धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 9

  1. [ज] गते भगवति वयासे धृतराष्ट्रॊ महीपतिः किम अचेष्टत विप्रर्षे तन मे वयाख्यातुम अर्हसि ॥ 1 ॥

  2. [व] एतच छरुत्वा नरश्रेष्ठ चिरं धयात्वा तव अचेतनः संजयं यॊजयेत्य उक्त्वा विदुरं परत्यभाषत ॥ 2 ॥

  3. कषिप्रम आनय गान्धारीं सर्वाश च भरत सत्रियः वधूं कुन्तीम उपादाय याश चान्यास तत्र यॊषितः ॥ 3 ॥

  4. एवम उक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम शॊकविप्रहत जञानॊ यानम एवान्वपद्यत ॥ 4 ॥

  5. गान्धारी चैव शॊकार्ता भर्तुर वचनचॊदिता सह कुन्त्या यतॊ राजा सह सत्रीभिर उपाद्रवत ॥ 5 ॥

  6. ताः समासाद्य राजानं भृशं शॊकसमन्विताः आमन्त्र्यान्यॊन्यम ईयुः सम भृशम उच्चुक्रुशुस ततः ॥ 6 ॥

  7. ताः समाश्वासयत कषत्ता ताभ्यश चार्ततरः सवयम अश्रुकण्ठीः समारॊप्य ततॊ ऽसौ निर्ययौ पुरात ॥ 7 ॥

  8. ततः परणादः संजज्ञे सर्वेषु कुरु वेश्मसु आ कुमारं पुरं सर्वम अभवच छॊककर्शितम ॥ 8 ॥

  9. अदृष्टपूर्वा या नार्यः पुरा देवगणैर अपि पृथग्जनेन दृश्यन्त तास तदा निहतेश्वराः ॥ 9 ॥

  10. परकीर्य केशान सुशुभान भूषणान्य अवमुच्य च एकवस्त्रधरा नार्यः परिपेतुर अनाथवत ॥ 10 ॥

  11. शवेतपर्वत रूपेभ्यॊ गृहेभ्यस तास तव अपाक्रमन गुहाभ्य इव शैलानां पृषत्यॊ हतयूथपाः ॥ 11 ॥

  12. तान्य उदीर्णानि नारीणां तदा वृन्दान्य अनेकशः शॊकार्तान्य अद्रवान राजन किशॊरीणाम इवाङ्गने ॥ 12 ॥

  13. परगृह्य बाहून करॊशन्त्यः पुत्रान भरातॄन पितॄन अपि दर्शयन्तीव ता ह सम युगान्ते लॊकसंक्षयम ॥ 13 ॥

  14. विलपन्त्यॊ रुदन्त्यश च धावमानास ततस ततः शॊकेनाभ्याहत जञानाः कर्तव्यं न परजज्ञिरे ॥ 14 ॥

  15. वरीडां जग्मुः पुरा याः सम सखीनाम अपि यॊषितः ता एकवस्त्रा निर्लज्जाः शवश्रूणां पुरतॊ ऽभवन ॥ 15 ॥

  16. परस्परं सुसूक्ष्मेषु शॊकेष्व आश्वासयन सम याः ताः शॊकविह्वला राजन्न उपैक्षन्त परस्परम ॥ 16 ॥

  17. ताभिः परिवृतॊ राजा रुदतीभिः सहस्रशः निर्ययौ नगराद दीनस तूर्णम आ यॊधनं परति ॥ 17 ॥

  18. शिल्पिनॊ वणिजॊ वैश्याः सर्वकर्मॊपजीविनः ते पार्थिवं पुरस्कृत्य निर्ययुर नगराद बहिः ॥ 18 ॥

  19. तासां विक्रॊशमानानाम आर्तानां कुरु संक्षये परादुरासीन महाञ शब्दॊ वयथयन भुवनान्य उत ॥ 19 ॥

  20. युगान्तकाले संप्राप्ते भूतानां दह्यताम इव अभावः सयाद अयं पराप्त इति भूतानि मेनिरे ॥ 20 ॥

  21. भृशम उद्विग्नमनसस ते पौराः कुरु संक्षये पराक्रॊशन्त महाराज सवनुरक्तास तदा भृशम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8