धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 104

  1. [य] कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव अरौ वर्तेत नृपतिस तन मे बरूहि पितामह ॥ 1 ॥

  2. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बृहस्पतेश च संवादम इन्द्रस्य च युधिष्ठिर ॥ 2 ॥

  3. बृहस्पतिं देवपतिर अभिवाद्य कृताञ्जलिः उपसंगम्य पप्रच्छ वासवः परवीरहा ॥ 3 ॥

  4. अहितेषु कथं बरह्मन वर्तयेयम अतन्द्रितः असमुच्छिद्य चैवैनान नियच्छेयम उपायतः ॥ 4 ॥

  5. सेनयॊर वयतिषङ्गेण जयः साधारणॊ भवेत किं कुर्वाणं न मां जह्याज जवलिता शरीः परतापिनी ॥ 5 ॥

  6. ततॊ धर्मार्थकामानां कुशलः परतिभानवान राजधर्मविधानज्ञः परत्युवाच पुरंदरम ॥ 6 ॥

  7. न जातु कलहेनेच्छेन नियन्तुम अपकारिणः बाल संसेवितं हय एतद यद अमर्षॊ यद अक्षमा न शत्रुर विवृतः कार्यॊ वधम अस्याभिकाङ्क्षता ॥ 7 ॥

  8. करॊधं बलम अमर्षं च नियम्यात्मजम आत्मनि अमित्रम उपसेवेत विश्वस्तवद अविश्वसन ॥ 8 ॥

  9. परियम एव वदेन नित्यं नाप्रियं किं चिद आचरेत विरमेच छुष्क वैरेभ्यः कण्ठायासं च वर्जयेत ॥ 9 ॥

  10. यथा वैतंसिकॊ युक्तॊ दविजानां सदृशस्वनः तान दविजान कुरुते वश्यांस तथायुक्तॊ महीपतिः वशं चॊपनयेच छत्रून निहन्याच च पुरंदर ॥ 10 ॥

  11. न नित्यं परिभूयारीन सुखं सवपिति वासव जागर्त्य एव च दुष्टात्मा संकरे ऽगनिर इवॊत्थितः ॥ 11 ॥

  12. न संनिपातः कर्तव्यः सामान्ये विजये सति विश्वास्यैवॊपसंन्यास्यॊ वशे कृत्वा रिपुः परभॊ ॥ 12 ॥

  13. संप्रधार्य सहामात्यैर मन्त्रविद्भिर महात्मभिः उपेक्षमाणॊ ऽवज्ञाते हृदयेनापराजितः ॥ 13 ॥

  14. अथास्य परहरेत काले किं चिद विचलिते पदे दण्डं च दूषयेद अस्य पुरुषैर आप्तकारिभिः ॥ 14 ॥

  15. आदिमध्यावसानज्ञः परच्छन्नं च विचारयेत बलानि दूषयेद अस्य जानंश चैव परमाणतः ॥ 15 ॥

  16. भेदेनॊपप्रदानेन संसृजन्न औषधैस तथा न तव एव चेल संसर्गं रचयेद अरिभिः सह ॥ 16 ॥

  17. दीर्घकालम अपि कषान्त्वा विहन्याद एव शातवान कालाकाङ्क्षी यामयेच च यथा विष्रम्भम आप्नुयुः ॥ 17 ॥

  18. न सद्यॊ ऽरीन विनिर्हन्याद दृष्टस्य विजयॊ ऽजवरः न यः शल्यं घट्टयति नवं च कुरुते वरणम ॥ 18 ॥

  19. पराप्ते च परहरेत काले न स संवर्तते पुनः हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं परति ॥ 19 ॥

  20. यः कालॊ हि वयतिक्रामेत पुरुषं कालकाङ्क्षिणम दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा ॥ 20 ॥

  21. और्जस्थ्यं विजयेद एवं संगृह्णन साधु संमतान कालेन साधयेन नित्यं नाप्राप्ते ऽभिनिपीडयेत ॥ 21 ॥

  22. विहाय कामं करॊधं च तथाहंकारम एव च युक्तॊ विवरम अन्विच्छेद अहितानां पुरंदर ॥ 22 ॥

  23. मार्दवं दण्ड आलस्यं परमादश च सुरॊत्तम मायाश च विविधाः शक्र साधयन्त्य अविचक्षणम ॥ 23 ॥

  24. निहत्यैतानि चत्वारि मायां परतिविधाय च ततः शक्नॊति शत्रूणां परहर्तुम अविचारयन ॥ 24 ॥

  25. यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत यच्छन्ति सचिवा गुह्यं मिथॊ विद्रावयन्त्य अपि ॥ 25 ॥

  26. अशक्यम इति कृत्वा वा ततॊ ऽनयैः संविदं चरेत बरह्मदण्डम अदृष्टेषु दृष्टेषु चतुरङ्गिणीम ॥ 26 ॥

  27. भेदं च परथमं युञ्ज्यात तूष्णीं दण्डं तथैव च काले परयॊजयेद राजा तस्मिंस तस्मिंस तदा तदा ॥ 27 ॥

