[य] मित्रैः परहीयमाणस्य बह्व अमित्रस्य का गतिः राज्ञः संक्षीण कॊशस्य बलहीनस्य भारत ॥ 1 ॥
दुष्टामत्य सहायस्य सरुत मन्त्रस्य सर्वतः राज्यात परच्यवमानस्य गतिम अन्याम अपश्यतः ॥ 2 ॥
परचक्राभियातस्य दुर्लभस्य बलीयसा असंविहित राष्ट्रस्य देशकालावजानतः ॥ 3 ॥
अप्राप्यं च भवेत सान्त्वं भेदॊ वाप्य अतिपीडनात जीवितं चार्थहेतॊर वा तत्र किं सुकृतं भवेत ॥ 4 ॥
[भ] गुह्यं मा धर्मम अप्राक्षीर अतीव भरतर्षभ अपृष्टॊ नॊत्सहे वक्तुं धर्मम एनं युधिष्ठिर ॥ 5 ॥
धर्मॊ हय अणीयान वचनाद बुद्धेश च भरतर्षभ शरुत्वॊपास्य सद आचारैः साधुर भवति स कव चित ॥ 6 ॥
कर्मणा बुद्धिपूर्वेण भवत्य आढ्यॊ न वा पुनः तादृशॊ ऽयम अनुप्रश्नः स वयवस्यस तवया धिया ॥ 7 ॥
उपायं धर्मबहुलं यात्रार्थं शृणु भारत नाहम एतादृशं धर्मं बुभूषे धर्मकारणात दुःखादान इहाढ्येषु सयात तु पश्चात कषमॊ मतः ॥ 8 ॥
अनुगम्य गतीनां च सर्वासाम एव निश्चयम यथा यथा हि पुरुषॊ नित्यं शास्त्रम अवेक्षते तथा तथा विजानाति विज्ञानं चास्य रॊचते ॥ 9 ॥
अविज्ञानाद अयॊगश च पुरुषस्यॊपजायते अविज्ञानाद अयॊगॊ हि यॊगॊ भूतिकरः पुनः ॥ 10 ॥
अशङ्कमानॊ वचनम अनसूयुर इदं शृणु राज्ञः कॊशक्षयाद एव जायते बलसंक्षयः ॥ 11 ॥
कॊशं संजनयेद राजा निर्जलेभ्यॊ यथा जलम कालं पराप्यानुगृह्णीयाद एष धर्मॊ ऽतर सांप्रतम ॥ 12 ॥
उपायधर्मं पराप्यैनं पूर्वैर आचरितं जनैः अन्यॊ धर्मः समर्थानाम आपत्स्व अन्यश च भारत ॥ 13 ॥
पराक कॊशः परॊच्यते धर्मॊ बुद्धिर धर्माद गरीयसी धर्मं पराप्य नयायवृत्तिम अबलीयान न विन्दति ॥ 14 ॥
यस्माद धनस्यॊपपत्तिर एकान्तेन न विद्यते तस्माद आपद्य अधर्मॊ ऽपि शरूयते धर्मलक्षणः ॥ 15 ॥
अधर्मॊ जायते यस्मिन्न इति वै कवयॊ विदुः अनन्तरः कषत्रियस्य इति वै विचिकित्ससे ॥ 16 ॥
यथास्य धर्मॊ न गलायेन नेयाच छत्रुवशं यथा तत कर्तव्यम इहेत्य आहुर नात्मानम अवसादयेत ॥ 17 ॥
सन्न आत्मा नैव धर्मस्य न परस्य न चात्मनः सर्वॊपायैर उज्जिहीर्षेद आत्मानम इति निश्चयः ॥ 18 ॥
तत्र धर्मविदां तात निश्चयॊ धर्मनौपुणे उद्यमॊ जीवनं कषत्रे बाहुवीर्याद इति शरुतिः ॥ 19 ॥
कषत्रियॊ वृत्ति संरॊधे कस्य नादातुम अर्हति अन्यत्र तापस सवाच च बराह्मण सवाच च भारत ॥ 20 ॥
यथा वै बराह्मणः सीदन्न अयाज्यम अपि याजयेत अभॊज्यान्नानि चाश्नीयात तथेदं नात्र संशयः ॥ 21 ॥
पीडितस्य किम अद्वारम उत्पथॊ निधृतस्य वा अद्वारतः परद्रवति यदा भवति पीडितः ॥ 22 ॥
तस्य कॊशबलज्यान्या सर्वलॊकपराभवः भैक्ष चर्या न विहिता न च विट शूद्र जीविका ॥ 23 ॥
सवधर्मानन्तरा वृत्तिर यान्यान अनुपजीवतः वहतः परथमं कल्पम अनुकल्पेन जीवनम ॥ 24 ॥
आपद गतेन धर्माणाम अन्यायेनॊपजीवनम अपि हय एतद बराह्मणेषु दृष्टं वृत्ति परिक्षये ॥ 25 ॥
