धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 127

  1. [य] नामृतस्येव पर्याप्तिर ममास्ति बरुवति तवयि तस्मात कथय भूयस तवं धर्मम एव पितामह ॥ 1 ॥

  2. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गौतमस्य च संवादं यमस्य च महात्मनः ॥ 2 ॥

  3. पारियात्र गिरिं पराप्य गौतमस्याश्रमॊ महान उवास गौतमॊ यत्र कालं तद अपि मे शृणु ॥ 3 ॥

  4. षष्टिं वर्षसहस्राणि सॊ ऽतप्यद गौतमस तपः तम उग्रतपसं युक्तं तपसा भावितं मुनिम ॥ 4 ॥

  5. उपयातॊ नरव्याघ्र लॊकपालॊ यमस तदा तम अपश्यत सुतपसम ऋषिं वै गौतमं मुनिम ॥ 5 ॥

  6. स तं विदित्वा बरह्मर्षिर यमम आगतम ओजसा पराञ्जलिः परयतॊ भूत्वा उपसृप्तस तपॊधनः ॥ 6 ॥

  7. तं धर्मराजॊ दृष्ट्वैव नमस्कृत्य नरर्षभम नयमन्त्रयत धर्मेण करियतां किम इति बरुवन ॥ 7 ॥

  8. [ग] माता पितृभ्याम आनृण्यं किं कृत्वा समवाप्नुयात कथं च लॊकान अश्नाति पुरुषॊ दुर्लभाञ शुभान ॥ 8 ॥

  9. [य] तपः शौचवता नित्यं सत्यधर्मरतेन च मातापित्रॊर अहर अहः पूजनं कार्यम अञ्जसा ॥ 9 ॥

  10. अश्वमेधैश च यष्टव्यं बहुभिः सवाप्तदक्षिणैः तेन लॊकान उपाश्नाति पुरुषॊ ऽदभुतदर्शनान ॥ 10 ॥

Reach this point to mark the section finished.

Continue to अध्याय 128

Previous: अध्याय 126