[य] राजवृत्तान्य अनेकानि तवया परॊक्तानि भारत पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥ 1 ॥
तद एव विस्तरेणॊक्तं पूर्वैर दृष्टं सतां मतम परणयं राजधर्माणां परब्रूहि भरतर्षभ ॥ 2 ॥
[भ] रक्षणं सर्वभूतानाम इति कषत्रे परं मतम तद यथा रक्षणं कुर्यात तथा शृणु महीपते ॥ 3 ॥
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः तथा बहुविधं राजा रूपं कुर्वीत धर्मवित ॥ 4 ॥
तैक्ष्ण्यं जिह्मत्वम आदान्त्यं सत्यम आर्जवम एव च मध्यस्थः सत्त्वम आतिष्ठंस तथा वै सुखम ऋच्छति ॥ 5 ॥
यस्मिन्न अर्थे हितं यत सयात तद्वर्णं रूपम आविशेत बहुरूपस्य राज्ञॊ हि सूक्ष्मॊ ऽपय अर्थॊ न सीदति ॥ 6 ॥
नित्यं रक्षित मन्त्रः सयाद यथा मूकः शरच छिखी शलक्ष्णाक्षर तनुः शरीमान भवेच छास्त्र विशारदः ॥ 7 ॥
आपद दवारेषु यत्तः सयाज जलप्रस्रवणेष्व इव शैलवर्षॊदकानीव दविजान सिद्धान समाश्रयेत ॥ 8 ॥
अर्थकामः शिखां राजा कुर्याद धर्मध्वजॊपमाम नित्यम उद्यतदण्डः सयाद आचरेच चाप्रमादतः लॊके चाय वययौ दृष्ट्वा वृक्षाद वृक्षम इवाप्लवन ॥ 9 ॥
मृजावान सयात सवयूथ्येषु भावानि चरणैः कषिपेत जातपक्षः परिस्पन्देद रक्षेद वैकल्यम आत्मनः ॥ 10 ॥
दॊषान विवृणुयाच छत्रॊः परपक्षान विधूनयेत काननेष्व इव पुष्पाणि बर्हीवार्थान समाचरेत ॥ 11 ॥
उच्छ्रितान आश्रयेत सफीतान नरेन्द्रान अचलॊपमान शरयेच छायाम अविज्ञातां गुप्तं शरणम आश्रयेत ॥ 12 ॥
परावृषीवासित गरीवॊ मज्जेत निशि निर्जने मायूरेण गुणेनैव सत्रीभिश चालक्षितश चरेत न जह्याच च तनुत्राणं रक्षेद आत्मानम आत्मना ॥ 13 ॥
चारभूमिष्व अभिगमान पाशांश च परिवर्जयेत पीडयेच चापि तां भूमिं परणश्येद गहने पुनः ॥ 14 ॥
हन्यात करुद्धान अतिविषान ये जिह्मगतयॊ ऽहितान नाश्रयेद बाल बर्हाणि सन निवासानि वासयेत ॥ 15 ॥
सदा बर्हि निभः कामं परसक्ति कृतम आचरेत सर्वतश चाददेत परज्ञां पतंगान गहनेष्व इव एवं मयूरवद राजा सवराष्ट्रं परिपालयेत ॥ 16 ॥
आत्मवृद्धि करीं नीतिं विदधीत विचक्षणः आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम बुद्ध्या चात्मगुणप्राप्तिर एतच छास्त्र निदर्शनम ॥ 17 ॥
परं चाश्वासयेत साम्ना सवशक्तिं चॊपलक्षयेत आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत सान्त्वयॊगमतिः पराज्ञः कार्याकार्यविचारकः ॥ 18 ॥
निगूढ बुद्धिर धीरः सयाद वक्तव्ये वक्ष्यते तथा संनिकृष्टां कथां पराज्ञॊ यदि बुद्ध्या बृहस्पतिः सवभावम एष्यते तप्तं कृष्णायसम इवॊदके ॥ 19 ॥
