[य] धार्मिकॊ ऽरथान असंप्राप्य राजामात्यैः परबाधितः चयुतः कॊशाच च दण्डाच च सुखम इच्छन कथं चरेत ॥ 1 ॥
[भ] अत्रायं कषेमदर्शीयम इतिहासॊ ऽनुगीयते तत ते ऽहं संप्रवक्ष्यामि तन निबॊध युधिष्ठिर ॥ 2 ॥
कषेमदर्शं नृपसुतं यत्र कषीणबलं पुरा मुनिः कालक वृक्षीय आजगामेति नः शरुतम तं पप्रच्छॊपसंगृह्य कृच्छ्राम आपदम आस्थितः ॥ 3 ॥
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः अलब्ध्वा मद्विधॊ राज्यं बरह्मन किं कर्तुम अर्हति ॥ 4 ॥
अन्यत्र मरणात सतेयाद अन्यत्र परसंश्रयात कषुद्राद अन्यत्र चाचारात तन ममाचक्ष्व सत्तम ॥ 5 ॥
वयाधिना चाभिपन्नस्य मानसेनेतरेण वा बहुश्रुतः कृतप्रज्ञस तवद्विधः करणं भवेत ॥ 6 ॥
निर्विद्य हि नरः कामान नियम्य सुखम एधते तयक्त्वा परीतिं च शॊकं च लब्ध्वाप्रीति मयं वसु ॥ 7 ॥
सुखम अर्थाश्रयं येषाम अनुशॊचामि तान अहम मम हय अर्थाः सुबहवॊ नष्टाः सवप्न इवागताः ॥ 8 ॥
दुष्करं बत कुर्वन्ति महतॊ ऽरथांस तयजन्ति ये वयं तव एनान परित्यक्तुम असतॊ ऽपि न शक्नुमः ॥ 9 ॥
इमाम अवस्थां संप्राप्तं दीनम आर्तं शरियश चयुतम यद अन्यत सुखम अस्तीह तद बरह्मन्न अनुशाधि माम ॥ 10 ॥
कौसल्येनैवम उक्तस तु राजपुत्रेण धीमता मुनिः कालक वृक्षीयः परत्युवाच महाद्युतिः ॥ 11 ॥
पुरस्ताद एव ते बुद्धिर इयं कार्या विजानतः अनित्यं सर्वम एवेदम अहं च मम चास्ति यत ॥ 12 ॥
यत किं चिन मन्यसे ऽसतीति सर्वं नास्तीति विद्धि तत एवं न वयथते पराज्ञः कृच्छ्राम अप्य आपदं गतः ॥ 13 ॥
यद धि भूतं भविष्यच च धरुवं तन न भविष्यति एवं विदितवेद्यस तवम अधर्मेभ्यः परमॊक्ष्यसे ॥ 14 ॥
यच च पूर्वे समाहारे यच च पूर्वतरे परे सर्वं तन नास्ति तच चैव तज्ज्ञात्वा कॊ ऽनुसंज्वरेत ॥ 15 ॥
भूत्वा च न भवत्य एतद अभूत्वा च भवत्य अपि शॊके न हय अस्ति सामर्थ्यं शॊकं कुर्यात कथं नरः ॥ 16 ॥
कव नु ते ऽदय पिता राजन कव नु ते ऽदय पितामह न तवं पश्यसि तान अद्य न तवा पश्यन्ति ते ऽपि च ॥ 17 ॥
आत्मनॊ ऽधरुवतां पश्यंस तांस तवं किम अनुशॊचसि बुद्ध्या चैवानुबुध्यस्व धरुवं हि न भविष्यसि ॥ 18 ॥
अहं च तवं च नृपते शत्रवः सुहृदश च ते अवश्यं न भविष्यामः सर्वं च न भविष्यति ॥ 19 ॥
ये तु विंशतिवर्षा वै तरिंशद्वर्षाश च मानवाः अर्वाग एव हि ते सर्वे मरिष्यन्ति शरच्छतात ॥ 20 ॥
अपि चेन महतॊ वित्ताद विप्रमुच्येत पूरुषः नैतन ममेति तन मत्वा कुर्वीत परियम आत्मनः ॥ 21 ॥
अनागतं य न ममेति विद्याद; अतिक्रान्तं यन न ममेति विद्यात दिष्टं बलीय इति मन्यमानास; ते पण्डितास तत सतां सथानम आहुः ॥ 22 ॥
अनाढ्याश चापि जीवन्ति राज्यं चाप्य अनुशासते बुद्धिपौरुष संपन्नास तवया तुल्याधिका जनाः ॥ 23 ॥
न च तवम इव शॊचन्ति तस्मात तवम अपि मा शुचः किं नु तवं तैर न वै शरेयांस तुल्यॊ वा बुद्धिपौरुषैः ॥ 24 ॥
[राजपुत्र] यादृच्छिकं ममासीत तद राज्यम इत्य एव चिन्तये हरियते सर्वम एवेदं कालेन महता दविज ॥ 25 ॥
तस्यैवं हरियमाणस्य सरॊतसेव तपॊधन फलम एतत परपश्यामि यथा लब्धेन वर्तये ॥ 26 ॥
[मुनि] अनागतम अतीतं च यथातथ्य विनिश्चयात नानुशॊचसि कौसल्य सर्वार्थेषु तथा भव ॥ 27 ॥