कषत्रिये संशयः कः सयाद इत्य एतन निश्चितं सदा आददीत विशिष्टेभ्यॊ नावसीदेत कथं चन ॥ 26 ॥
हन्तारं रक्षितारं च परजानां कषत्रियं विदुः तस्मात संरक्षता कार्यम आदानं कषत्रबन्धुना ॥ 27 ॥
अन्यत्र राजन हिंसाया वृत्तिर नेहास्ति कस्य चित अप्य अरण्यसमुत्थस्य एकस्य चरतॊ मुनेः ॥ 28 ॥
न शङ्खलिखितां वृत्तिं शक्यम आस्थाय जीवितुम विशेषतः कुरुश्रेष्ठ परजापालनम ईप्सता ॥ 29 ॥
परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि नित्यम एवेह कर्तव्या एष धर्मः सनातनः ॥ 30 ॥
राजा राष्ट्रं यथापत्सु दरव्यौघैः परिरक्षति राष्ट्रेण राजा वयसने परिरक्ष्यस तथा भवेत ॥ 31 ॥
कॊशं दण्डं बलं मित्रं यद अन्यद अपि संचितम न कुर्वीतान्तरं राष्ट्रे राजा परिगते कषुधा ॥ 32 ॥
बीजं भक्तेन संपाद्यम इति धर्मविदॊ विदुः अत्रैतच छम्बरस्याहुर महामायस्य दर्शनम ॥ 33 ॥
धिक तस्य जीवितं राज्ञॊ राष्ट्रे यस्यावसीदति अवृत्त्यान्त्य मनुष्यॊ ऽपि यॊ वै वेद शिबेर वचः ॥ 34 ॥
राज्ञः कॊशबलं मूलं कॊशमूलं पुनर बलम तन मूलं सर्वधर्माणां धर्ममूलाः पुनः परजाः ॥ 35 ॥
नान्यान अपीडयित्वेह कॊशः शक्यः कुतॊ बलम तदर्थं पीडयित्वा च दॊषं न पराप्तुम अर्हति ॥ 36 ॥
अकार्यम अपि यज्ञार्थं करियते यज्ञकर्मसु एतस्मात कारणाद राजा न दॊषं पराप्तुम अर्हति ॥ 37 ॥
अर्थार्थम अन्यद भवति विपरीतम अथापरम अनर्थार्थम अथाप्य अन्यत तत सर्वं हय अर्थलक्षणम एवं बुद्ध्या संप्रपश्येन मेधावी कार्यनिश्चयम ॥ 38 ॥
यज्ञार्थम अन्यद भवति यज्ञे नार्थस तथापरः यज्ञस्यार्थार्थम एवान्यत तत सर्वं यज्ञसाधनम ॥ 39 ॥
उपमाम अत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः ॥ 40 ॥
दरुमाः के चन सामन्ता धरुवं छिन्दन्ति तान अपि ते चापि निपतन्तॊ ऽनयान निघ्नन्ति च वनस्पतीन ॥ 41 ॥
एवं कॊशस्य महतॊ ये नराः परिपन्थिनः तान अहत्वा न पश्यामि सिद्धिम अत्र परंतप ॥ 42 ॥
धनेन जयते लॊकाव उभौ परम इमं तथा सत्यं च धर्मवचनं यथा नास्त्य अधनस तथा ॥ 43 ॥
सर्वॊपायैर आददीत धनं यज्ञप्रयॊजनम न तुल्यदॊषः सयाद एवं कार्याकार्येषु भारत ॥ 44 ॥
नैतौ संभवतॊ राजन कथं चिद अपि भारत न हय अरण्येषु पश्यामि धनवृद्धान अहं कव चित ॥ 45 ॥
यद इदं दृश्यते वित्तं पृथिव्याम इह किं चन ममेदं सयान ममेदं सयाद इत्य अयं काङ्क्षते जनः ॥ 46 ॥
न च राज्यसमॊ धर्मः कश चिद अस्ति परंतप धर्मं शंसन्ति ते राज्ञाम आपद अर्थम इतॊ ऽनयथा ॥ 47 ॥
दानेन कर्मणा चान्ये तपसान्ये तपस्विनः बुद्ध्या दाक्ष्येण चाप्य अन्ये चिन्वन्ति धनसंचयान ॥ 48 ॥
अधनं दुर्बलं पराहुर धनेन बलवान भवेत सर्वं धनवतः पराप्यं सर्वं तरति कॊशवान कॊशाद धर्मश च कामश च परॊ लॊकस तथाप्य अयम ॥ 49 ॥
शान्तिपर्व · Shanti Parva
अध्याय 128
Reach this point to mark the section finished.
Continue to अध्याय 129