[व] करॊशमात्रं ततॊ गत्वा ददृशुस तान महारथान शारद्वतं कृपं दरौणिं कृतवर्माणम एव च ॥ 1 ॥
ते तु दृष्ट्वैव राजानं परज्ञा चक्षुषम ईश्वरम अश्रुकण्ठा विनिःश्वस्य रुदन्तम इदम अब्रुवन ॥ 2 ॥
पुत्रस तव महाराज कृत्वा कर्म सुदुष्करम गतः सानुचरॊ राजञ शक्र लॊकं महीपतिः ॥ 3 ॥
दुर्यॊधन बलान मुक्ता वयम एव तरयॊ रथाः सर्वम अन्यत परिक्षीणं सैन्यं ते भरतर्षभ ॥ 4 ॥
इत्य एवम उक्त्वा राजानं कृपः शारद्वतस तदा गान्धारीं पुत्रशॊकार्ताम इदं वचनम अब्रवीत ॥ 5 ॥
अभीता युध्यमानास ते घनन्तः शत्रुगणान बहून वीरकर्माणि कुर्वाणाः पुत्रास ते निधनं गताः ॥ 6 ॥
धरुवं संप्राप्य लॊकांस ते निर्मलाञ शस्त्रनिर्जितान भास्वरं देहम आस्थाय विहरन्त्य अमरा इव ॥ 7 ॥
न हि कश चिद धि शूराणां युध्यमानः पराङ्मुखः शस्त्रेण निधनं पराप्तॊ न च कश चित कृताञ्जलिः ॥ 8 ॥
एतां तां कषत्रियस्याहुः पुराणां परमां गतिम शस्त्रेण निधनं संख्ये तान न शॊचितुम अर्हसि ॥ 9 ॥
न चापि शत्रवस तेषाम ऋध्यन्ते राज्ञि पाण्डवाः शृणु यत्कृतम अस्माभिर अश्वत्थाम पुरॊगमैः ॥ 10 ॥
अधर्मेण हतं शरुत्वा भीमसेनेन ते सुतम सुप्तं शिबिरम आविश्य पाण्डूनां कदनं कृतम ॥ 11 ॥
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरॊगमाः दरुपदस्यात्मजाश चैव दरौपदेयाश च पातिताः ॥ 12 ॥
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते पराद्रवाम रणे सथातुं न हि शक्यामहे तरयः ॥ 13 ॥
ते हि शूरा महेष्वासाः कषिप्रम एष्यन्ति पाण्डवाः अमर्षवशम आपन्ना वैरं परतिजिहीर्षवः ॥ 14 ॥
निहतान आत्मजाञ शरुत्वा परमत्तान पुरुषर्षभाः निनीषन्तः पदं शूराः कषिप्रम एव यशस्विनि ॥ 15 ॥
पाण्डूनां किल्बिषं कृत्वा संस्थातुं नॊत्सहामहे अनुजानीहि नॊ राज्ञि मा च शॊके मनः कृथाः ॥ 16 ॥
राजंस तवम अनुजानीहि धैर्यम आतिष्ठ चॊत्तमम निष्ठान्तं पश्य चापि तवं कषत्रधर्मं च केवलम ॥ 17 ॥
इत्य एवम उक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम कृपश च कृतवर्मा च दरॊणपुत्रश च भारत ॥ 18 ॥
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम गङ्गाम अनु महात्मानस तूर्णम अश्वान अचॊदयन ॥ 19 ॥
अपक्रम्य तु ते राजन सर्व एव महारथाः आमन्त्र्यान्यॊन्यम उद्विग्नास तरिधा ते परययुस ततः ॥ 20 ॥
जगाम हास्तिनपुरं कृपः शारद्वतस तदा सवम एव राष्ट्रं हार्दिक्यॊ दरौणिर वयासाश्रमं ययौ ॥ 21 ॥
एवं ते परययुर वीरा वीक्षमाणाः परस्परम भयार्ताः पाण्डुपुत्राणाम आगः कृत्वा महात्मनाम ॥ 22 ॥
समेत्य वीरा राजानं तदा तव अनुदिते रवौ विप्रजग्मुर महाराज यथेच्छकम अरिंदमाः ॥ 23 ॥
स्त्रीपर्व · Stri Parva
अध्याय 10
Reach this point to mark the section finished.
Continue to अध्याय 11