[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम अङ्गेषु राजा दयुतिमान वसु हॊम इति शरुतः ॥ 1 ॥
स राजा धर्मनित्यः सन सह पत्न्या महातपाः मुञ्ज पृष्ठं जगामाथ देवर्षिगणपूजितम ॥ 2 ॥
तत्र शृङ्गे हिमवतॊ मेरौ कनकपर्वते यत्र मुञ्जवटे रामॊ जटा हरणम आदिशत ॥ 3 ॥
तदा परभृति राजेन्द्र ऋषिभिः संशितव्रतैः मुञ्ज पृष्ठ इति परॊक्तः स देशॊ रुद्र सेवितः ॥ 4 ॥
स तत्र बहुभिर युक्तः सदा शरुतिमयैर गुणैः बराह्मणानाम अनुमतॊ देवर्षिसदृशॊ ऽभवत ॥ 5 ॥
तं कदा चिद अदीनात्मा सखा शक्रस्य मानितः अभ्यागच्छन महीपालॊ मान्धाता शत्रुकर्शनः ॥ 6 ॥
सॊ ऽभिसृत्य तु मान्धाता वसु हॊमं नराधिपम दृष्ट्वा परकृष्टं तपसा विनयेनाभ्यतिष्ठत ॥ 7 ॥
वसु हॊमॊ ऽपि राज्ञॊ वै गाम अर्घ्यं च नयवेदयत अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा ॥ 8 ॥
सद्भिर आचरितं पूर्वं यथावद अनुयायिनम अपृच्छद वसु हॊमस तं राजन किं करवाणि ते ॥ 9 ॥
सॊ ऽबरवीत परमप्रीतॊ मान्धाता राजसत्तमम वसु हॊमं महाप्राज्ञम आसीनं कुरुनन्दन ॥ 10 ॥
बृहस्पतेर मतं राजन्न अधीतं सकलं तवया तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप ॥ 11 ॥
तद अहं शरॊतुम इच्छामि दण्ड उत्पद्यते कथम किं वापि पूर्वं जागर्ति किं वा परमम उच्यते ॥ 12 ॥
कथं कषत्रिय संस्थश च दण्डः संप्रत्य अवस्थितः बरूहि मे सुमहाप्राज्ञ ददाम्य आचार्य वेतनम ॥ 13 ॥
[वसुहॊम] शृणु राजन यथा दण्डः संभूतॊ लॊकसंग्रहः परजा विनयरक्षार्थं धर्मस्यात्मा सनातनः ॥ 14 ॥
बरह्मा यियक्षुर भगवान सर्वलॊकपितामहः ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः शरुतम ॥ 15 ॥
स गर्भं शिरसा देवॊ वर्षपूगान अधारयत पूर्णे वर्षसहस्रे तु स गर्भः कषुवतॊ ऽपतत ॥ 16 ॥
स कषुपॊ नाम संभूतः परजापतिर अरिंदम ऋत्विग आसीत तदा राजन यज्ञे तस्य महात्मनः ॥ 17 ॥
तस्मिन परवृत्ते सत्रे तु बरह्मणः पार्थिवर्षभ हृष्टरूपप्रचारत्वाद दण्डः सॊ ऽनतर्हितॊ ऽभवत ॥ 18 ॥
तस्मिन्न अन्तर्हिते चाथ परजानां संकरॊ ऽभवत नैव कार्यं न चाकार्यं भॊज्याभॊज्यं न विद्यते ॥ 19 ॥
पेयापेयं कुतः सिद्धिर हिसन्ति च परस्परम गम्यागम्यं तदा नासीत परस्वं सवं च वै समम ॥ 20 ॥
परस्परं विलुम्पन्ते सारमेया इवामिषम अबलं बलिनॊ जघ्नुर निर्मर्यादम अवर्तत ॥ 21 ॥
ततः पितामहॊ विष्णुं भगवन्तं सनातनम संपूज्य वरदं देवं महादेवम अथाब्रवीत ॥ 22 ॥
अत्र साध्व अनुकम्पां वै कर्तुम अर्हसि केवलम संकरॊ न भवेद अत्र यथा वै तद विधीयताम ॥ 23 ॥
ततः स भगवान धयात्वा चिरं शूलजटा धरः आत्मानम आत्मना दण्डम असृजद देवसत्तमः ॥ 24 ॥
तस्माच च धर्मचरणां नीतिं देवीं सरस्वतीम असृजद दण्डनीतिः सा तरिषु लॊकेषु विश्रुता ॥ 25 ॥
भूयः स भगवान धयात्वा चिरं शूलवरायुधः तस्य तस्य निकायस्य चकारैकैकम ईशरम ॥ 26 ॥
देवानाम ईश्वरं चक्रे देवं दशशतेक्षणम यमं वैवस्वतं चापि पितॄणाम अकरॊत पतिम ॥ 27 ॥
धनानां रक्षसां चापि कुबेरम अपि चेश्वरम पर्वतानां पतिं मेरुं सरितां च महॊदधिम ॥ 28 ॥
अपां राज्ये सुराणां च विदधे वरुणं परभुम मृत्युं पराणेश्वरम अथॊ तेजसां च हुताशनम ॥ 29 ॥