अनुयुञ्जीत कृत्यानि सर्वाण्य एव महीपतिः आगमैर उपदिष्टानि सवस्य चैव परस्य च ॥ 20 ॥
कषुद्रं करूरं तथा पराज्ञं शूरं चार्थविशारदम सवकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥ 21 ॥
अप्य अदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु सर्वांस तान अनुवर्तेत सवरांस तन्त्रीर इवायता ॥ 22 ॥
धर्माणाम अविरॊधेन सर्वेषां परियम आचरेत ममायम इति राजा यः स पर्वत इवाचलः ॥ 23 ॥
वयवसायं समाधाय सूर्यॊ रश्मिम इवायताम धर्मम एवाभिरक्षेत कृत्वा तुल्ये परियाप्रिये ॥ 24 ॥
कुलप्रकृतिदेशानां धर्मज्ञान मृदुभाषिणः मध्ये वयसि निर्दॊषान हिते युक्ताञ जितेन्द्रियान ॥ 25 ॥
अलुभाञ शिक्षितान दान्तान धर्मेषु परिनिष्ठितान सथापयेत सर्वकार्येषु राजा धर्मार्थरक्षिणः ॥ 26 ॥
एतेनैवप्रकारेण कृत्यानाम आगतिं गतिम युक्तः समनुतिष्ठेत तुष्टश चारैर उपस्कृतः ॥ 27 ॥
अमॊघक्रॊधहर्षस्य सवयं कृत्यान्ववेक्षिणः आत्मप्रत्यय कॊशस्य वसुधैव वसुंधरा ॥ 28 ॥
वयक्तश चानुग्रहॊ यस्य यथार्थश चापि निग्रहः गुप्तात्मा गुप्तराष्ट्रश च स राजा राजधर्मवित ॥ 29 ॥
नित्यं राष्ट्रम अवेक्षेत गॊभिः सूर्य इवॊत्पतन चारांश च न चरान विद्यात तथा बुद्ध्या न संज्वरेत ॥ 30 ॥
कालप्राप्तम उपादद्यान नार्थं राजा परसूचयेत अहन्य अहनि संदुह्यान महीं गाम इव बुद्धिमान ॥ 31 ॥
यथाक्रमेण पुष्पेभ्यश चिनॊति मधु षट्पदः तथा दरव्यम उपादाय राजा कुर्वीत संचयम ॥ 32 ॥
यद धि गुप्तावशिष्टं सयात तद धितं धर्मकामयॊः संचयानुविसर्गी सयाद राजा शास्त्रविद आत्मवान ॥ 33 ॥
नाल्पम अर्थं परिभवेन नावमन्येत शात्रवान बुद्ध्यावबुध्येद आत्मानं न चाबुद्धिषु विश्वसेत ॥ 34 ॥
धृतिर दाक्ष्यं संयमॊ बुद्धिर अग्र्या; धैर्यं शौर्यं देशकालॊ ऽपरमादः सवल्पस्य वा महतॊ वापि वृद्धौ; धनस्यैतान्य अष्ट समिन्धनानि ॥ 35 ॥
अग्निस्तॊकॊ वर्धते हय आज्यसिक्तॊ; बीजं चैकं बहुसाहस्रम एति कषयॊदयौ विपुलौ संनिशाम्य; तस्माद अल्पं नावमन्येत विद्वान ॥ 36 ॥
बालॊ ऽबालः सथविरॊ वा रिपुर; यः सदा परमत्तं पुरुषं निहन्यात कालेनान्यस तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः ॥ 37 ॥
हरेत कीर्तिं धर्मम अस्यॊपरुन्ध्याद; अर्थे दीर्घं वीर्यम अस्यॊपहन्यात रिपुर दवेष्टा दुर्बलॊ वा बली; वा तस्माच छत्रौ नैव हेडेद यतात्मा ॥ 38 ॥
कषयं शत्रॊः संचयं पालनं चाप्य; उभौ चार्थौ सहितौ धर्मकामौ अतश चान्यन मतिमान संदधीत; तस्माद राजा बुद्धिमन्तं शरयेत ॥ 39 ॥
