[य] विद्वान मूर्ख परगल्भेन मृदुस तीक्ष्णेन भारत आक्रुश्यमानः सदसि कथं कुर्याद अरिंदम ॥ 1 ॥
[भ] शरूयतां पृथिवीपाल यथैषॊ ऽरथॊ ऽनुगीयते सदा सुचेताः सहते नरस्येहाल्प चेतसः ॥ 2 ॥
अरुष्यन करुश्यमानस्य सुकृतं नाम विन्दति दुष्कृतं चात्मनॊ मर्षी रुष्यत्य एवापमार्ष्टि वै ॥ 3 ॥
टिट्टिभं तम उपेक्षेत वाशमानम इवातुरम लॊकविद्वेषम आपन्नॊ निष्फलं परतिपद्यते ॥ 4 ॥
इति स शलाघते नित्यं तेन पापेन कर्मणा इदम उक्तॊ मया कश चित संमतॊ जनसंसदि स तत्र वरीडितः शुष्कॊ मृतकल्पॊ ऽवतिष्ठति ॥ 5 ॥
शलाघन्न अश्लाघनीयेन कर्मणा निरपत्रपः उपेक्षितव्यॊ दान्तेन तादृशः पुरुषाधमः ॥ 6 ॥
यद यद बरूयाद अल्पमतिस तत तद अस्य सहेत सदा पराकृतॊ हि परशंसन वा निन्दन वा किं करिष्यति वने काक इवाबुद्धिर वाशमानॊ निरर्थकम ॥ 7 ॥
यदि वाग्भिः परयॊगः सयात परयॊगे पापकर्मणः वाग एवार्थॊ भवेत तस्य न हय एवार्थॊ जिघांसतः ॥ 8 ॥
निषेकं विपरीतं स आचष्टे वृत्तचेष्टया मयूर इव कौपीनं नृत्यन संदर्शयन्न इव ॥ 9 ॥
यस्यावाच्यं न लॊके ऽसति नाकार्यं वापि किं चन वाचनं तेन न संदध्याच छुचिः संक्लिष्टकर्मणा ॥ 10 ॥
परत्यक्षं गुणवादी यः परॊक्षं तु विनिन्दकः स मानवः शववल लॊके नष्टलॊकपरायणः ॥ 11 ॥
तादृग जनशतस्यापि यद ददाति जुहॊति च परॊक्षेणापवादेन तन नाशयति स कषणात ॥ 12 ॥
तस्मात पराज्ञॊ नरः सद्यस तादृशं पापचेतसम वर्जयेत साधुभिर वर्ज्यं सारमेयामिषं यथा ॥ 13 ॥
परिवादं बरुवाणॊ हि दुरात्मा वै महात्मने परकाशयति दॊषान सवान सर्पः फणम इवॊच्छ्रितम ॥ 14 ॥
तं सवकर्माणि कुर्वाणं परति कर्तुं य इच्छति भस्म कूट इवाबुद्धिः खरॊ रजसि मज्जति ॥ 15 ॥
मनुष्यशाला वृकम अप्रशान्तं; जनापवादे सततं निविष्टम मातङ्गम उन्मत्तम इवॊन्नदन्तं; तयजेत तं शवानम इवातिरौद्रम ॥ 16 ॥
अधीर जुष्टे पथि वर्तमानं; दमाद अपेतं विनयाच च पापम अरिव्रतं नित्यम अभूति कामं; धिग अस्तु तं पापमतिं मनुष्यम ॥ 17 ॥
परत्युच्यमानस तु हि भूय एभिर; निशाम्य मा भूस तवम अथार्तरूपः उच्चस्य नीचेन हि संप्रयॊगं; विगर्हयन्ति सथिरबुद्धयॊ ये ॥ 18 ॥
ऋद्धॊ दशार्धेन हि ताडयेद वा; स पांसुभिर वापकिरेत तुषैर वा विवृत्य दन्ताश च विभीषयेद वा; सिद्धं हि मूर्खे कुपिते नृशंसे ॥ 19 ॥
विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान नरः पठेद इदं चापि निदर्शनं सदा; न वान्मयं स लभति किं चिद अप्रियम ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 115
Reach this point to mark the section finished.
Continue to अध्याय 116