[य] किं शीलाः किं समुत्थानाः कथंरूपाश च भारत किं संनाहाः कथं शस्त्रा जनाः सयुः संयुगे नृप ॥ 1 ॥
[भ] यथाचरितम एवात्र शस्त्रपत्रं विधीयते आचाराद एव पुरुषस तथा कर्मसु वर्तते ॥ 2 ॥
गान्धाराः सिन्धुसौवीरा नखरप्रासयॊधिनः आभीरवः सुबलिनस तद बलं सर्वपारगम ॥ 3 ॥
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तॊ हय उशीनराः पराच्या मातङ्गयुद्धेषु कुशलाः शठयॊधिनः ॥ 4 ॥
तथा यवनकाम्बॊजा मथुराम अभितश च ये एते नियुद्ध कुशला दाक्षिणात्यासि चर्मिणः ॥ 5 ॥
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः पराय एष समुद्दिष्टॊ लक्षणानि तु मे शृणु ॥ 6 ॥
सिंहशार्दूलवान नेत्राः सिन्ह शार्दूलगामिनः पारावत कुलिङ्गाक्षाः सर्वे शूराः परमाथिनः ॥ 7 ॥
मृगस्वरा दवीपिनेत्रा ऋषभाक्षास तथापरे परवादिनः सुचण्डाश च करॊधिनः किंनरी सवनाः ॥ 8 ॥
मेघस्वनाः करुद्ध मुखाः के चित करभ निस्वनाः जिह्मनासानुजङ्घाश च दूरगा दूरपातिनः ॥ 9 ॥
विडाल कुब्जास तनवस तनु केशास तनुत्वचः शूराश चपल चित्ताश च ते भवन्ति दुरासदाः ॥ 10 ॥
गॊधा निमीलिताः के चिन मृदु परकृतयॊ ऽपि च तुरंगगतिनिर्घॊषास ते नराः पारयिष्णवः ॥ 11 ॥
सुसंहताः परतनवॊ वयूढॊरस्काः सुसंस्थिताः परवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च ॥ 12 ॥
गन्भीराक्षा निःसृताक्षाः पिङ्गला भरुकुटी मुखाः नकुलाक्षास तथा चैव सर्वे शूरास तनुत्यजः ॥ 13 ॥
जिह्माक्षाः परललाटाश च निर्मांस हनवॊ ऽपि च वक्रबाह्वङ्गुली सक्ताः कृशा धमनि संतताः ॥ 14 ॥
परविशन्त्य अतिवेगेन संपराये ऽभयुपस्थिते वारणा इव संमत्तास ते भवन्ति दुरासदाः ॥ 15 ॥
दीप्तस्फुटित केशान्ताः सथूलपार्श्व हनू मुखाः उन्नतांसा पृथुग्रीवा विकटाः सथूलपिण्डिका ॥ 16 ॥
उद्वृत्ताश चैव सुग्रीवा विनता विहगा इव पिण्ड शीर्शाहि वक्त्राश च वृषदंश मुखा इव ॥ 17 ॥
उग्रस्वना मन्युमन्तॊ युद्धेष्व आराव सारिणः अधर्मज्ञावलिप्ताश च घॊरा रौद्रप्रदर्शिनः ॥ 18 ॥
तयक्तात्मानः सर्व एते अन्त्यजा हय अनिवर्तिनः पुरस्कार्याः सदा सैन्ये हन्यते घनन्ति चापि ते ॥ 19 ॥
अधार्मिका भिन्नवृत्ताः साध्व एवैषां पराभवः एवम एव परकुप्यन्ति राज्ञॊ ऽपय एते हय अभीक्ष्णशः ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 102
Reach this point to mark the section finished.
Continue to अध्याय 103