बुद्धिर दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम शत्रुर बुद्ध्या सीदते वर्धमानॊ; बुद्धेः पश्चात कर्म यत तत परशस्तम ॥ 40 ॥
सर्वान कामान कामयानॊ हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः यथात्मानं परार्थयते ऽरथमानैः; शरेयः पात्रं पूरयते हय अनल्पम ॥ 41 ॥
तस्माद राजा परगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतॊ ऽभयाददीत दीर्घं कालम अपि संपीड्यमानॊ; विद्युत संपातम इव मानॊर्जितः सयात ॥ 42 ॥
विद्या तपॊ वा विपुलं धनं वा; सर्वम एतद वयवसायेन शक्यम बरह्म यत तं निवसति देहवत्सु; तस्माद विद्याद वयवसायं परभूतम ॥ 43 ॥
यत्रासते मतिमन्तॊ मनस्विनः; शक्रॊ विष्णुर यत्र सरस्वती च वसन्ति भूतानि च यत्र नित्यं; तस्माद विद्वान नावमन्येत देहम ॥ 44 ॥
लुब्धं हन्यात संप्रदानेन नित्यं; लुब्धस तृप्तिं परवित्तस्य नैति सर्वॊ लुब्धः कर्म गुणॊपभॊगे; यॊ ऽरथैर हीनॊ धर्मकामौ जहाति ॥ 45 ॥
धनं भॊज्यं पुत्रदारं समृद्धिं; सर्वॊ लुब्धः परार्थयते परेषाम लुब्धे दॊषाः संभवन्तीह सर्वे; तस्माद राजा न परगृह्णीत लुब्धान ॥ 46 ॥
संदर्शने सत्पुरुषं जघन्यम अपि चॊदयेत आरम्भान दविषतां पराज्ञः सर्वान अर्थांस तु सूदयेत ॥ 47 ॥
धर्मान्वितेषु विज्ञातॊ मन्त्री गुप्तश च पाण्डव आप्तॊ राजन कुलीनश च पर्याप्तॊ राज्यसंग्रहे ॥ 48 ॥
विधिप्रवृत्तान नरदेव धर्मान; उक्तान समासेन निबॊध बुद्ध्या इमान विदध्याद वयनुसृत्य यॊ वै; राजा महीं पालयितुं स शक्तः ॥ 49 ॥
अनीतिजं यद्य अविधानजं सुखं; हठ परणीतं विविधं परदृश्यते न विद्यते तस्य गतिर महीपतेर; न विद्यते राष्ट्रजम उत्तमं सुखम ॥ 50 ॥
धनैर विशिष्टान मतिशीलपूजितान; गुणॊपपन्नान युधि दृष्टविक्रमान गुणेषु दृष्टान अचिराद इहात्मवान; सतॊ ऽभिसंधाय निहन्ति शात्रवान ॥ 51 ॥
पश्येद उपायान विविधैः करियापथैर; न चानुपायेन मतिं निवेशयेत शरियं विशिष्टां विपुलं यशॊ धनं; न दॊषदर्शी पुरुषः समश्नुते ॥ 52 ॥
परीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चॊभयॊः यद एव मित्रं गुरु भरम आवहेत; तद एव सुस्निग्धम उदाहरेद बुधः ॥ 53 ॥
एतान मयॊक्तांस तव राजधर्मान; नृणां च गुप्तौ मतिम आदधत्स्व अवाप्स्यसे पुण्यफलं सुखेन; सर्वॊ हि लॊकॊत्तम धर्ममूलः ॥ 54 ॥
शान्तिपर्व · Shanti Parva
अध्याय 120
Reach this point to mark the section finished.
Continue to अध्याय 121