धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 109

  1. [य] महान अयं धर्मपथॊ बहुशाखश च भारत किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम ॥ 1 ॥

  2. किं कार्यं सर्वधर्माणां गरीयॊ भवतॊ मतम यथायं पुरुषॊ धर्मम इह च परेत्य चाप्नुयात ॥ 2 ॥

  3. [भ] मातापित्रॊर गुरूणां च पूजा बहुमता मम अत्र युक्तॊ नरॊ लॊकान यशश च महद अश्नुते ॥ 3 ॥

  4. यद एते हय अभिजानीयुः कर्म तात सुपूजिताः धर्म्यं धर्मविरुद्धं वा तत कर्तव्यं युधिष्ठिर ॥ 4 ॥

  5. न तैर अनभ्यनुज्ञातॊ धर्मम अन्यं परकल्पयेत यम एते ऽभयनुजानीयुः स धर्म इति निश्चयः ॥ 5 ॥

  6. एत एव तरयॊ लॊका एत एवाश्रमास तरयः एत एव तरयॊ वेदा एत एव तरयॊ ऽगनयः ॥ 6 ॥

  7. पिता हय अग्निर गार्हपत्यॊ माताग्निर दक्षिणः समृतः गुरुर आहवनीयस तु साग्नित्रेता गरीयसी ॥ 7 ॥

  8. तरिष्व अप्रमाद्यन्न एतेषु तरीँल लॊकान अवजेष्यसि पितृवृत्त्या तव इमं लॊकं मातृवृत्त्या तथापरम बरह्मलॊकं पुरॊर वृत्त्या नित्यम एव चरिष्यसि ॥ 8 ॥

  9. सम्यग एतेषु वर्तस्व तरिषु लॊकेषु भारत यशः पराप्स्यसि भद्रं ते धर्मं च सुमहाफलम ॥ 9 ॥

  10. नैतान अतिशयेज जातु नात्यश्नीयान न दूषयेत नित्यं परिचरेच चैव तद वै सुकृतम उत्तमम कीर्तिं पुण्यं यशॊ लॊकान पराप्स्यसे च जनाधिप ॥ 10 ॥

  11. सर्वे तस्यादृता लॊका यस्यैते तरय आदृताः अनादृतास तु यस्यैते सर्वास तस्याफलाः करियाः ॥ 11 ॥

  12. नैवायं न परॊ लॊकस तस्य चैव परंतप अमानिता नित्यम एव यस्यैते गुरवस तरयः ॥ 12 ॥

  13. न चास्मिन न परे लॊके यशस तस्य परकाशते न चान्यद अपि कल्याणं पारत्रं समुदाहृतम ॥ 13 ॥

  14. तेभ्य एव तु तत सर्वं कृत्यया विसृजाम्य अहम तद आसीन मे शतगुणं सहस्रगुणम एव च तस्मान मे संप्रकाशन्ते तरयॊ लॊका युधिष्ठिर ॥ 14 ॥

  15. दशैव तु सदाचार्यः शरॊत्रियान अतिरिच्यते दशाचार्यान उपाध्याय उपाध्यायान पिता दश ॥ 15 ॥

  16. पितॄन दश तु मातैका सर्वां वा पृथिवीम अपि गुरुत्वेनाभिभवति नास्ति मातृसमॊ गुरुः गुरुर गरीयान पितृतॊ मातृतश चेति मे मतिः ॥ 16 ॥

  17. उभौ हि माता पितरौ जन्मनि वयुपयुज्यतः शरीरम एतौ सृजतः पिता माता च भारत आचार्य शिष्टा या जातिः सा दिव्या साजरा मरा ॥ 17 ॥

  18. अवध्या हि सदा माता पिता चाप्य अपकारिणौ न संदुष्यति तत कृत्वा न च ते दूषयन्ति तम धर्माय यतमानानां विदुर देवाः सहर्षिभिः ॥ 18 ॥

  19. य आवृणॊत्य अवितथेन कर्णाव; ऋतं बरुवन्न अमृतं संप्रयच्छन तं वै मन्ये पितरं मातरं च; तस्मै न दरुह्येत कृतम अस्य जानन ॥ 19 ॥

  20. विद्यां शरुत्वा ये गुरुं नाद्रियन्ते; परत्यासन्नं मनसा कर्मणा वा यथैव ते गुरुभिर भावनीयास; तथा तेषां गुरवॊ ऽपय अर्चनीयाः ॥ 20 ॥

  21. तस्मात पूजयितव्याश च संविभज्याश च यत्नतः गुरवॊ ऽरचयितव्याश च पुराणं धर्मम इच्छता ॥ 21 ॥

  22. येन परीताश च पितरस तेन परीतः पितामहः परिणाति मातरं येन पृथिवी तेन पूजिता ॥ 22 ॥

  23. येन परीणात्य उपाध्यायं तेन सयाद बरह्म पूजितम मातृतः पितृतश चैव तस्मात पूज्यतमॊ गुरुः ऋषयश च हि देवाय परीयन्ते पितृभिः सह ॥ 23 ॥

  24. न केन चन वृत्तेन हय अवज्ञेयॊ गुरुर भवेत न च माता न च पिता तादृशॊ यादृशॊ गुरुः ॥ 24 ॥

  25. न ते ऽवमानम अर्हन्ति न च ते दूषयन्ति तम गुरूणाम एव सत्कारं विदुर देवाः सहर्षिभिः ॥ 25 ॥

  26. उपाध्यायं पितरं मातरं च; ये ऽभिद्रुह्यन्ति मनसा कर्मणा वा तेषां पापं भरूणहत्याविशिष्टं; तस्मान नान्यः पापकृद अस्ति लॊके ॥ 26 ॥

  27. मित्र दरुहः कृतघ्नस्य सत्रीघ्नस्य पिशुनस्य च चतुर्णां वयम एतेषां निष्कृतिं नानुशुश्रुमः ॥ 27 ॥

  28. एतत सर्वम अतिदेशेन सृष्टं; यत कर्तव्यं पुरुषेणेह लॊके एतच छरेयॊ नान्यद अस्माद विशिष्टं; सर्वान धर्मान अनुसृत्यैतद उक्तम ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 110

Previous: अध्याय 108