धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 103

  1. [य] जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ पृतनायाः परशस्तानि तानीहेच्छामि वेदितुम ॥ 1 ॥

  2. [भ] जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ पृतनायाः परशस्तानि तानि वक्ष्यामि सर्वशः ॥ 2 ॥

  3. दैवं पूर्वं विकुरुते मानुषे कालचॊदिते तद विद्वांसॊ ऽनुपश्यन्ति जञानदीर्घेण चक्षुषा ॥ 3 ॥

  4. परायश्चित्त विधिं चात्र जपहॊमांश च तद विदुः मङ्गलानि च कुर्वन्तः शमयन्त्य अहितान्य अपि ॥ 4 ॥

  5. उदीर्णमनसॊ यॊधा वाहनानि च भारत यस्यां भवन्ति सेनायां धरुवं तस्यां जयं वदेत ॥ 5 ॥

  6. अन्व एनां वायवॊ वान्ति तथैवेन्द्र धनूंषि च अनुप्लवन्ते मेघाश च तथादित्यस्य रश्मयः ॥ 6 ॥

  7. गॊमायवश चानुलॊमा वडा गृध्राश च सर्वशः आचरेयुर यदा सेनां तदा सिद्धिर अनुत्तमा ॥ 7 ॥

  8. परसन्नभाः पावक ऊर्ध्वरश्मिः; परदक्षिणावर्तशिखॊ विधूमः पुण्या गन्धाश चाहुतीनां परवान्ति; जयस्यैतद भाविनॊ रूपम आहुः ॥ 8 ॥

  9. गम्भीरशब्दाश च महास्वनाश च; शङ्खाश च भेर्यश च नदन्ति यत्र युयुत्सवश चाप्रतीपा भवन्ति; जयस्यैतद भाविनॊ रूपम आहुः ॥ 9 ॥

  10. इष्टा मृगाः पृष्ठतॊ वामतश च; संप्रस्थितानां च गमिष्यतां च जिघांसतां दक्षिणाः सिद्धिम आहुर; ये तव अग्रतस ते परतिषेधयन्ति ॥ 10 ॥

  11. मङ्गल्य शब्दाः शकुना वदन्ति; हंसाः करौञ्चाः शतपत्राश च चाषाः हृष्टा यॊधाः सत्त्ववन्तॊ भवन्ति; जयस्यैतद भाविनॊ रूपम आहुः ॥ 11 ॥

  12. शस्त्रैः पतैः कवचैर केतुभिश च; सुभानुभिर मुखवर्णैश च यूनाम भराजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस ते ऽभिभवन्ति शत्रून ॥ 12 ॥

  13. शुश्रूषवश चानभिमानिनश च; परस्परं सौहृदम आस्थिताश च येषां यॊधाः शौचम अनुष्ठिताश च; जयस्यैतद भाविनॊ रूपम आहुः ॥ 13 ॥

  14. शब्दाः सपर्शास तथा गन्धा विचरन्ति मनःप्रियाः धैर्यं चाविशते यॊधान विजयस्य मुखं तु तत ॥ 14 ॥

  15. इष्टॊ वामः परविष्टस्य दक्षिणः परविविक्षतः पश्चात संसाधयत्य अर्थं पुरस्तात परतिषेधति ॥ 15 ॥

  16. संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर साम्नैवावर्तने पूर्वं परयतेथास तथॊ युधि ॥ 16 ॥

  17. जघन्य एष विजयॊ यद युद्धं नाम भारत यादृच्छिकॊ युधि जयॊ दैवॊ वेति विचारणम ॥ 17 ॥

  18. अपाम इव महावेगस तरस्ता मृगगणा इव दुर्निवार्यतमा चैव परभग्ना महती चमूः ॥ 18 ॥

  19. भग्ना इत्य एव भज्यन्ते विद्वांसॊ ऽपि न कारणम उदारसारा महती रुरुसंघॊपमा चमूः ॥ 19 ॥

  20. परस्परज्ञाः संहृष्टास तयक्तप्राणाः सुनिश्चिताः अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम ॥ 20 ॥

