यताम अशरण्यः परजानां यः स राजा कलिर उच्यते ॥ 27 ॥
अश्वान गाश चैव दासीश च करेणूश च सवलं कृताः गरामाञ जनपदांश चैव कषेत्राणि च गृहाणि च ॥ 28 ॥
अप्रदाय दविजातिभ्यॊ मात्सर्याविष्ट चेतसः वयं ते राजकलयॊ भविष्यामॊ विशां पते ॥ 29 ॥
अदातारॊ ऽशरण्याश च राजकिल्बिष भागिनः दुःखानाम एव भॊक्तारॊ न सुखानां कदा चन ॥ 30 ॥
अनिष्ट्वा च महायज्ञैर अकृत्वाच पितृस्वधाम तीर्थेष्व अनभिसंत्यज्य परव्रजिष्यसि चेद अथ ॥ 31 ॥
छिन्नाभ्रम इव गन्तासि विलयं मारुतेरितम लॊकयॊर उभयॊर भरष्टॊ हय अन्तराले वयवस्थितः ॥ 32 ॥
अन्तर बहिश च यत किं चिन मनॊ वयासङ्ग कारकम परित्यज्य भवेत तयागी न यॊ हित्वा परतिष्ठते ॥ 33 ॥
एतस्मिन वर्तमानस्य विधौ विप्रनिषेविते बराह्मणस्य महाराज नॊच्छित्तिर विद्यते कव चित ॥ 34 ॥
निहत्य शत्रूंस तरसा समृद्धान; शक्रॊ यथा दैत्य बलानि संख्ये कः पार्थ शॊचेन निरतः सवधर्मे; पूर्वैः समृते पार्थिव शिष्टजुष्टे ॥ 35 ॥
कषात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः परदाय नाकस्य पृष्ठे ऽसि नरेन्द्र गन्ता; न शॊचितव्यं भवताद्य पार्थ ॥ 36 ॥
शान्तिपर्व · Shanti Parva
अध्याय 12
Reach this point to mark the section finished.
Continue to अध्याय 13