धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 118

  1. [भ] स शवा परकृतिम आपन्नः परं दैन्यम उपागमत ऋषिणा हुंकृतः पापस तपॊवनबहिष्कृतः ॥ 1 ॥

  2. एवं राज्ञा मतिमता विदित्वा शीलशौचताम आर्जवं परकृतिं सत्त्वं कुलं वृत्तं शरुतं दमम ॥ 2 ॥

  3. अनुक्रॊशं बलं वीर्यं भावं संप्रशमं कषमाम भृत्या ये यत्र यॊग्याः सयुस तत्र सथाप्याः सुशिक्षिताः ॥ 3 ॥

  4. नापरीक्ष्य महीपालः परकर्तुं भृत्यम अर्हति अकुलीन नराकीर्णॊ न राजा सुखम एधते ॥ 4 ॥

  5. कुलजः परकृतॊ राज्ञा तत कुलीनतया सदा न पापे कुरुते बुद्धिं निन्द्यमानॊ ऽपय अनागसि ॥ 5 ॥

  6. अकुलीनस तु पुरुषः परकृतः साधु संक्षयात दुर्लभैश्वर्यतां पराप्तॊ निन्दितः शत्रुतां वरजेत ॥ 6 ॥

  7. कुलीनं शिक्षितं पराज्ञं जञानविज्ञानकॊविदम सर्वशास्त्रार्थ तत्त्वज्ञं सहिष्णुं देशजं तथा ॥ 7 ॥

  8. कृतज्ञं बलवन्तं च कषान्तं दान्तं जितेन्द्रियम अलुब्धं लब्धसंतुष्टं सवामिमित्र बुभूषकम ॥ 8 ॥

  9. सचिवं देशकालज्ञं सर्वसंग्रहणे रतम सत्कृतं युक्तमनसं हितैषिणम अतन्द्रितम ॥ 9 ॥

  10. युक्ताचारं सवविषये संधिविग्रहकॊविदम राज्ञस तरिवर्गवेत्तारं पौरजानपद परियम ॥ 10 ॥

  11. खातक वयूह तत्त्वज्ञं बलहर्षण कॊविदम इङ्गिताकार तत्त्वज्ञं यात्रा यानविशारदम ॥ 11 ॥

  12. हस्तिशिक्षासु तत्त्वज्ञम अहं कारविवर्जितम परगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम ॥ 12 ॥

  13. चॊक्षं चॊक्ष जनाकीर्णं सुवेषं सुखदर्शनम नायकं नीतिकुशलं गुणषष्ट्या समन्वितम ॥ 13 ॥

  14. अस्तब्धं परश्रितं शक्तं मृदु वादिनम एव च धीरं शलक्ष्णं महर्द्धिं च देशकालॊपपादकम ॥ 14 ॥

  15. सचिवं यः परकुरुते न चैनम अवमन्यते तस्य विस्तीर्यते राज्यं जयॊत्स्ना गरहपतेर इव ॥ 15 ॥

  16. एतैर एव गुणैर युक्तॊ राजा शास्त्रविशारदः एष्टव्यॊ धर्मपरमः परजापालनतत्परः ॥ 16 ॥

  17. धीरॊ मर्षी शुचिः शीघ्रः काले पुरुषकारवित शुश्रूषुः शरुतवाञ शरॊता ऊहापॊह विशारदः ॥ 17 ॥

  18. मेधावी धारणा युक्तॊ यथान्यायॊपपादकः दान्तः सदा परियाभाषी कषमावांश च विपर्यये ॥ 18 ॥

  19. दानाच्छेदे सवयं कारी सुद्वारः सुखदर्शनः आर्तहस्तप्रदॊ नित्यम आप्तं मन्यॊ नये रतः ॥ 19 ॥

  20. नाहं वादी न निर्द्वंद्वॊ न यत किं चन कारकः कृते कर्मण्य अमॊघानां कर्ता भृत्यजनप्रियः ॥ 20 ॥

  21. संगृहीतजनॊ ऽसतब्धः परसन्नवदनः सदा दाता भृत्यजनावेक्षी न करॊधी सुमहामनाः ॥ 21 ॥

  22. युक्तदण्डॊ न निर्दण्डॊ धर्मकार्यानुशासकः चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा ॥ 22 ॥

  23. राजा गुणशताकीर्ण एष्टव्यस तादृशॊ भवेत यॊधाश चैव मनुष्येन्द्र सर्वैर गुणगुणैर वृताः ॥ 23 ॥

  24. अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः न विमानयितव्याश च राज्ञा वृद्धिम अभीप्सता ॥ 24 ॥

  25. यॊधाः समरशौटीराः कृतज्ञा अस्त्रकॊविदाः धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः ॥ 25 ॥

  26. अर्थमानविवृद्धाश च रथचर्या विशारदाः इष्वस्त्रकुशला यस्य तस्येयं नृपतेर मही ॥ 26 ॥

  27. सर्वसंग्रहणे युक्तॊ नृपॊ भवति यः सदा उत्थान शीलॊ मित्राढ्यः स राजा राजसत्तमः ॥ 27 ॥

  28. शक्या अश्वसहस्रेण वीरारॊहेण भारत संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 119

Previous: अध्याय 117