[य] अयं पितामहेनॊक्तॊ राजधर्मः सनातनः ईश्वरश च महादण्डॊ दण्डे सर्वं परतिष्ठितम ॥ 1 ॥
देवतानाम ऋषीणां च पितॄणां च महात्मनाम यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः ॥ 2 ॥
सर्वेषां पराणिनां लॊके तिर्यक्ष्व अपि निवासिनाम सर्वव्यापी महातेजा दण्डः शरेयान इति परभॊ ॥ 3 ॥
इत्य एतद उक्तं भवता सर्वं दण्ड्यं चराचरम दृश्यते लॊकम आसक्तं स सुरासुरमानुषम ॥ 4 ॥
एतद इच्छाम्य अहं जञातुं तत्त्वेन भरतर्षभ कॊ दण्डः कीदृशॊ दण्डः किं रूपः किं परायणः ॥ 5 ॥
किम आत्मकः कथं भूतः कति मूर्तिः कथं परभुः जागर्ति स कथं दण्डः परजास्व अवहितात्मकः ॥ 6 ॥
कश च पूर्वापरम इदं जागर्ति परिपालयन कश च विज्ञायते पूर्वं कॊ ऽपरॊ दण्डसंज्ञितः किं संस्थश च भवेद दण्डः का चास्य गतिर इष्यते ॥ 7 ॥
[भ] शृणु कौरव्य यॊ दण्डॊ वयवहार्यॊ यथा च सः यस्मिन हि सर्वम आयत्तं स दण्ड इह केवलः ॥ 8 ॥
धर्मस्याख्या महाराज वयवहार इतीष्यते तस्य लॊपः कथं न सयाल लॊकेष्व अवहितात्मनः इत्य अर्थं वयवहारस्य वयवहारत्वम इष्यते ॥ 9 ॥
अपि चैतत पुरा राजन मनुना परॊक्तम आदितः सुप्रणीतेन दण्डेन परियाप्रिय समात्मना परजा रक्षति यः सम्यग धर्म एव स केवलः ॥ 10 ॥
अथॊक्तम एतद वचनं पराग एव मनुना पुरा जन्म चॊक्तं वसिष्ठेन बरह्मणॊ वचनं महत ॥ 11 ॥
पराग इदं वचनं परॊक्तम अतः पराग वचनं विदुः वयवहारस्य चाख्यानाद वयवहार इहॊच्यते ॥ 12 ॥
दण्डात तरिवर्गः सततं सुप्रणीतात परवर्तते दैवं हि परमॊ दण्ड्दॊ रूपतॊ ऽगनिर इवॊच्छिखः ॥ 13 ॥
नीलॊत्पलदल शयामश चतुर्दंष्ट्रश चतुर्भुजः अष्ट पान नैकनयनः शङ्कुकर्णॊर्ध्व रॊमवान ॥ 14 ॥
जटी दविजिह्वस ताम्रास्यॊ मृगराजतनुच छदः एतद रूपं बिभर्त्य उग्रं दण्डॊ नित्यं दुरावरः ॥ 15 ॥
असिर गदा धनुः शक्तिस तरिशूलं मुद्गरः शरः मुसलं परशुश चक्रं परासॊ दण्डर्ष्टि तॊमराः ॥ 16 ॥
सर्वप्रहरणीयानि सन्ति यानीह कानि चित दण्ड एव हि सर्वात्मा लॊके चरति मूर्तिमान ॥ 17 ॥
भिन्दंश छिन्दन रुजन कृन्तन दारयन पाटयंस तथा घातयन्न अभिधावंश च दण्ड एव चरत्य उत ॥ 18 ॥
असिर विशसनॊ धर्मस तीक्ष्णवर्त्मा दुरासदः शरीगर्भॊ विजयः शास्ता वयवहारः परजागरः ॥ 19 ॥
शास्त्रं बराह्मणमन्त्रश च शास्ता पराग वचनं गतः धर्मपालॊ ऽकषरॊ देवः सत्यगॊ नित्यगॊ गरहः ॥ 20 ॥
असङ्गॊ रुद्र तनयॊ मनुज्येष्ठः शिवं करः नामान्य एतानि दण्डस्य कीर्तितानि युधिष्ठिर ॥ 21 ॥
दण्डॊ हि भगवान विष्णुर यज्ञॊ नारायणः परभुः शश्वद रूपं महद बिभ्रन महापुरुष उच्यते ॥ 22 ॥
यथॊक्ता बरह्म कन्येति लक्ष्मीर नीतिः सरस्वती दण्डनीतिर जगद धात्री दण्डॊ हि बहु विग्रहः ॥ 23 ॥
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥ 24 ॥
कामाकामाव ऋतुर मासः शर्वरी दिवसः कषणः अप्रसादः परसादश च हर्षः करॊधः शमॊ दमः ॥ 25 ॥
दैवं पुरुषकारश च मॊक्षामॊक्षौ भयाभये हिंसाहिंसे तपॊयज्ञः संयमॊ ऽथ विषाविषम ॥ 26 ॥
अन्तश चादिश च मध्यं च कृत्यानां च परपञ्चनम मदः परमादॊ दर्पश च दम्भॊ धैर्यं नयानयौ ॥ 27 ॥
अशक्तिः शक्तिर इत्य एव मानस्तम्भौ वययाव्ययौ विनयश च विसर्गश च कालाकालौ च भारत ॥ 28 ॥
अनृतं जञाज्ञता सत्यं शरद्धाश्रद्धे तथैव च कलीबता वयवसायश च लाभालाभौ जयाजयौ ॥ 29 ॥
तीक्ष्णता मृदुता मृत्युर आगमानागमौ तथा विराद्धिश चैव राधिश च कार्याकार्ये बलाबले ॥ 30 ॥
