धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 108

  1. [य] बराह्मणक्षत्रियविशां शूद्राणां च परंतप धर्मॊ वृत्तं च वृत्तिश च वृत्त्युपायफलानि च ॥ 1 ॥

  2. राज्ञां वृत्तं च कॊशश च कॊशसंजननं महत अमात्यगुणवृद्धिश च परकृतीनां च वर्धनम ॥ 2 ॥

  3. षाड्गुण्य गुणकल्पश च सेना नीतिस तथैव च दुष्टस्य च परिज्ञानम अदुष्टस्य च लक्षणम ॥ 3 ॥

  4. समहीनाधिकानां च यथावल लक्षणॊच्चयः मध्यमस्य च तुष्ट्यर्थं यथा सथेयं विवर्धता ॥ 4 ॥

  5. कषीणसंग्रह वृत्तिश च यथावत संप्रकीर्तिता लभुनादेश रूपेण गरन्थ यॊगेन भारत ॥ 5 ॥

  6. विजिगीषॊस तथा वृत्तम उक्तं चैव तथैव ते गणानां वृत्तिम इच्छामि शरॊतुं मतिमतां वर ॥ 6 ॥

  7. यथा गणाः परवर्धन्ते न भिद्यन्ते च भारत अरीन हि विजिगीषन्ते सुहृदः पराप्नुवन्ति च ॥ 7 ॥

  8. भेदमूलॊ विनाशॊ हि गणानाम उपलभ्यते मन्त्रसंवरणं दुःखं बहूनाम इति मे मतिः ॥ 8 ॥

  9. एतद इच्छाम्य अहं शरॊतुं निखिलेन परंतप यथा च ते न भिद्येरंस तच च मे बरूहि पार्थिव ॥ 9 ॥

  10. [भ] गणानां च कुलानां च राज्ञां च भरतर्षभ वैरसंदीपनाव एतौ लॊभामर्षौ जनाधिप ॥ 10 ॥

  11. लॊभम एकॊ हि वृणुते ततॊ ऽमर्षम अनन्तरम तौ कषयव्यय संयुक्ताव अन्यॊन्यजनिताश्रयौ ॥ 11 ॥

  12. चारमन्त्रबलादानैः सामदानविभेदनैः कषयव्यय भयॊपायैः कर्शयन्तीतरेतरम ॥ 12 ॥

  13. तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः भिन्ना विमनसः सर्वे गच्छन्त्य अरिवशं भयात ॥ 13 ॥

  14. भेदाद गणा विनश्यन्ति भिन्नाः सूपजपाः परैः तस्मात संघातयॊगेषु परयतेरन गणाः सदा ॥ 14 ॥

  15. अर्था हय एवाधिगम्यन्ते संघातबलपौरुषात बाह्याश च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु ॥ 15 ॥

  16. जञानवृद्धान परशंसन्तः शुश्रूषन्तः परस्परम विनिवृत्ताभिसंधानाः सुखम एधन्ति सर्वशः ॥ 16 ॥

  17. धर्मिष्ठान वयवहारांश च सथापयन्तश च शास्त्रतः यथावत संप्रवर्तन्तॊ विवर्धन्ते गणॊत्तमाः ॥ 17 ॥

  18. पुत्रान भरातॄन निगृह्णन्तॊ विनये च सदा रताः विनीतांश च परगृह्णन्तॊ विवर्धन्ते गणॊत्तमाः ॥ 18 ॥

  19. चारमन्त्रविधानेषु कॊशसंनिचयेषु च नित्ययुक्ता महाबाहॊ वर्धन्ते सर्वतॊ गणाः ॥ 19 ॥

  20. पराज्ञाञ शूरान महेष्वासान कर्मसु सथिरपौरुषान मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥ 20 ॥

  21. दरव्यवन्तश च शूराश च शस्त्रज्ञाः शास्त्रपारगाः कृच्छ्रास्व आपत्सु संमूढान गणान उत्तारयन्ति ते ॥ 21 ॥

  22. करॊधॊ भेदॊ भयॊ दण्डः कर्शनं निग्रहॊ वधः नयन्त्य अरिवशं सद्यॊ गणान भरतसत्तम ॥ 22 ॥

  23. तस्मान मानयितव्यास ते गणमुख्याः परधानतः लॊकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥ 23 ॥

  24. मन्त्रगुप्तिः परधानेषु चारश चामित्रकर्शन न गणाः कृत्स्नशॊ मन्त्रं शरॊतुम अर्हन्ति भारत ॥ 24 ॥

  25. गणमुख्यैस तु संभूय कार्यं गणहितं मिथः पृथग गणस्य भिन्नस्य विमतस्य ततॊ ऽनयथा अर्थाः परत्यवसीदन्ति तथानर्था भवन्ति च ॥ 25 ॥

  26. तेषाम अन्यॊन्यभिन्नानां सवशक्तिम अनुतिष्ठताम निग्रहः पण्डितैः कार्यः कषिप्रम एव परधानतः ॥ 26 ॥

  27. कुलेषु कलहा जाताः कुलवृद्धैर उपेक्षिताः गॊत्रस्य राजन कुर्वन्ति गणसंभेद कारिकाम ॥ 27 ॥

  28. आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतॊ भयम अभ्यन्तराद भयं जातं सद्यॊ मूलं निकृन्तति ॥ 28 ॥

  29. अकस्मात करॊधलॊभाद वा मॊहाद वापि सवभावजात अन्यॊन्यं नाभिभाषन्ते तत्पराभव लक्षणम ॥ 29 ॥

  30. जात्या च सदृशाः सर्वे कुलेन सदृशास तथा न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः ॥ 30 ॥

  31. भेदाच चैव परमादाच च नाम्यन्ते रिपुभिर गणाः तस्मात संघातम एवाहुर गणानां शरणं महत ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 109

Previous: अध्याय 107