[य] कलिश्यमानेषु भूतेषु तैस तैर भावैस ततस ततः दुर्गाण्य अतितरेद येन तन मे बरूहि पितामह ॥ 1 ॥
[भ] आश्रमेषु यथॊक्तेषु यथॊक्तं ये दविजातयः वर्तन्ते संयतात्मानॊ दुर्गाण्य अतितरन्ति ते ॥ 2 ॥
ये दम्भान न जपन्ति सम येषां वृत्तिश च संवृता विषयांश च निगृह्णन्ति दुर्गाण्य अतितरन्ति ते ॥ 3 ॥
वासयन्त्य अतिथीन नित्यं नित्यं ये चानसूयकाः नित्यं सवाध्यायशीलाश च दुर्गाण्य अतितरन्ति ते ॥ 4 ॥
मातापित्रॊश च ये वृत्तिं वर्तन्ते धर्मकॊविदाः वर्जयन्ति दिवा सवप्नं दुर्गाण्य अतितरन्ति ते ॥ 5 ॥
सवेषु दारेषु वर्तन्ते नयायवृत्तेष्व ऋताव ऋतौ अग्निहॊत्रपराः सन्तॊ दुर्गाण्य अतितरन्ति ते ॥ 6 ॥
ये न लॊभान नयन्त्य अर्थान राजानॊ रजसावृताः विषयान परिरक्षन्तॊ दुर्गाण्य अतितरन्ति ते ॥ 7 ॥
आहवेषु च ये शूरास तयक्त्वा मरणजं भयम धर्मेण जयम इच्छन्तॊ दुर्गाण्य अतितरन्ति ते ॥ 8 ॥
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा निक्षिप्तदण्डा भूतेषु दुर्गाण्य अतितरन्ति ते ॥ 9 ॥
ये वदन्तीह सत्यानि पराणत्यागे ऽपय उपस्थिते परमाण भूता भूतानां दुर्गाण्य अतितरन्ति ते ॥ 10 ॥
अनध्यायेषु ये विप्राः सवाध्यायं नैव कुर्वते तपॊनित्याः सुतपसॊ दुर्गाण्य अतितरन्ति ते ॥ 11 ॥
कर्माण्य अकुहकार्थानि येषां वाचश च सूनृताः येषाम अर्थाश च साध्व अर्था दुर्गाण्य अतितरन्ति ते ॥ 12 ॥
ये तपश च तपस्यन्ति कौमार बरह्मचारिणः विद्या वेद वरतः सनाता दुर्गाण्य अतितरन्ति ते ॥ 13 ॥
ये च संशान्त रजसः संशान्त तमसश च ये सत्ये सथिता महात्मानॊ दुर्गाण्य अतितरन्ति ते ॥ 14 ॥
येषां न कश चित तरसति तरसन्ति न च कस्य चित येषाम आत्मसमॊ लॊकॊ दुर्गाण्य अतितरन्ति ते ॥ 15 ॥
परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः गराम्याद अन्नान निवृत्ताश च दुर्गाण्य अतितरन्ति ते ॥ 16 ॥
सर्वान देवान नमस्यन्ति सर्वान धर्मांश च शृण्वते ये शरद्दधाना दान्ताश च दुर्गाण्य अतितरन्ति ते ॥ 17 ॥
ये न मानितम इच्छन्ति मानयन्ति च ये परम मान्यमाना न मन्यन्ते दुर्गाण्य अतितरन्ति ते ॥ 18 ॥
ये शराद्धानि च कुर्वन्ति तिथ्यां तिथ्यां परजार्थिनः सुविशुद्धेन मनसा दुर्गाण्य अतितरन्ति ते ॥ 19 ॥
ये करॊधं नैव कुर्वन्ति करुद्धान संशमयन्ति च न च कुप्यन्ति भृत्येभ्यॊ दुर्गाण्य अतितरन्ति ते ॥ 20 ॥
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः जन्मप्रभृति मद्यं च दुर्गाण्य अतितरन्ति ते ॥ 21 ॥
यात्रार्थं भॊजनं येषां संतानार्थं च मैथुनम वाक सत्यवचनार्थाय दुर्गाण्य अतितरन्ति ते ॥ 22 ॥
ईश्वरं सर्वभूतानां जगतः परभवाप्ययम भक्ता नारायणं ये च दुर्गाण्य अतितरन्ति ते ॥ 23 ॥
य एष रक्तपद्माक्षः पीतवासा महाभुजः सुहृद भराता च मित्रं च संबन्धी च तवाच्युतः ॥ 24 ॥
य इमान सकलाँल लॊकांश चर्मवत परिवेष्टयेत इच्छन परभुर अचिन्त्यात्मा गॊविन्दः पुरुषॊत्तमः ॥ 25 ॥
सथितः परियहिते जिष्णॊः स एव पुरुषर्षभ राजंस तव च दुर्धर्षॊ वैकुण्ठः पुरुषॊत्तमः ॥ 26 ॥
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम ते तरन्तीह दुर्गाणि न मे ऽतरास्ति विचारणा ॥ 27 ॥
दुर्गातितरणं ये च पठन्ति शरावयन्ति च पाठयन्ति च विप्रेभ्यॊ दुर्गाण्य अतितरन्ति ते ॥ 28 ॥
इति कृत्यसमुद्देशः कीर्तितस ते मयानघ संतरेद येन दुर्गाणि परत्रेह च मानवः ॥ 29 ॥
शान्तिपर्व · Shanti Parva
अध्याय 111
Reach this point to mark the section finished.
Continue to अध्याय 112