असूया चानसूया च धर्माधर्मौ तथैव च अपत्रपानपत्रपे हरीश च संपद विपच च ह ॥ 31 ॥
तेजः कर्मणि पाण्डित्यं वाक शक्तिस तत्त्वबुद्धिता एवं दण्डस्य कौरव्य लॊके ऽसमिन बहुरूपता ॥ 32 ॥
न सयाद यदीह दण्डॊ वै परमथेयुः परस्परम भयाद दण्डस्य चान्यॊन्यं घनन्ति नैव युधिष्ठिर ॥ 33 ॥
दण्डेन रक्ष्यमाणा हि राजन्न अहर अहः परजाः राजानं वर्धयन्तीह तस्माद दण्डः परायणम ॥ 34 ॥
वयवस्थापयति कषिप्रम इमं लॊकं नरेश्वर सत्ये वयवस्थितॊ धर्मॊ बराह्मणेष्व अवतिष्ठते ॥ 35 ॥
धर्मयुक्ता दविजाः शरेष्ठा वेद युक्ता भवन्ति च बभूव यज्ञॊ वेदेभ्यॊ यज्ञः परीणाति देवताः ॥ 36 ॥
परीताश च देवता नित्यम इन्द्रे परिददत्य उत अन्नं ददाति शक्रश चाप्य अनुगृह्णन्न इमाः परजाः ॥ 37 ॥
पराणाश च सर्वभूतानां नित्यम अन्ने परतिष्ठिताः तस्मात परजाः परतिष्ठन्ते दण्डॊ जागर्ति तासु च ॥ 38 ॥
एवं परयॊजनश चैव दण्डः कषत्रियतां गतः रक्षन परजाः परजागर्ति नित्यं सुविहितॊ ऽकषरः ॥ 39 ॥
ईश्वरः पुरुषः पराणः सत्त्वं वित्तं परजापतिः भूतात्मा जीव इत्य एव नामभिः परॊच्यते ऽषटभिः ॥ 40 ॥
अददद दण्ड एवास्मै धरुवम ऐश्वर्यम एव च बले नयश च संयुक्तः सदा पञ्च विधात्मकः ॥ 41 ॥
कुलबाहुधनामात्याः परज्ञा चॊक्ता बलानि च आहार्यं चाष्टकैर दरव्यैर बलम अन्यद युधिष्ठिर ॥ 42 ॥
हस्तिनॊ ऽशवा रथाः पत्तिर नावॊ विष्टिस तथैव च दैशिकाश चारकाश चैव तद अष्टाङ्गं बलं समृतम ॥ 43 ॥
अष्टाङ्गस्य तु युक्तस्य हस्तिनॊ हस्तियायिनः अश्वारॊहाः पदाताश च मन्त्रिणॊ रसदाश च ये ॥ 44 ॥
भिक्षुकाः पराड विवाकाश च मौहूर्ता दैवचिन्तकाः कॊशॊ मित्राणि धान्यं च सर्वॊपकरणानि च ॥ 45 ॥
सप्त परकृतिचाष्टाङ्गं शरीरम इह यद विदुः राज्यस्य दण्ड एवाङ्गं दण्डः परभव एव च ॥ 46 ॥
ईश्वरेण परयत्नेन धारणे कषत्रियस्य हि दण्डॊ दत्तः समानात्मा दण्डॊ हीदं सनातनम राज्ञां पूज्यतमॊ नान्यॊ यथा धर्मप्रदर्शनः ॥ 47 ॥
बरह्मणा लॊकरक्षार्थं सवधर्मस्थापनाय च भर्तृप्रत्यय उत्पन्नॊ वयवहारस तथापरः तस्माद यः सहितॊ दृष्टॊ भर्तृप्रत्यय लक्षणः ॥ 48 ॥
वयवहारस तु वेदात्मा वेद परत्यय उच्यते मौलश च नरशार्दूल शास्त्रॊक्तश च तथापरः ॥ 49 ॥
उक्तॊ यश चापि दण्डॊ ऽसौ भर्तृप्रत्यय लक्षणः जञेयॊ न स नरेन्द्रस्थॊ दण्डप्रत्यय एव च ॥ 50 ॥
दण्डप्रत्यय दृष्टॊ ऽपि वयवहारात्मकः समृतः वयवहारः समृतॊ यश च स वेद विषयात्मकः ॥ 51 ॥
यश च वेद परसूतात्मा स धर्मॊ गुणदर्शकः धर्मप्रत्यय उत्पन्नॊ यथाधर्मः कृतात्मभिः ॥ 52 ॥
वयवहारः परजा गॊप्ता बरह्म दिष्टॊ युधिष्ठिर तरीन धारयति लॊकान वै सत्यात्मा भूतिवर्धनः ॥ 53 ॥
यश च दण्डः स दृष्टॊ नॊ वयवहारः सनातनः वयवहारश च यॊ दृष्टः स धर्म इति नः शरुतः यश च वेदः स वै धर्मॊ यश च धर्मः स सत्पथः ॥ 54 ॥
बरह्मा परजापतिः पूर्वं बभूवाथ पितामहः लॊकानां स हि सर्वेषां स सुरासुररक्षसाम स मनुष्यॊरगवतां कर्ता चैव स भूतकृत ॥ 55 ॥
ततॊ नॊ वयवहारॊ ऽयं भर्तृप्रत्यय लक्षणः तस्माद इदम अवॊचाम वयवहार निदर्शनम ॥ 56 ॥
माता पिता च भराता च भार्या चाथ पुरॊहितः नादण्ड्यॊ विद्यते राज्ञां यः सवधर्मे न तिष्ठति ॥ 57 ॥
शान्तिपर्व · Shanti Parva
अध्याय 121
Reach this point to mark the section finished.
Continue to अध्याय 122