[य] कथं धर्मे सथातुम इच्छन नरॊ वर्तेत भारत विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ ॥ 1 ॥
सत्यं चैवानृतं चॊभे लॊकान आवृत्य तिष्ठतः तयॊः किम आचरेद राजन पुरुषॊ धर्मनिश्चिताः ॥ 2 ॥
किं सवित सत्यं कृम अनृतं किं सविद धर्म्यं सनातनम कस्मिन काले वदेत सत्यं कस्मिन काले ऽनृतं वदेत ॥ 3 ॥
[भ] सत्यस्य वचनं साधु न सत्याद विद्यते परम यद भूलॊके सुदुर्ज्ञातं तत ते वक्ष्यामि भारत ॥ 4 ॥
भवेत सत्यं न वक्तव्यं वक्तव्यम अनृतं भवेत यत्रानृतं भवेत सत्यं सत्यं वाप्य अनृतं भवेत ॥ 5 ॥
तादृशे मुह्यते बालॊ यत्र सत्यम अनिष्ठितम सत्यानृते विनिश्चित्य ततॊ भवति धर्मवित ॥ 6 ॥
अप्य अनार्यॊ ऽकृतप्रज्ञः पुरुषॊ ऽपि सुदारुणः सुमहत पराप्नुयात पुण्यं बलाकॊ ऽनधवधाद इव ॥ 7 ॥
किम आश्चर्यं च यन मूढॊ धर्मकामॊ ऽपय अधर्मवित सुमहत पराप्नुयात पापं गङ्गायाम इव कौशिकः ॥ 8 ॥
तादृशॊ ऽयम अनुप्रश्नॊ यत्र धर्मः सुदुर्वचः दुष्करः परतिसंख्यातुं तर्केणात्र वयवस्यति ॥ 9 ॥
परभावार्थाय भूतानां धर्मप्रवचनं कृतम यत सयाद अहिंसा संयुक्तं स धर्म इति निश्चयः ॥ 10 ॥
धारणाद धर्म इत्य आहुर धर्मेण विधृताः परजाः यत सयाद धारण संयुक्तं स धर्म इति निश्चयः ॥ 11 ॥
शरुतिधर्म इति हय एके नेत्य आहुर अपरे जनाः न तु तत परत्यसूयामॊ न हि सर्वं विधीयते ॥ 12 ॥
ये ऽनयायेन जिहीर्षन्तॊ धनम इच्छन्ति कर्हि चित तेभ्यस तन न तद आख्येयं स धर्म इति निश्चयः ॥ 13 ॥
अकूजनेन चेन मॊक्षॊ नात्र कूजेत कथं चन अवश्यं कूजितव्यं वा शङ्केरन वाप्य अकूजनात ॥ 14 ॥
शरेयस तत्रानृतं वक्तुं सत्याद इति विचारितम यः पापैः सह संबन्धान मुच्यते शपथाद इति ॥ 15 ॥
न च तेभ्यॊ धनं देयं शक्ये सति कथं चन पापेभ्यॊ हि धनं दत्तं दातारम अपि पीडयेत ॥ 16 ॥
सवशरीरॊपरॊधेन वरम आदातुम इच्छतः सत्यसंप्रतिपत्त्यर्थं ये बरूयुः साक्षिणः कव चित अनुक्त्वा तत्र तद वाच्यं सर्वे ते ऽनृतवादिनः ॥ 17 ॥
पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत अर्थस्य रक्षणार्थाय परेषां धर्मकारणात परेषां धर्मम आकाङ्क्षन नीचः सयाद धर्मभिक्षुकः ॥ 18 ॥
परतिश्रुत्य तु दातव्यं शवः कार्यस तु बलात्कृतः यः कश चिद धर्मसमयात परच्युतॊ ऽधर्मम आस्थितः ॥ 19 ॥
शठः सवधर्मम उत्सृज्य तम इच्छेद उपजीवितुम सर्वॊपायैर निहन्तव्यः पापॊ निकृतिजीवनः ॥ 20 ॥
धनम इत्य एव पापानां सर्वेषाम इह निश्चयः ये ऽविषह्या हय असंभॊज्या निकृत्या पतनं गताः ॥ 21 ॥
चयुता देवमनुष्येभ्यॊ यथा परेतास तथैव ते धनादानाद दुःखतरं जीविताद विप्रयॊजनम ॥ 22 ॥
अयं वॊ रॊचतां धर्म इति वाच्यः परयत्नतः न कश चिद अस्ति पापानां धर्म इत्य एष निश्चयः ॥ 23 ॥
तथागतं च यॊ हन्यान नासौ पापेन लिप्यते सवकर्मणा हतं हन्ति हत एव स हन्यते तेषु यः समयं कश चित कुर्वीत हतबुद्धिषु ॥ 24 ॥
यथा काकश च गृध्रश च तथैवॊपधि जीविनः ऊर्ध्वं देहविमॊक्षान्ते भवन्त्य एतासु यॊनिषु ॥ 25 ॥
यस्मिन यथा वर्तते यॊ मनुष्यस; तस्मिंस तथा वर्तितव्यं स धर्मः मायाचारॊ मायया वर्तितव्यः; साध्व आचारः साधुना परत्युदेयः ॥ 26 ॥
शान्तिपर्व · Shanti Parva
अध्याय 110
Reach this point to mark the section finished.
Continue to अध्याय 111