धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 116

  1. [य] पितामह महाप्राज्ञ संशयॊ मे महान अयन सच छेत्तव्यस तवया राजन भवान कुलकरॊ हि नः ॥ 1 ॥

  2. पुरुषाणाम अयं तात दुर्वृत्तानां दुरात्मनाम कथितॊ वाक्यसंचारस ततॊ विज्ञापयामि ते ॥ 2 ॥

  3. यद धितं राज्यतन्त्रस्य कुलस्य च सुखॊदयम आयत्यां च तदात्वे च कषेमवृद्धि करं च यत ॥ 3 ॥

  4. पुत्रपौत्राभिरामं च राष्ट्रवृद्धि करं च यत अन्नपाने शरीरे च हितं यत तद बरवीहि मे ॥ 4 ॥

  5. अभिषिक्तॊ हि यॊ राजा राज्यस्थॊ मित्र संवृतः असुहृत समुपेतॊ वा स कथं रञ्जयेत परजाः ॥ 5 ॥

  6. यॊ हय असत परग्रह रतिः सनेहरागबलात कृतः इन्द्रियाणाम अनीशत्वाद असज जनबुभूषकः ॥ 6 ॥

  7. तस्य भृत्या विगुणतां यान्ति सर्वे कुलॊद्गताः न च भृत्यफलैर अर्थैः स राजा संप्रयुज्यते ॥ 7 ॥

  8. एतान मे संशयस्थस्य राजधर्मान सुदुर्लभान बृहस्पतिसमॊ बुध्या भवाञ शंसितुम अर्हति ॥ 8 ॥

  9. शंसिता पुरुषव्याघ्र तवं नः कुलहिते रतः कषत्ता चैव पटु परज्ञॊ यॊ नः शंसति सर्वदा ॥ 9 ॥

  10. तवत्तः कुलहितं वाक्यं शरुत्वा राज्यहितॊदयम अमृतस्याव्ययस्येव तृप्तः सवप्स्याम्य अहं सुखम ॥ 10 ॥

  11. कीदृषाः संनिकर्षस्था भृत्याः सयुर वा गुणान्विताः कीदृशैः किं कुलीनैर वा सह यात्रा विधीयते ॥ 11 ॥

  12. न हय एकॊ भृत्यरहितॊ राजा भवति रक्षिता राज्यं चेदं जनः सर्वस तत कुलीनॊ ऽभिशंसति ॥ 12 ॥

  13. न हि परशास्तुं राज्यं हि शक्यम एकेन भारत असहायवता तात नैवार्थाः के चिद अप्य उत लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ ॥ 13 ॥

  14. [भ] यस्य भृत्यजनः सर्वॊ जञानविज्ञानकॊविदः हितैषी कुलजः सनिग्धः स राज्यफलम अश्नुते ॥ 14 ॥

  15. मन्त्रिणॊ यस्य कुलजा असंहार्याः सहॊषिताः नृपतेर मतिदाः सन्ति संबन्ध जञानकॊविदाः ॥ 15 ॥

  16. अनागतविधातारः कालज्ञानविशारदाः अतिक्रान्तम अशॊचन्तः स राज्यफलम अश्नुते ॥ 16 ॥

  17. समदुःखसुखा यस्य सहायाः सत्यकारिणः अर्थचिन्तापरा यस्य स राज्यफलम अश्नुते ॥ 17 ॥

  18. यस्य नार्तॊ जनपदः संनिकर्ष गतः सदा अक्षुद्रः सत्पथालम्बी स राज्यफलभाग भवेत ॥ 18 ॥

  19. कॊशाक्ष पटलं यस्य कॊशवृद्धि करैर जनैः आप्तैस तुष्टैश च सततं धार्यते स नृपॊत्तमः ॥ 19 ॥

  20. कॊष्ठागारम असंहार्यैर आप्तैः संचयतत्परैः पात्रभूतैर अलुब्धैश च पाल्यमानं गुणी भवेत ॥ 20 ॥

  21. वयवहारश च नगरे यस्य कर्मफलॊदयः दृश्यते शङ्खलिखितः स धर्मफलभाग भवेत ॥ 21 ॥

  22. संगृहीतमनुष्यश च यॊ राजा राजधर्मवित षड वर्गं परतिगृह्णन स धर्मात फलम उपाश्नुते ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 117

Previous: अध्याय 115