धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 125

  1. [य] शीलं परधानं पुरुषे कथितं ते पितामह कथम आशा समुत्पन्ना या च सा तद वदस्व मे ॥ 1 ॥

  2. संशयॊ मे महान एष समुत्पन्नः पितामह छेत्ता च तस्य नान्यॊ ऽसति तवत्तः परपुरंजय ॥ 2 ॥

  3. पितामहाशा महती ममासीद धि सुयॊधने पराप्ते युद्धे तु यद युक्तं तत कर्तायम इति परभॊ ॥ 3 ॥

  4. सर्वस्याशा सुमहती पुरुषस्यॊपजायते तस्यां विहन्यमानायां दुःखॊ मृत्युर असंशयम ॥ 4 ॥

  5. सॊ ऽहं हताशॊ दुर्बुद्धिः कृतस तेन दुरात्मना धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ 5 ॥

  6. आशां महत्तरां मन्ये पर्वताद अपि स दरुमात आकाशाद अपि वा राजन्न अप्रमेयैव वा पुनः ॥ 6 ॥

  7. एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा दुर्लभत्वाच च पश्यामि किम अन्यद दुर्लभं ततः ॥ 7 ॥

  8. [भ] अत्र ते वर्तयिष्यामि युधिष्ठिर निबॊध तत इतिहासं सुमित्रस्य निर्वृत्तम ऋषभस्य च ॥ 8 ॥

  9. सुमित्रॊ नाम राजर्षिर हैहयॊ मृगयां गतः ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥ 9 ॥

  10. स मृगॊ बाणम आदाय ययाव अमितविक्रमः स च राजा बली तूर्णं ससार मृगम अन्तिकात ॥ 10 ॥

  11. ततॊ निम्नं सथलं चैव स मृगॊ ऽदरवद आशुगः मुहूर्तम एव राजेन्द्र समेन स पथागमत ॥ 11 ॥

  12. ततः स राजा तारुण्याद औरसेन बलेन च ससार बाणासनभृत सखड्गॊ हंसवत तदा ॥ 12 ॥

  13. तीर्त्वा नदान नदींश चैव पल्वलानि वनानि च अतिक्रम्याभ्यतिक्रम्य ससारैव वनेचरन ॥ 13 ॥

  14. स तु कामान मृगॊ राजन्न आसाद्यासाद्य तं नृपम पुनर अभ्येति जवनॊ जवेन महता ततः ॥ 14 ॥

  15. स तस्य बाणैर बहुभिः समभ्यस्तॊ वनेचरः परक्रीडन्न इव राजेन्द्र पुनर अभ्येति चान्तिकम ॥ 15 ॥

  16. पुनश च जवम आस्थाय जवनॊ मृगयूथपः अतीत्यातीत्य राजेन्द्र पुनर अभ्येति चान्तिकम ॥ 16 ॥

  17. तस्य मर्मच छिदं घॊरं सुमित्रॊ ऽमित्रकर्शनः समादाय शरश्रेष्ठं कार्मुकान निरवासृजत ॥ 17 ॥

  18. ततॊ गव्यूति मात्रेण मृगयूथप यूथपः तस्य बान पथं तयक्त्वा तस्थिवान परहसन्न इव ॥ 18 ॥

  19. तस्मिन निपतिते बाणे भूमौ परजलिते ततः परविवेश महारण्यं मृगॊ राजाप्य अथाद्रवत ॥ 19 ॥

  20. परविश्य तु महारण्यं तापसानाम अथाश्रमम आससाद ततॊ राजा शरान्तश चॊपाविशत पुनः ॥ 20 ॥

  21. तं कार्मुकधरं दृष्ट्वा शरमार्तं कषुधितं तदा समेत्य ऋषयस तस्मिन पूजां चक्रुर यथाविधि ॥ 21 ॥

  22. ऋषयॊ राजशार्दूलम अपृच्छन सवं परयॊजनम केन भद्र मुखार्थेन संप्राप्तॊ ऽसि तपॊवनम ॥ 22 ॥

  23. पदातिर बद्धनिस्त्रिंशॊ धन्वी बाणी नरेश्वर एतद इच्छाम विज्ञातुं कुतः पराप्तॊ ऽसि मानद कस्मिन कुले हि जातस तवं किंनामासि बरवीहि नः ॥ 23 ॥

  24. ततः स राजा सर्वेभ्यॊ दविजेभ्यः पुरुषर्षभ आचख्यौ तद यथान्यायं परिचर्यां च भारत ॥ 24 ॥

  25. हैहयानां कुले जातः सुमित्रॊ मित्रनन्दनः चरामि मृगयूथानि निघ्नन बाणैः सहस्रशः बलेन महता गुप्तः सामात्यः सावरॊधनः ॥ 25 ॥

  26. मृगस तु विद्धॊ बाणेन मया सरति शल्यवान तं दरवन्तम अनु पराप्तॊ वनम एतद यदृच्छया भवत सकाशे नष्टश्रीर हताशः शरमकर्शितः ॥ 26 ॥

  27. किं नु दुःखम अतॊ ऽनयद वै यद अहं शरमकर्शितः भवताम आश्रमं पराप्तॊ हताशॊ नष्टलक्षणः ॥ 27 ॥

  28. न राज्यलक्षणत्यागॊ न पुरस्य तपॊधनाः दुःखं करॊति तत तीव्रं यथाशा विहता मम ॥ 28 ॥

  29. हिमवान वा महाशैलः समुद्रॊ वा महॊदधिः महत्त्वान नान्वपद्येतां रॊदस्यॊर अन्तरं यथा आशायास तपसि शरेष्ठास तथा नान्तम अहं गतः ॥ 29 ॥

  30. भवतां विदितं सर्वं सर्वज्ञा हि तपॊधनाः भवन्तः सुमहाभागास तस्मात परक्ष्यामि संशयम ॥ 30 ॥

  31. आशावान पुरुषॊ यः सयाद अन्तरिक्षम अथापि वा किं नु जयायस्तरं लॊके महत्त्वात परतिभाति वः एतद इच्छामि तत्त्वेन शरॊतुं किम इह दुर्लभम ॥ 31 ॥

  32. यदि गुह्यं तपॊनित्या न वॊ बरूतेह माचिरम न हि गुह्यम अतः शरॊतुम इच्छामि दविजपुंगवाः ॥ 32 ॥

  33. भवत तपॊ विघातॊ वा येन सयाद विरमे ततः यदि वास्ति कथा यॊगॊ यॊ ऽयं परश्नॊ मयेरितः ॥ 33 ॥

  34. एतत कारणसामग्र्यं शरॊतुम इच्छामि तत्त्वतः भवन्तॊ हि तपॊनित्या बरूयुर एतत समाहिताः ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 126

Previous: अध्याय 124