[भ] ततस तेषां समस्तानाम ऋषीणाम ऋषिसत्तमः ऋषभॊ नाम विप्रर्षिः समयन्न इव ततॊ ऽबरवीत ॥ 1 ॥
पुराहं राजशार्दूल तीर्थान्य अनुचरन परभॊ समासादितवान दिव्यं नरनारायणाश्रमम ॥ 2 ॥
यत्र सा बदरी रम्या हरदॊ वैहायसस तथा यत्र चाश्वशिरा राजन वेदान पठति शाश्वतान ॥ 3 ॥
तस्मिन सरसि कृत्वाहं विधिवत तर्पणं पुरा पितॄणां देवतानां च ततॊ ऽऽशरमम इयां तदा ॥ 4 ॥
रेमाते यत्र तौ नित्यं नरनारायणाव ऋषी अदूराद आश्रमं कं चिद वासार्थम अगमं ततः ॥ 5 ॥
ततश चीराजिनधरं कृशम उच्चम अतीव च अद्राक्षम ऋषिम आयान्तं तनुं नाम तपॊ निधिम ॥ 6 ॥
अन्यैर नरैर महाबाहॊ वपुषाष्ट गुणान्वितम कृशता चापि राजर्षे न दृष्टा तादृशी कव चित ॥ 7 ॥
शरीरम अपि राजेन्द्र तस्य कानिष्ठिका समम गरीवा बाहू तथा पादौ केशाश चाद्भुतदर्शनाः ॥ 8 ॥
शिरः कायानुरूपं च कर्णौ नेते तथैव च तस्य वाक चैव चेष्टा च सामान्ये राजसत्तम ॥ 9 ॥
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः पादौ तस्याभिवाद्याथ सथितः पराञ्जलिर अग्रतः ॥ 10 ॥
निवेद्य नामगॊत्रं च पितरं च नरर्षभ परदिष्टे चासने तेन शनैर अहम उपाविशम ॥ 11 ॥
ततः स कथयाम आस कथा धर्मार्थसंहिताः ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ 12 ॥
तस्मिंस तु कथयत्य एव राजा राजीवलॊचनः उपायाज जवनैर अश्वैः सबलः सावरॊधनः ॥ 13 ॥
समरन पुत्रम अरण्ये वै नष्टं परमदुर्मनाः भूरिद्युम्न पिता धीमान रघुश्रेष्ठॊ महायशाः ॥ 14 ॥
इह दरक्ष्यामि तं पुत्रं दरक्ष्यामीहेति पार्थिवः एवम आशाकृतॊ राजंश चरन वनम इदं पुरा ॥ 15 ॥
दुर्लभः स मया दरष्टुं नूनं परमधार्मिकः एकः पुत्रॊ महारण्ये नष्ट इत्य असकृत तदा ॥ 16 ॥
दुर्लभः स मया दरष्टुम आशा च महती मम तया परीतगात्रॊ ऽहं मुमूर्षुर नात्र संशयः ॥ 17 ॥
एतच छरुत्वा स भगवांस तनुर मुनिवरॊत्तमः अवाक्शिरा धयानपरॊ मुहूर्तम इव तस्थिवान ॥ 18 ॥
तम अनुध्यान्तम आलक्ष्य राजा परमदुर्मनाः उवाच वाक्यं दीनात्मा मन्दं मन्दम इवासकृत ॥ 19 ॥
दुर्लभं किं नु विप्रर्षे आशायाश चैव किं भवेत बरवीतु भगवान एतद यदि गुह्यं न तन मयि ॥ 20 ॥
महर्षिर भगवांस तेन पूर्वम आसीद विमानितः बालिशां बुद्धिम आस्थाय मन्दभाग्यतयात्मनः ॥ 21 ॥
अर्थयन कलशं राजन काञ्चनं वल्कलानि च निर्विण्णः स तु विप्रर्षिर निराशः समपद्यत ॥ 22 ॥
एवम उक्त्वाभिवाद्याथ तम ऋषिं लॊकपूजितम शरान्तॊ नयषीदद धर्मात्मा यथा तवं नरसत्तम ॥ 23 ॥
अर्घ्यं ततः समानीय पाद्यं चैव महान ऋषिः आरण्यकेन विधिना राज्ञे सर्वं नयवेदयत ॥ 24 ॥
ततस ते मुनयः सर्वे परिवार्य नरर्षभम उपाविशन पुरस्कृत्य सप्तर्षय इव धरुवम ॥ 25 ॥
अपृच्छंश चैव ते तत्र राजानम अपराजितम परयॊजनम इदं सर्वम आश्रमस्य परवेशनम ॥ 26 ॥
[राजा] वीर दयुम्न इति खयातॊ राजाहं दिक्षु विश्रुतः भूरि दयुम्नं सुतं नष्टम अन्वेष्टुं वनम आगतः ॥ 27 ॥
