[व] ते समासाद्य गङ्गां तु शिवां पुण्यजनॊचिताम हरदिनीं वप्रसंपन्नां महानूपां महावनाम ॥ 1 ॥
भूषणान्य उत्तरीयाणि वेष्टनान्य अवमुच्य च ततः पितॄणां पौत्राणां भरातॄणां सवजनस्य च ॥ 2 ॥
पुत्राणाम आर्यकाणां च पतीनां च कुरु सत्रियः उदकं चक्रिरे सर्वा रुदन्त्यॊ भृशदुःखिताः सुहृदां चापि धर्मज्ञाः परचक्रुः सलिलक्रियाः ॥ 3 ॥
उदके करियमाणे तु वीराणां वीर पत्निभिः सूपतीर्था अभवद गङ्गा भूयॊ विप्रससार च ॥ 4 ॥
तन महॊदधि संकाशं निरानन्दम अनुत्सवम वीर पत्नीभिर आकीर्णं गङ्गातीरम अशॊभत ॥ 5 ॥
ततः कुन्ती महाराज सहसा शॊककर्शिता रुदती मन्दया वाचा पुत्रान वचनम अब्रवीत ॥ 6 ॥
यः स शूरॊ महेष्वासॊ रथयूथप यूथपः अर्जुनेन हतः संख्ये वीर लक्षणलक्षितः ॥ 7 ॥
यं सूतपुत्रं मन्यध्वं राधेयम इति पाण्डवाः यॊ वयराजच चमूमध्ये दिवाकर इव परभुः ॥ 8 ॥
परत्ययुध्यत यः सर्वान पुरा वः सपदानुगान दुर्यॊधन बलं सर्वं यः परकर्षन वयरॊचत ॥ 9 ॥
यस्य नास्ति समॊ वीर्ये पृथिव्याम अपि कश चन सत्यसंधस्य शूरस्य संग्रामेष्व अपलायिनः ॥ 10 ॥
कुरुध्वम उदकं तस्य भरातुर अक्लिष्टकर्मणः स हि वः पूर्वजॊ भराता भास्करान मय्य अजायत कुण्डली कवची शूरॊ दिवाकरसमप्रभः ॥ 11 ॥
शरुत्वा तु पाण्डवाः सर्वे मातुर वचनम अप्रियम कर्णम एवानुशॊचन्त भूयश चार्ततराभवन ॥ 12 ॥
ततः स पुरुषव्याघ्रः कुन्तीपुत्रॊ युधिष्ठिरः उवाच मातरं वीरॊ निःश्वसन्न इव पन्नगः ॥ 13 ॥
यस्येषु पातम आसाद्य नान्यस तिष्ठेद धनंजयात कथं पुत्रॊ भवत्यां स देवगर्भः पुराभवत ॥ 14 ॥
यस्य बाहुप्रतापेन तापिताः सर्वतॊ वयम तम अग्निम इव वस्त्रेण कथंछादितवत्य असि यस्य बाहुबलं घॊरं धार्तराष्ट्त्रैर उपासितम ॥ 15 ॥
नान्यः कुन्तीसुतात कर्णाद अगृह्णाद रथिनां रथी स नः परथमजॊ भराता सर्वशस्त्रभृतां वरः असूत तं भवत्य अग्रे कथम अद्भुतविक्रमम ॥ 16 ॥
अहॊ भवत्या मन्त्रस्य पिधानेन वयं हताः निधनेन हि कर्णस्य पीडिताः सम स बान्धवाः ॥ 17 ॥
अभिमन्यॊर विनाशेन दरौपदेय वधेन च पाञ्चालानां च नाशेन कुरूणां पतनेन च ॥ 18 ॥
ततः शतगुणं दुःखम इदं माम अस्पृशद भृशम कर्णम एवानुशॊचन हि दह्याम्य अग्नाव इवाहितः ॥ 19 ॥
न हि सम किं चिद अप्राप्यं भवेद अपि दिवि सथितम न च सम वैशसं घॊरं कौरवान्त करं भवेत ॥ 20 ॥
एवं विलप्य बहुलं धर्मराजॊ युधिष्ठिरः विनदञ शनकै राजंश चकारास्यॊदकं परभुः ॥ 21 ॥
ततॊ विनेदुः सहसा सत्रीपुंसास तत्र सर्वशः अभितॊ ये सथितास तत्र तस्मिन्न उदककर्मणि ॥ 22 ॥
तत आनाययाम आस कर्णस्य स परिच्छदम सत्रियः कुरुपतिर धीमान भरातुः परेम्णा युधिष्ठिरः ॥ 23 ॥
स ताभिः सहधर्मात्मा परेतकृत्यम अनन्तरम कृत्वॊत्ततार गङ्गायाः सलिलाद आकुलेन्द्रियः ॥ 24 ॥
स्त्रीपर्व · Stri Parva
अध्याय 27
Reach this point to mark the section finished.
Continue to अध्याय 1