[य] किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत तन ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर ॥ 1 ॥
[भ] हन्त ते ऽहं परवक्ष्यामि शृणु कार्यैक निश्चयम यथा राज्ञेह कर्तव्यं यच च कृत्वा सुखी भवेत ॥ 2 ॥
न तव एवं वर्तितव्यं सम यथेदम अनुशुश्रुमः उष्ट्रस्य सुमहद वृत्तं तन निबॊध युधिष्ठिर ॥ 3 ॥
जातिस्मरॊ महान उष्ट्रः पराजापत्य युगॊद्भवः तपः सुमहद आतिष्ठद अरण्ये संशितव्रतः ॥ 4 ॥
तपसस तस्य चान्ते वै परीतिमान अभवत परभुः वरेण छन्दयाम आस ततश चैनं पितामहः ॥ 5 ॥
[उ] भगवंस तवत्प्रसादान मे दीर्घा परीवा भवेद इयम यॊजनानां शतं साग्रं या गच्छेच चरितुं विभॊ ॥ 6 ॥
[भ] एवम अस्त्व इति चॊक्तः स वरदेन महात्मना परतिलभ्य वरं शरेष्ठं ययाव उष्ट्रः सवकं वनम ॥ 7 ॥
स चकार तद आलस्यं वरदानात स दुर्मतिः न चैच्छच चरितुं गन्तुं दुरात्मा कालमॊहितः ॥ 8 ॥
स कदा चित परसार्यैवं तां गरीवां शतयॊजनाम चचाराश्रान्त हृदयॊ वातश चागात ततॊ महान ॥ 9 ॥
स गुहायां शिरॊग्रीवं निधाय पशुर आत्मनः आस्ताथ वर्षम अभ्यागात सुमहत पलावयज जगत ॥ 10 ॥
अथ शीतपरीताङ्गॊ जम्बुकः कषुच्छ्रमान्वितः सदारस तां गुहाम आशु परविवेश जलार्दितः ॥ 11 ॥
स दृष्ट्वा मांसजीवी तु सुभृशं कषुच्छ्रमान्वितः अभक्षयत ततॊ गरीवाम उष्ट्रस्य भरतर्षभ ॥ 12 ॥
यद्या तव अबुध्यतात्मानं भक्ष्यमाणं स वै पशुः तदा संकॊचने यत्नम अकरॊद भृशदुःखितः ॥ 13 ॥
यावद ऊर्ध्वम अधश चैव परीवां संक्षिपते पशुः तावत तेन सदारेण जम्बुकेन स भक्षितः ॥ 14 ॥
स हत्वा भक्षयित्वा च जम्बुकॊष्ट्रं ततस तदा विगते वातवर्षे च निश्चक्राम गुहा मुखात ॥ 15 ॥
एवं दुर्बुद्धिना पराप्तम उष्ट्रेण निधनं तदा आलस्यस्य करमात पश्य महद दॊषम उपागतम ॥ 16 ॥
तवम अप्य एतं विधिं तयक्त्वा यॊगेन नियतेन्द्रियः वर्तस्व बुद्धिमूलं हि विजयं मनुर अब्रवीत ॥ 17 ॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥ 18 ॥
राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ ॥ 19 ॥
परीक्ष्य कारिणॊ ऽरथाश च तिष्ठन्तीह युधिष्ठिर सहाययुक्तेन महीकृत्स्ना शक्या परशासितुम ॥ 20 ॥
इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव मयापि चॊक्तं तव शास्त्रदृष्ट्या; तवम अत्र युक्तः परचरस्व राजन ॥ 21 ॥
शान्तिपर्व · Shanti Parva
अध्याय 113
Reach this point to mark the section finished.
Continue to अध्याय 114