धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 106

  1. [मुनि] अथ चेत पौरुषं किं चित कषत्रियात्मनि पश्यसि बरवीमि हन्त ते नीतिं राज्यस्य परतिपत्तये ॥ 1 ॥

  2. तां चेच छक्ष्यस्य अनुष्ठातुं कर्म चैव करिष्यसि शृणु सर्वम अशेषेण यत तवां वक्ष्यामि तत्त्वतः ॥ 2 ॥

  3. आचरिष्यसि चेत कर्म महतॊ ऽरथान अवाप्स्यसि राज्यं राज्यस्य मन्त्रं वा महती वा पुनः शरियम यद्य एतद रॊचते राजन पुनर बरूहि बरवीमि ते ॥ 3 ॥

  4. [राजपुत्र] बरवीतु भगवान नीतिम उपपन्नॊ ऽसम्य अहं परभॊ अमॊघम इदम अद्यास्तु तवया सह समागतम ॥ 4 ॥

  5. [मुनि] हित्वा सतम्भं च मानं च करॊधहर्षौ भयं तथा परत्य अमित्रं निषेवस्व परणिपत्य कृताञ्जलिः ॥ 5 ॥

  6. तम उत्तमेन शौचेन कर्मणा चाभिराधय दातुम अर्हति ते वृत्तिं वैदेहः सत्यसंगरः ॥ 6 ॥

  7. परमाणं सर्वभूतेषु परग्रहं च गमिष्यसि ततः सहायान सॊत्साहाँल लप्स्यसे ऽवयसनाञ शुचीन ॥ 7 ॥

  8. वर्तमानः सवशास्त्रे वै संयतात्मा जितेन्द्रियः अभ्युद्धरति चात्मानं परसादयति च परजाः ॥ 8 ॥

  9. तेनैव तवं धृतिमता शरीमता चाभिसत्कृतः परमाणं सर्वभूतेषु गत्वा परग्रहणं महत ॥ 9 ॥

  10. ततः सुहृद बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम अन्तरैर भेदयित्वारीन बिल्वं बिल्वेन शातय परैर वा संविदं कृत्वा बलम अप्य अस्य घातय ॥ 10 ॥

  11. अलभ्या ये शुभा भावाः सत्रियश चाच्छादनानि च शय्यासनानि यानानि महार्हाणि गृहाणि च ॥ 11 ॥

  12. पक्षिणॊ मृगजातानि रसा गन्धाः फलानि च तेष्व एव सज्जयेथास तवं यथा नश्येत सवयं परः ॥ 12 ॥

  13. यद्य एव परतिषेद्धव्यॊ यद्य उपेक्षणम अर्हति न जातु विवृतः कार्यः शत्रुर विनयम इच्छता ॥ 13 ॥

  14. वसस्व परमामित्र विषये पराज्ञसंमते भजस्व शवेतकाकीयैर मित्राधमम अनर्थकैः ॥ 14 ॥

  15. आरम्भांश चास्य महतॊ दुष्करांस तवं परयॊजय नदी बन्धविरॊधांश च बलवद्भिर विरुध्यताम ॥ 15 ॥

  16. उद्यानानि महार्हाणि शयनान्य आसनानि च परतिभॊग सुखेनैव कॊशम अस्य विरेचय ॥ 16 ॥

  17. यज्ञदानप्रशंसास्मै बराह्मणेष्व अनुवर्ण्यताम ते तवत परियं करिष्यन्ति तं चेष्यन्ति वृका इव ॥ 17 ॥

  18. असंशयं पुण्यशीलः पराप्नॊति परमां गतिम तरिविष्टपे पुण्यतमं सथानं पराप्नॊति पार्थिवः कॊशक्षये तव अमित्राणां वशं कौसल्य गच्छति ॥ 18 ॥

  19. उभयत्र परसक्तस्य धर्मे चाधर्म एव च बलार्थ मूलं वयुच्छिद्येत तेन नन्दन्ति शत्रवः ॥ 19 ॥

  20. निन्द्यास्य मानुषं कर्म दैवम अस्यॊपवर्णय असंशयं दैवपरः कषिप्रम एव विनश्यति ॥ 20 ॥

  21. याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम ततॊ गच्छत्व असिद्धार्थः पीड्यमानॊ महाजनम ॥ 21 ॥

  22. तयागधर्मविदं मुण्डं कं चिद अस्यॊपवर्णय अपि तयागं बुभूषेत कच चिद गच्छेद अनामयम ॥ 22 ॥

  23. सिद्धेनौषध यॊगेन सर्वशत्रुविनाशिना नागान अश्वान मनुष्यांश च कृतकैर उपघातय ॥ 23 ॥

  24. एते चान्ये च बहवॊ दम्भयॊगाः सुनिश्चिताः शक्या विषहता कर्तुं न कलीबेन नृपात्मज ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 107

Previous: अध्याय 105