[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम निदर्शन करं लॊके सज्जनाचरितं सदा ॥ 1 ॥
अस्यैवार्थस्य सदृशं यच छरुतं मे तपॊवने जामदग्न्यस्य रामस्य यद उक्तम ऋषिसत्तमैः ॥ 2 ॥
वने महति कस्मिंश चिद अमनुष्यनिषेविते ऋषिर मूलफलाहारॊ नियतॊ नियतेन्द्रियः ॥ 3 ॥
दीक्षा दमपरः शान्तः सवाध्यायपरमः शुचिः उपवासविशुद्धात्मा सततं सत्पथे सथितः ॥ 4 ॥
तस्य संदृश्य सद्भावम उपविष्टस्य धीमतः सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः ॥ 5 ॥
सिंहव्याघ्राः स शरभा मत्ताश चैव महागजाः दवीपिनः खङ्ग भल्लूका ये चान्ये भीमदर्शनाः ॥ 6 ॥
ते सुखप्रश्नदाः सर्वे भवन्ति कषतजाशनाः तस्यर्षेर शिष्यवच चैव नयग भूताः परियकारिणः ॥ 7 ॥
दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम गराम्यस तव एकः पशुस तत्र नाजहाच छवा महामुनिम ॥ 8 ॥
भक्तॊ ऽनुरक्तः सततम उपवासकृशॊ ऽबलः फलमूलॊत्कराहारः शान्तः शिष्टाकृतिर यथा ॥ 9 ॥
तस्यर्षेर उपविष्टस्य पादमूले महामुनेः मनुष्यवद गतॊ भावः सनेहबद्धॊऽभवद भृशम ॥ 10 ॥
ततॊ ऽभययान महावीर्यॊ दवीपी कषतजभॊजनः शवार्थम अत्यन्तसंदुष्टः करूरः काल इवान्तकः ॥ 11 ॥
लेलिह्यमानस तृषितः पुच्छास्फॊटन तत्परः वयादितास्यः कषुधा भग्नः परार्थयानस तदामिषम ॥ 12 ॥
तं दृष्ट्वा करूरम आयान्तं जीवितार्थी नराधिपः परॊवाच शवा मुनिं तत्र यत तच छृणु महामते ॥ 13 ॥
शवशत्रुर भगवन्न अत्र दवीपी मां हन्तुम इच्छति तवत्प्रसादाद भयं न सयात तस्मान मम महामुने ॥ 14 ॥
[मुनि] न भयं दवीपिनः कार्यं मृत्युतस ते कथं चन एष शवरूपरहितॊ दवीपी भवसि पुत्रक ॥ 15 ॥
[भ] ततः शवा दवीपितां नीतॊ जाम्बूनदनिभाकृतिः चित्राङ्गॊ विस्फुरन हृष्टॊ वने वसति निर्भयः ॥ 16 ॥
ततॊ ऽभययान महारौद्रॊ वयादितास्यः कषुधान्वितः दवीपिनं लेलिहद वक्त्रॊ वयाघ्रॊ रुधिरलालसः ॥ 17 ॥
वयाघ्रं दृष्ट्वा कषुधा भग्नं दंष्ट्रिणं वनगॊचरम दवीपी जीवितरक्षार्थम ऋषिं शरणम एयिवान ॥ 18 ॥
ततः संवासजं सनेहम ऋषिणा कुर्वता सदा स दवीपी वयाघ्रतां नीतॊ रिपुभिर बलवत्तरः ततॊ दृष्ट्वा स शार्दूलॊ नाभ्यहंस तं विशां पते ॥ 19 ॥
स तु शवा वयाघ्रतां पराप्य बलवान पिशिताशनः न मूलफलभॊगेषु सपृहाम अप्य अकरॊत तदा ॥ 20 ॥
यथा मृगपतिर नित्यं परकाङ्क्षति वनौकसः तथैव स महाराज वयाघ्रः समभवत तदा ॥ 21 ॥
वयाघ्रस तूटज मूलस्थस तृप्तः सुप्तॊ हतैर मृगैः नागश चागात तम उद्देशं मत्तॊ मेघ इवॊत्थितः ॥ 22 ॥