अवाप्यान कामयस्वार्थान नानवाप्यान कदा चन परत्युत्पन्नान अनुभवन मा शुचस तवम अनागतान ॥ 28 ॥
यथा लब्धॊपपन्नार्थस तथा कौसल्य रंस्यसे कच चिच छुद्ध सवभावेन शरिया हीनॊ न शॊचसि ॥ 29 ॥
पुरस्ताद भूतपूर्वत्वाद धीन भाग्यॊ हि दुर्मतिः धातारं गर्हते नित्यं लब्धार्थांश च न मृष्यते ॥ 30 ॥
अनर्हान अपि चैवान्यान मन्यते शरीमतॊ जनान एतस्मात कारणाद एतद दुःखं भूयॊ ऽनुवर्तते ॥ 31 ॥
ईर्ष्यातिच्छेद संपन्ना राजन पुरुषमानिनः कच चित तवं न तथा पराज्ञ मत्सरी कॊसलाधिप ॥ 32 ॥
सहस्व शरियम अन्येषां यद्य अपि तवयि नास्ति सा अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः अभिविष्यन्दते शरीर हि सत्य अपि दविषतॊ जनात ॥ 33 ॥
शरियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः तयागधर्मविदॊ वीराः सवयम एव तयजन्त्य उत ॥ 34 ॥
बहु संकसुकं दृष्ट्वा विवित्सा साधनेन च तथान्ये संत्यजन्त्य एनं मत्वा परमदुर्लभम ॥ 35 ॥
तवं पुनः पराज्ञ रूपः सन कृपणं परितप्यसे अकाम्यान कामयानॊ ऽरथान पराचीनान उपद्रुतान ॥ 36 ॥
तां बुद्धिम उपजिज्ञासुस तवम एवैनान परित्यज अनर्थांश चार्थरूपेण अर्थांश चानर्थ रूपतः ॥ 37 ॥
अर्थायैव हि केषां चिद धननाशॊ भवत्य उत अनन्त्यं तं सुखं मत्वा शरियम अन्यः परीक्षते ॥ 38 ॥
रममाणः शरिया कश चिन नान्यच छरेयॊ ऽभिमन्यते तथा तस्येहमानस्य समारम्भॊ विनश्यति ॥ 39 ॥
कृच्छ्राल लब्धम अभिप्रेतं यदा कौसल्य नश्यति तदा निर्विद्यते सॊ ऽरथात परिभग्न करमॊ नरः ॥ 40 ॥
धर्मम एके ऽभिपद्यन्ते कल्याणाभिजना नराः परत्र सुखम इछन्तॊ निर्विद्येयुश च लौकिकात ॥ 41 ॥
जीवितं संत्यजन्त्य एके धनलॊभ परा नराः न जीवितार्थं मन्यन्ते पुरुषा हि धनाद ऋते ॥ 42 ॥
पश्य तेषां कृपणतां पश्य तेषाम अबुद्धिताम अध्रुवे जीविते मॊहाद अर्थतृष्णाम उपाश्रिताः ॥ 43 ॥
संचये च विनाशान्ते मरणान्ते च जीविते संयॊगे विप्रयॊगान्ते कॊ नु विप्रणयेन मनः ॥ 44 ॥
धनं वा पुरुषं राजन पुरुषॊ वा पुनर धनम अवश्यं परजहात्य एतत तद विद्वान कॊ ऽनुसंज्वरेत ॥ 45 ॥
अन्येषाम अपि नश्यन्ति सुहृदश च धनानि च पश्य बुद्ध्या मनुष्याणां राजन्न आपदम आत्मनः नियच्छ यच्छ संयच्छ इन्द्रियाणि मनॊ गिरम ॥ 46 ॥
परतिषिद्धान अवाप्येषु दुर्लभेष्व अहितेषु च परतिकृष्टेषु भावेषु वयतिकृष्टेष्व असंभवे परज्ञान तृप्तॊ विक्रान्तस तवद्विधॊ नानुशॊचति ॥ 47 ॥
अल्पम इच्छन्न अचपलॊ मृदुर दान्तः सुसंशितः बरह्मचर्यॊपपन्नश च तवद्विधॊ नैव मुह्यति ॥ 48 ॥
न तव एव जाल्मीं कापालीं वृत्तिम एषितुम अर्हसि नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषॊचिताम ॥ 49 ॥
अपि मूलफलाजीवॊ रमस्वैकॊ महावने वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः ॥ 50 ॥
सदृशं पण्डितस्यैतद ईषा दन्तेन दन्तिना यद एकॊ रमते ऽरण्ये यच चाप्य अल्पेन तुष्यति ॥ 51 ॥
महाह्रदः संक्षुभित आत्मनैव परसीदति एतद एवंगतस्याहं सुखं पश्यामि केवलम ॥ 52 ॥
असंभवे शरियॊ राजन हीनस्य सचिवादिभिः दैवे परतिनिविष्टे च किं शरेयॊ मन्यते भवान ॥ 53 ॥
शान्तिपर्व · Shanti Parva
अध्याय 105
Reach this point to mark the section finished.
Continue to अध्याय 106