[अर्जुन] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम तापसैः सह संवादं शक्रस्य भरतर्षभ ॥ 1 ॥
के चिद गृहान परित्यज्य वनम अभ्यगमन दविजाः अजातश्मश्रवॊ मन्दाः कुले जाताः परवव्रजुः ॥ 2 ॥
धर्मॊ ऽयम इति मन्वाना बरह्मचर्ये वयवस्थिताः तयक्त्वा गृहान पितॄंश चैव तान इन्द्रॊ ऽनवकृपायत ॥ 3 ॥
तान आबभाषे भगवान पक्षी भूत्वा हिरन मयः सुदुष्करं मनुष्यैश च यत्कृतं विघसाशिभिः ॥ 4 ॥
पुण्यं च बत कर्मैषां परशस्तं चैव जीवितम संसिद्धास ते गतिं मुख्यां पराप्ता धर्मपरायणाः ॥ 5 ॥
[रसरह] अहॊ बतायं शकुनिर विघसाशान परशंसति अस्मान नूनम अयं शास्ति वयं च विघसाशिनः ॥ 6 ॥
[षकुनि] नाहं युष्मान परशंसामि पङ्कदिग्धान रजस्वलान उच्छिष्ट भॊजिनॊ मन्दान अन्ये वै विघसाशिनः ॥ 7 ॥
[रसयह] इदं शरेयॊ परम इति वयम एवाभ्युपास्महे शकुने बरूहि यच छरेयॊ भृशं वै शरद्दधाम ते ॥ 8 ॥
[षकुनि] यदि मां नाभिशङ्कध्वं विभाज्यात्मानम आत्मना ततॊ ऽहं वः परवक्ष्यामि याथा तथ्यं हितं वचः ॥ 9 ॥
[रसयह] शृणुमस ते वचस तात पन्थानॊ विदितास तव नियॊगे चैव धर्मात्मन सथातुम इच्छामि शाधि नः ॥ 10 ॥
[षकुनि] चतुष पदां गौः परवरा लॊहानां काञ्चनं वरम शब्दानां परवरॊ मन्त्रॊ बराह्मणॊ दविपदां वरः ॥ 11 ॥
मन्त्रायं जातकर्मादि बराह्मणस्य विधीयते जीवतॊ यॊ यथाकालं शमशाननिधनाद इति ॥ 12 ॥
कर्माणि वैदिकान्य अस्य सवर्ग्यः पन्थास तव अनुत्तमः अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ॥ 13 ॥
आम्नायदृढवादीनि तथा सिद्धिर इहेष्यते मासार्ध मासा ऋतव आदित्य शशितारकम ॥ 14 ॥
ईहन्ते सर्वभूतानि तद ऋतं कर्मसङ्गिनाम सिद्धिक्षेत्रम इदं पुण्यम अयम एवाश्रमॊ महान ॥ 15 ॥
अथ ये कर्म निन्दन्तॊ मनुष्याः कापथं गताः मूढानाम अर्थहीनानां तेषाम एनस तु विद्यते ॥ 16 ॥
देव वंशान पितृवंशान बरह्म वंशांश च शाश्वतान संत्यज्य मूढा वर्तन्ते ततॊ यान्त्य अश्रुती पथम ॥ 17 ॥
एतद वॊ ऽसतु तपॊ युक्तं ददानीत्य ऋषिचॊदितम तस्मात तद अध्यवसतस तपस्वितप उच्यते ॥ 18 ॥
देव वंशान पितृवंशान बरह्म वंशांश च शाश्वतान संविभज्य गुरॊश चर्यां तद वै दुष्करम उच्यते ॥ 19 ॥
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः तस्माद गार्हस्थ्यम उद्वॊढुं दुष्करं परब्रवीमि वः ॥ 20 ॥
तपॊ शरेष्ठं परजानां हि मूलम एतन न संशयः कुटुम्ब विधिनानेन यस्मिन सर्वं परतिष्ठितम ॥ 21 ॥
एतद विदुस तपॊ विप्रा दवंद्वातीता विमत्सराः तस्माद वनं मध्यमं च लॊकेषु तप उच्यते ॥ 22 ॥
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः सायंप्रातर विभज्यान्नं सवकुटुम्बे यथाविधि ॥ 23 ॥
दत्त्वातिथिभ्यॊ देवैभ्यः पितृभ्यः सवजनस्य च अवशिष्टानि ये ऽशनाति तान आहुर विघसाशिनः ॥ 24 ॥
तस्मात सवधर्मम आस्थाय सुव्रताः सत्यवादिनः लॊकस्य गुरवॊ भूत्वा ते भवन्त्य अनुपस्कृताः ॥ 25 ॥
तरिदिवं पराप्य शक्रस्य सवर्गलॊके विमत्सराः वसन्ति शाश्वतीर वर्षा जना दुष्करकारिणः ॥ 26 ॥
ततस ते तद वचॊ शरुत्वा तस्य धर्मार्थसंहितम उत्सृज्य नास्तिक गतिं गार्हस्थ्यं धर्मम आश्रिताः ॥ 27 ॥
तस्मात तवम अपि दुर्धर्ष धैर्यम आलम्ब्य शाश्वतम परशाधि पृथिवीं कृत्स्नां हतामित्रां नरॊत्तम ॥ 28 ॥
शान्तिपर्व · Shanti Parva
अध्याय 11
Reach this point to mark the section finished.
Continue to अध्याय 12