परभिन्नकरटः परांशुः पद्मी विततमस्तकः सुविषाणॊ महाकायॊ मेघगम्भीर निस्वनः ॥ 23 ॥
तं दृष्ट्वा कुञ्जरं मत्तम आयान्तं मदगर्वितम वयाघ्रॊ हस्तिभयात तरस्तस तम ऋषिं शरणं ययौ ॥ 24 ॥
ततॊ ऽनयत कुञ्जरतां तं वयाघ्रम ऋषिसत्तमः महामेघॊपमं दृष्ट्वा तं स भीतॊ ऽभवद गजः ॥ 25 ॥
ततः कमलषण्डानि शल्लकी गहनानि च वयचरत स मुदा युक्तः पद्मरेणु विभूषितः ॥ 26 ॥
कदा चिद रममाणस्य हस्तिनः सुमुखं तदा ऋषेस तस्यॊटजस्थस्य कालॊ ऽगच्छन्न निशा निशम ॥ 27 ॥
अथाजगाम तं देशं केषरी केषरारुणः गिरिकन्दरजॊ भीमः सिंहॊ नागकुलान्तकः ॥ 28 ॥
तं दृष्ट्वा सिंहम आयान्तं नागः सिंहभयाकुलः ऋषिं शरणम आपेदे वेपमानॊ भयातुरः ॥ 29 ॥
ततः स सिंहतां नीतॊ नागेन्द्रॊ मुनिना तदा वन्यं नागणयत सिंहं तुल्यजातिसमन्वयात ॥ 30 ॥
दृष्ट्वा च सॊ ऽनशत सिंहॊ वन्यॊ भी सन्नवाग्बलः स चाश्रमे ऽवसत सिंहस तस्मिन्न एव वने सुखी ॥ 31 ॥
न तव अन्ये कषुद्रपशवस तपॊवननिवासिनः वयदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा ॥ 32 ॥
कदा चित कालयॊगेन सर्वप्राणि विहिंसकः बलवान कषतजाहारॊ नाना सत्त्वभयंकरः ॥ 33 ॥
अष्ट पाद ऊर्ध्वचरणः शरभॊ वनगॊचरः तं सिंहं हन्तुम आगच्छन मुनेस तस्य निवेशनम ॥ 34 ॥
तं मुनिः शरभं चक्रे बलॊत्कटम अरिंदम ततः स शरभॊ वन्यॊ मुनेः शरभम अग्रतः दृष्ट्वा बलिनम अत्युग्रं दरुतं संप्राद्रवद भयात ॥ 35 ॥
स एवं शरभस्थाने नयस्तॊ वै मुनिना तदा मुनेः पार्श्वगतॊ नित्यं शारभ्यं सुखम आप्तवान ॥ 36 ॥
ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात दिशः संप्राद्रवन राजन भयाज जीवितकाङ्क्षिणः ॥ 37 ॥
शरभॊ ऽपय अतिसंदुष्टॊ नित्यं पराणिवधे रतः फलमूलाशनं शान्तं नैच्छत स पिशिताशनः ॥ 38 ॥
ततॊ रुधिरतर्षेण बलिना शरभॊ ऽनवितः इयेष तं मुनिं हन्तुम अकृतज्ञः शवयॊनिजः ॥ 39 ॥
ततस तेन तपः शक्त्या विदितॊ जञानचक्षुषा विज्ञाय च महाप्राज्ञॊ मुनिः शवानं तम उक्तवान ॥ 40 ॥
शवा तवं दवीपित्वम आपन्नॊ दवीपी वयाघ्रत्वम आगतः वयाघ्रॊ नागॊ मदपटुर नागः सिंहत्वम आप्तवान ॥ 41 ॥
सिंहॊ ऽतिबलसंयुक्तॊ भूयः शरभतां गतः मया सनेहपरीतेन न विमृष्टः कुलान्वयः ॥ 42 ॥
यस्माद एवम अपापं मां पापहिंसितुम इछसि तस्मात सवयॊनिम आपन्नः शवैव तवं हि भविष्यसि ॥ 43 ॥
ततॊ मुनिजनद्वेषाद दुष्टात्मा शवा कृतॊ ऽबुधः ऋषिणा शरभः शप्तः सवं रूपं पुनर आप्तवान ॥ 44 ॥
शान्तिपर्व · Shanti Parva
अध्याय 117
Reach this point to mark the section finished.
Continue to अध्याय 118