धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 114

  1. [य] राजा राज्यम अनुप्राप्य दुर्बलॊ भरतर्षभ अमित्रस्यातिवृद्धस्य कथं तिष्ठेद असाधनः ॥ 1 ॥

  2. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम सरितां चैव संवादं सागरस्य च भारत ॥ 2 ॥

  3. सुरारिनिलयः शश्वत सागरः सरितां पतिः पप्रच्छ सरितः सर्वाः संशयं जातम आत्मनः ॥ 3 ॥

  4. स मूलशाखान पश्यामि निहतांश छायिनॊ दरुमान युष्पाभिर इह पूर्णाभिर अन्यांस तत्र न वेतसम ॥ 4 ॥

  5. अकायश चाल्पसारश च वेतसः कूलजश च वः अवज्ञाय न शक्यॊ वा किं चिद वा तेन वः कृतम ॥ 5 ॥

  6. तद अहं शरॊतुम इच्छामि सर्वासाम एव वॊ मतम यथा कूलानि चेमानि भित्त्वा नानीयते वशम ॥ 6 ॥

  7. ततः पराह नदी गङ्गा वाक्यम उत्तरम अर्थवत हेतुमद गराहकं चैव सागरं सरितां पतिम ॥ 7 ॥

  8. तिष्ठन्त्य एते यथास्थानं नगा हय एकनिकेतनाः ततस तयजन्ति तत सथानं परातिलॊम्याद अचेतसः ॥ 8 ॥

  9. वेतसॊ वेगम आयान्तं दृष्ट्वा नमति नेतरः स च वेगे ऽभयतिक्रान्ते सथानम आसाद्य तिष्ठति ॥ 9 ॥

  10. कालज्ञः समयज्ञश च सदा वश्यश च नॊ दरुमः अनुलॊमस तथास्तब्धस तेन नाभ्येति वेतसः ॥ 10 ॥

  11. मारुतॊदक वेगेन ये नमन्त्य उन्नमन्ति च ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम ॥ 11 ॥

  12. यॊ हि शत्रॊर विवृद्धस्य परभॊर वधविनाशने पूर्वं न सहते वेगं कषिप्रम एव स नश्यति ॥ 12 ॥

  13. सारासारं बलं वीर्यम आत्मनॊ दविषतश च यः जानन विचरति पराज्ञॊ न स याति पराभवम ॥ 13 ॥

  14. एवम एव यदा विद्वान मन्येतातिबलं रिपुम संश्रयेद वैतसीं वृत्तिम एवं परज्ञान लक्षणम ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 115

Previous: अध्याय 113