धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 107

  1. [र] न निकृत्या न दम्भेन बरह्मन्न इच्छामि जीवितुम नाधर्मयुक्तानीच्छेयम अर्थान सुमहतॊ ऽपय अहम ॥ 1 ॥

  2. पुरस्ताद एव भगवन मयैतद अपवर्जितम येन मां नाभिशङ्केत यद वा कृत्स्नं हितं भवेत ॥ 2 ॥

  3. आनृशंस्येन धर्मेण लॊके हय अस्मिञ जिजीविषुः नाहम एतद अलं कर्तुं नैतन मय्य उपपद्यते ॥ 3 ॥

  4. [मनु] उपपन्नस तवम एतेन यथा कषत्रिय भाषसे परकृत्या हय उपपन्नॊ ऽसि बुद्ध्या चाद्भुतदर्शन ॥ 4 ॥

  5. उभयॊर एव वाम अर्थे यतिष्ये तव तस्य च संश्लेषं वा करिष्यामि शाश्वतं हय अनपायिनम ॥ 5 ॥

  6. तवादृशं हि कुले जातम अनृशंसं बहुश्रुतम अमात्यं कॊ न कुर्वीत राज्यप्रणय कॊविदम ॥ 6 ॥

  7. यस तवं परव्रजितॊ राज्याद वयसनं चॊत्तमं गतः आनृशंस्येन वृत्तेन कषत्रियेच्छसि जीवितुम ॥ 7 ॥

  8. आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः यताहं तं नियॊष्क्यामि तत करिष्यत्य असंशयम ॥ 8 ॥

  9. [भ] तत आहूय वैदेहं मुनिर वचनम अब्रवीत अयं राजकुले जातॊ विदिताभ्यन्तरॊ मम ॥ 9 ॥

  10. आदर्श इव शुद्धात्मा शारदश चन्द्रमा इव नास्मिन पश्यामि वृजिनं सर्वतॊ मे परीक्षितः ॥ 10 ॥

  11. तेन ते संधिर एवास्तु विश्वसास्मिन यथा मयि न राज्यम अनमात्येन शक्यं शास्तुम अमित्रहन अमात्यः शूर एव सयाद बुद्धिसंपन्न एव च ॥ 11 ॥

  12. अमात्यः शूर एव सयाद बुद्धिसंपन्न एव च ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य यॊजनम धर्मात्मनां कव चिल लॊके नान्यास्ति गतिर ईदृशी ॥ 12 ॥

  13. कृतात्मा राजपुत्रॊ ऽयं सतां मार्गम अनुष्ठितः संसेव्यमानः शत्रूंस ते गृह्णीयान महतॊ गणान ॥ 13 ॥

  14. यद्य अयं परतियुध्येत तवां सवकर्म कषत्रियस्य तत जिगीषमाणस तवां युद्धे पितृपैतामहे पदे ॥ 14 ॥

  15. तवं चापि परति युध्येथा विजिगीषु वरते सथितः अयुद्ध्वैव नियॊगान मे वशे वैदेह ते सथितः ॥ 15 ॥

  16. स तवं धर्मम अवेक्षस्व तयक्त्वाधर्मम असांप्रतम न हि कामान न च दरॊहात सवधर्मं हातुम अर्हसि ॥ 16 ॥

  17. नैव नित्यं जयस तात नैव नित्यं पराजयः तस्माद भॊजयितव्यश च भॊक्तव्यश च परॊ जनः ॥ 17 ॥

  18. आत्मन्य एव हि संदृश्याव उभौ जयपराजयौ निःशेष कारिणां तात निःशेष करणाद भयम ॥ 18 ॥

  19. इत्य उक्तः परत्युवाचेदं वचनं बराह्मणर्षभम अभिपूज्याभिसत्कृत्य पूजार्हम अनुमान्य च ॥ 19 ॥

  20. यथा बरूयान महाप्राज्ञॊ यथा बरूयाद बहुश्रुतः शरेयः कामॊ यथा बरूयाद उभयॊर यत कषमं भवेत ॥ 20 ॥

  21. तथा वचनम उक्तॊ ऽसमि करिष्यामि च तत तथा एतद धि परमं शरेयॊ न मे ऽतरास्ति विचारणा ॥ 21 ॥

  22. ततः कौशल्यम आहूय वैदेहॊ वाक्यम अब्रवीत धर्मतॊ नीतितश चैव बलेन च जितॊ मया ॥ 22 ॥

  23. सॊ ऽहं तवया तव आत्मगुणैर जितः पार्थिव सत्तम आत्मानम अनवज्ञाय जितवद वर्ततां भवान ॥ 23 ॥

  24. नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम नावमन्ये जयामीति जितवद वर्ततां भवान ॥ 24 ॥

  25. यथावत पूजितॊ राजन गृहं गन्तासि मे गृहात ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर गृहान ॥ 25 ॥

  26. वैदेहस तव अथ कौसल्यं परवेश्य गृहम अञ्जसा पाद्यार्घ्य मधुपर्कैस तं पूजार्हं परत्यपूजयत ॥ 26 ॥

  27. ददौ दुहितरं चास्मै रत्नानि विविधानि च एष राज्ञां परॊ धर्मः सह्यौ जयपराजयौ ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 108

Previous: अध्याय 106