रुद्राणाम अपि चेशानं गॊप्तारं विदधे परभुः महात्मानं महादेवं विशालाक्षं सनातनम ॥ 30 ॥
वसिष्ठम ईशं विप्राणां वसूनां जातवेदसम तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम ॥ 31 ॥
वीरुधाम अंशुमन्तं च भूतानां च परभुं वरम कुमारं दवादश भुजं सकन्दं राजानम आदिशत ॥ 32 ॥
कालं सर्वेशम अकरॊत संहार विनयात्मकम मृत्यॊश चतुर्विभागस्य दुःखस्य च सुखस्य च ॥ 33 ॥
ईश्वरः सर्वदेहस तु राजराजॊ धनाधिपः सर्वेषाम एव रुद्राणां शूलपाणिर इति शरुतिः ॥ 34 ॥
तम एकं बरह्मणः पुत्रम अनुजातं कषुपं ददौ परजानाम अधिपं शरेष्ठं सर्वधर्मभृताम अपि ॥ 35 ॥
महादेवस ततस तस्मिन वृत्ते यज्ञे यथाविधि दण्डं धर्मस्य गॊप्तारं विष्णवे सत्कृतं ददौ ॥ 36 ॥
विष्णुर अङ्गिरसे परादाद अङ्गिरा मुनिसत्तमः परादाद इन्द्र मरीचिभ्यां मरीचिर भृगवे ददौ ॥ 37 ॥
भृगुर ददाव ऋषिभ्यस तु तं दण्डं धर्मसंहितम ऋषयॊ लॊकपालेभ्यॊ लॊकपालाः कषुपाय च ॥ 38 ॥
कषुपस तु मनवे परादाद आदित्यतनयाय च पुत्रेभ्यः शराद्धदेवस तु सूक्ष्मधर्मार्थकारणात तं ददौ सूर्यपुत्रस तु मनुर वै रक्षणात्मकम ॥ 39 ॥
विभज्य दण्डः कर्तव्यॊ धर्मेण न यदृच्छया दुर्वाचा निग्रहॊ बन्धॊ हिरण्यं बाह्यतः करिया ॥ 40 ॥
वयङ्गत्वं च शरीरस्य वधॊ वा नाल्पकारणात शरीरपीडास तास तास तु देहत्यागॊ विवासनम ॥ 41 ॥
आनुपूर्व्या च दण्डॊ ऽसौ परजा जागर्ति पालयन इन्द्रॊ जागर्ति भगवान इन्द्राद अग्निर विभावसुः ॥ 42 ॥
अग्नेर जागर्ति वरुणॊ वरुणाच च परजापतिः परजापतेस ततॊ धर्मॊ जागर्ति विनयात्मकः ॥ 43 ॥
धर्माच च बरह्मणः पुत्रॊ वयवसायः सनातनः वयवसायात ततस तेजॊ जागर्ति परिपालयन ॥ 44 ॥
ओषध्यस तेजसस तस्माद ओषधिभ्यश च पर्वताः पर्वतेभ्यश च जागर्ति रसॊ रसगुणात तथा ॥ 45 ॥
जागर्ति निरृतिर देवी जयॊतींषि निरृतेर अपि वेदाः परतिष्ठा जयॊतिर्भ्यस ततॊ हयशिराः परभुः ॥ 46 ॥
बरह्मा पितामहस तस्माज जागर्ति परभुर अव्ययः पितामहान महादेवॊ जागर्ति भगवाञ शिवः ॥ 47 ॥
विश्वे देवाः शिवाच चापि विश्वेभ्यश च तथर्षयः ऋषिभ्यॊ भगवान सॊमः सॊमाद देवाः सनातनाः ॥ 48 ॥
देवेभ्यॊ बराह्मणा लॊके जाग्रतीत्य उपधारय बराह्मणेभ्यश च राजन्या लॊकान रक्षन्ति धर्मतः सथावरं जङ्गमं चैव कषत्रियेभ्यः सनातनम ॥ 49 ॥
परजा जाग्रति लॊके ऽसमिन दण्डॊ जागर्ति तासु च सर्वसंक्षेपकॊ दण्डः पितामहसमः परभुः ॥ 50 ॥
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत ईश्वरः सर्वलॊकस्य महादेवः परजापतिः ॥ 51 ॥
देवदेवः शिवः शर्वॊ जागर्ति सततं परभुः कपर्दी शंकरॊ रुद्रॊ भवः सथाणुर उमापतिः ॥ 52 ॥
इत्य एष दण्डॊ विख्यात आदौ मध्ये तथावरे भूमिपालॊ यथान्यायं वर्तेतानेन धर्मवित ॥ 53 ॥
[भ] इतीदं वसु हॊमस्य शृणुयाद यॊ मतं नरः शरुत्वा च सम्यग वर्तेत स कामान आप्नुयान नृपः ॥ 54 ॥
इति ते सर्वम आख्यातं यॊ दण्डॊ मनुजर्षभ नियन्ता सर्वलॊकस्य धर्माक्रान्तस्य भारत ॥ 55 ॥
शान्तिपर्व · Shanti Parva
अध्याय 122
Reach this point to mark the section finished.
Continue to अध्याय 123