  28. परणिपातं च गच्छेत काले शत्रॊर बलीयसः युक्तॊ ऽसय वधम अन्विच्छेद अप्रमत्तः परमाद्यतः ॥ 28 ॥

  29. परणिपातेन दानेन वाचा मधुरया बरुवन अमित्रम उपसेवेत न तु जातु विशङ्कयेत ॥ 29 ॥

  30. सथानानि शङ्कितानां च नित्यम एव विवर्जयेत न च तेष्व आश्वसेद दरुग्ध्वा जागर्तीह निराकृताः ॥ 30 ॥

  31. न हय अतॊ दुष्करं कर्म किं चिद अस्ति सुरॊत्तम यथा विविधवृत्तानाम ऐश्वर्यम अमराधिप ॥ 31 ॥

  32. तथा विविधशीलानाम अपि संभव उच्यते यतेत यॊगम आस्थाय मित्रामित्रान अवारयन ॥ 32 ॥

  33. मृदुम अप्य अवमन्यन्ते तीक्ष्णाद उद्विजते जनः मातीक्ष्णॊ मामृदुर भूस तवं तीक्ष्णॊ भव मृदुर भव ॥ 33 ॥

  34. यथा वप्रे वेगवति सर्वतः संप्लुतॊदके नित्यं विवरणाद बाधस तथा राज्यं परमाद्यतः ॥ 34 ॥

  35. न बनून अभियुञ्जीत यौगपद्येन शात्रवान साम्ना दानेन भेदेन दण्डेन च पुरंदर ॥ 35 ॥

  36. एकैकम एषां निष्पिंषञ शिष्टेषु निपुणं चरेत न च शक्तॊ ऽपि मेधावी सर्वान एवारभेन नृपः ॥ 36 ॥

  37. यदा सयान महती सेना हयनागरथाकुला पदातियन्त्र बहुला सवनुरक्ता षडङ्गिनी ॥ 37 ॥

  38. यदा बहुविधां वृद्धिं मन्यते परतिलॊमतः तदा वृवृत्य परहरेद दस्यूनाम अविचारयन ॥ 38 ॥

  39. न साम दण्डॊपनिषत परशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा न सस्यघातॊ न च संकरक्रिया; न चापि भूयः परकृतेर विचारणा ॥ 39 ॥

  40. माया विभेदानुपसर्जनानि; पापं तथैव सपश संप्रयॊगात आप्तैर मनुष्यैर उपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः ॥ 40 ॥

  41. पुराणि चैषाम अनुसृत्य भूमिपाः; पुरेषु भॊगान निखिलान इहाजयन पुरेषु नीतिं विहितां यथाविधि; परयॊजयन्तॊ बह वृत्र सूदन ॥ 41 ॥

  42. परदाय गूढानि वसूनि नाम; परच्छिद्य भॊगान अवधाय च सवान दुष्टाः सवदॊषैर इति कीर्तयित्वा; पुरेषु राष्ट्रेषु च यॊजयन्ति ॥ 42 ॥

  43. तथैव चान्यै रतिशास्त्रवेदिभिः; सवलंकृतैः शास्त्रविधानदृष्टिभिः सुशिक्षितैर भाष्य कथा विशारदैः; परेषु कृत्यान उपधारयस्व ॥ 43 ॥

  44. [इन्द्र] कानि लिङ्गानि दुष्टस्य भवन्ति दविजसत्तम कथं दुष्टं विजानीयाद एतत पृष्टॊ बरवीहि मे ॥ 44 ॥

  45. [बृहस्पति] परॊक्षम अगुणान आह सद्गुणान अभ्यसूयति परैर वा कीर्त्यमानेषु तूष्णीम आस्ते पराङ्मुखः ॥ 45 ॥

  46. तूष्णीं भावे ऽपि हि जञानं न चेद भवति कारणम विश्वासम ओष्ठसंदंशं शिरसश च परकम्पनम ॥ 46 ॥

  47. करॊत्य अभीक्ष्णं संसृष्टम असंसृष्टश च भाषते अदृष्टितॊ विकुरुते दृष्ट्वा वा नाभिभाषते ॥ 47 ॥

  48. पृथग एत्य समश्नाति नेदम अद्य यथाविधि आसने शयने याने भावा लक्ष्या विशेषतः ॥ 48 ॥

  49. आर्तिर आर्ते परिये परीतिर एतावन मित्र लक्षणम विपरीतं तु बॊद्धव्यम अरिलक्षणम एव तत ॥ 49 ॥

  50. एतान्य एवं यथॊक्तानि बुध्येथास तरिदशाधिप पुरुषाणां परदुष्टानां सवभावॊ बलवत्तरः ॥ 50 ॥

  51. इति दुष्टस्य विज्ञानम उक्तं ते सुरसत्तम निशाम्य शास्त्रतत्त्वार्थं यथावद अमरेश्वरः ॥ 51 ॥

  52. [भ] स तद वचः शत्रुनिबर्हणे रतस; तथा चकारावितथं बृहस्पतेः चचार काले विजयाय चारिहा; वशं च शत्रून अनयत पुरंदरः ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 105

Previous: अध्याय 103