एकपुत्रः स विप्राग्र्य बाल एव च सॊ ऽनघ न दृश्यते वने चास्मिंस तम अन्वेष्टुं चराम्य अहम ॥ 28 ॥
[रसभ] एवम उक्ते तु वचने राज्ञा मुनिर अधॊमुखः तूष्णीम एवाभवत तत्र न च परत्युक्तवान नृपम ॥ 29 ॥
स हि तेन पुरा विप्रॊ राज्ञा नात्यर्थ मानितः आशा कृशं च राजेन्द्र तपॊ दीर्घं समास्थितः ॥ 30 ॥
परतिग्रहम अहं राज्ञां न करिष्ये कथं चन अन्येषां चैव वर्णानाम इति कृत्वा धियं तदा ॥ 31 ॥
आशा हि पुरुषं बालं लालापयति तस्थुषी ताम अहं वयपनेष्यामि इति कृत्वा वयवस्थितः ॥ 32 ॥
[र] आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम बरवीतु भगवान एतत तवं हि धर्मार्थदर्शिवान ॥ 33 ॥
[रसभ] ततः संस्मृत्य तत सर्वं समारयिष्यन्न इवाब्रवीत राजानं भगवान विप्रस ततः कृश तनुस तनुः ॥ 34 ॥
कृशत्वे न समं राजन्न आशाया विद्यते नृप तस्या वै दुर्लभत्वात तु परार्थिताः पार्थिवा मया ॥ 35 ॥
[र] कृशाकृशे मया बरह्मन गृहीते वचनात तव दुर्लभत्वं च तस्यैव वेद वाक्यम इव दविज ॥ 36 ॥
संशयस तु महाप्राज्ञ संजातॊ हृदये मम तन मे सत्तम तत्त्वेन वक्तुम अर्हसि पृच्छतः ॥ 37 ॥
तवत्तः कृशतरं किं नु बरवीतु भगवान इदम यदि गुह्यं न ते विप्र लॊके ऽसमिन किं नु दुर्लभम ॥ 38 ॥
[कृषातनु] दुर्लभॊ ऽपय अथ वा नास्ति यॊ ऽरथी धृतिम इवाप्नुयात सुदुर्लभतरस तात यॊ ऽरथिनं नावमन्यते ॥ 39 ॥
संश्रुत्य नॊपक्रियते परं शक्त्या यथार्हतः सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥ 40 ॥
एकपुत्रः पिता पुत्रे नष्टे वा परॊषिते तथा परवृत्तिं यॊ न जानाति साशा कृशतरी मया ॥ 41 ॥
परसवे चैव नारीणां वृद्धानां पुत्र कारिता तथा नरेन्द्र धनिनाम आशा कृशतरी मया ॥ 42 ॥
[रसभ] एतच छरुत्वा ततॊ राजन स राजा सावरॊधनः संस्पृश्य पादौ शिरसा निपपात दविजर्षभे ॥ 43 ॥
[राजा] परसादये तवा भगवन पुत्रेणेच्छामि संगतिम वृणीष्व च वरं विप्र यम इच्छसि यथाविधि ॥ 44 ॥
[रसभ] अब्रवीच च हि तं वाक्यं राजा राजीवलॊचनः सत्यम एतद यथा विप्र तवयॊक्तं नास्त्य अतॊ मृषा ॥ 45 ॥
ततः परहस्य भगवांस तनुर धर्मभृतां वरः पुत्रम अस्यानयत कषिप्रं तपसा च शरुतेन च ॥ 46 ॥
तं समानाय्य पुत्रं तु तदॊपालभ्य पार्थिवम आत्मानं दर्शयाम आस धर्मं धर्मभृतां वरः ॥ 47 ॥
संदर्शयित्वा चात्मानं दिव्यम अद्भुतदर्शनम विपाप्मा विगतक्रॊधश चचार वनम अन्तिकात ॥ 48 ॥
एतद दृष्टं मया राजंस ततश च वचनं शरुतम आशाम अपनयस्वाशु ततः कृशतरीम इमाम ॥ 49 ॥
[भ] स तत्रॊक्तॊ महाराज ऋषभेण महात्मना सुमित्रॊ ऽपनयत कषिप्रम आशां कृशतरीं तदा ॥ 50 ॥
एवं तवम अपि कौन्तेय शरुत्वा वाणीम इमां मम सथिरॊ भव यथा राजन हिमवान अचलॊत्तमः ॥ 51 ॥
तवं हि दरष्टा च शरॊता च कृच्छ्रेष्व अर्थकृतेष्व इह शरुत्वा मम महाराज न संतप्तुम इहार्हसि ॥ 52 ॥
शान्तिपर्व · Shanti Parva
अध्याय 126
Reach this point to mark the section finished.
Continue to अध्याय 127