  21. अथ वा पञ्च षट सप्त सहिताः कृतनिश्चयाः कुलीनाः पूजिताः सम्यग विजयन्तीह शात्रवान ॥ 21 ॥

  22. संनिपातॊ न गन्तव्यः शक्ये सति कथं चन सान्त्वभेद परदानानां युद्धम उत्तरम उच्यते ॥ 22 ॥

  23. संसर्पणाद धि सेनाया भयं भीरून परबाधते वज्राद इव परज्वलिताद इयं कव नु पतिष्यति ॥ 23 ॥

  24. अभिप्रयातां समितिं जञात्वा ये परतियान्त्य अथ तेषां सपन्दन्ति गात्राणि यॊधानां विषयस्य च ॥ 24 ॥

  25. विषयॊ वयथते राजन सर्वः सस्थाणु जङ्गमः शस्त्रप्रताप तप्तानां मज्जा सीदति देहिनाम ॥ 25 ॥

  26. तेषां सान्त्वं करूर मिश्रं परणेतव्यं पुनः पुनः संपीड्यमाना हि परे यॊगम आयान्ति सर्वशः ॥ 26 ॥

  27. अन्तराणां च भेदार्थं चारान अभ्यवचारयेत यश च तस्मात परॊ राजा तेन संधिः परशस्यते ॥ 27 ॥

  28. न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा यथा सार्धम अमित्रेण सर्वतः परतिबाधनम ॥ 28 ॥

  29. कषमा वै साधु माया हि न हि साध्व अक्षमा सदा कषमायाश चाक्षमायाश च विद्धि पार्थ परयॊजनम ॥ 29 ॥

  30. विजित्य कषममाणस्य यशॊ राज्ञॊ ऽभिवर्धते महापराधा हय अप्य अस्मिन विश्वसन्ति हि शत्रवः ॥ 30 ॥

  31. मन्यते कर्शयित्वा तु कषमा साध्व इति शम्बरः असंतप्तं तु यद दारु परत्येति परकृतिं पुनः ॥ 31 ॥

  32. नैतत परशंसन्त्य आचार्या न च साधु निदर्शनम अक्लेशेनाविनाशेन नियन्तव्याः सवपुत्रवत ॥ 32 ॥

  33. दवेष्यॊ भवति भूतानाम उग्रॊ राजा युधिष्ठिर मृदुम अप्य अवमन्यन्ते तस्माद उभय भाग भवेत ॥ 33 ॥

  34. परहरिष्यन परियं बरूयात परहरन्न अपि भारत परहृत्य च कृपायेत शॊचन्न इव रुदन्न इव ॥ 34 ॥

  35. न मे परियं यत स हतः संप्राहैवं पुरॊ वचः न चकर्थ च मे वाक्यम उच्यमानः पुनः पुनः ॥ 35 ॥

  36. अहॊ जीवितम आकाङ्क्षे नेदृशॊ वधम अर्हति सुदुर्लभाः सुपुरुषाः संग्रामेष्व अपलायिनः ॥ 36 ॥

  37. कृतं ममाप्रियं तेन येनायं निहतॊ मृधे इति वाचा वदन हन्तॄन पूजयेत रहॊगतः ॥ 37 ॥

  38. हन्तॄणां चाहतानां च यत कुर्युर अपराधिनः करॊशेद बाहुं परगृह्यापि चिकीर्षञ जनसंग्रहम ॥ 38 ॥

  39. एवं सर्वास्व अवस्थासु सान्त्वपूर्वं समाचरन परियॊ भवति भूतानां धर्मज्ञॊ वीतभीर नृपः ॥ 39 ॥

  40. विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत विश्वस्तः शक्यते भॊक्तुं यथाकामम उपस्थितः ॥ 40 ॥

  41. तस्माद विश्वासयेद राजा सर्वभूतान्य अमायया सर्वतः परिरक्षेच च यॊ महीं भॊक्तुम इच्छति ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 104

Previous: अध्याय 102