[व] विदुरस्य तु तद वाक्यं निशम्य कुरुसत्तमः पुत्रशॊकाभिसंतप्तः पपात भुवि मूर्छितः ॥ 1 ॥
तं तथा पतितं भूमौ निःसंज्ञं परेक्ष्य बान्धवाः कृष्णद्वैपायनश चैव कषत्ता च विदुरस तथा ॥ 2 ॥
संजयः सुहृदश चान्ये दवाःस्था ये चास्य संमताः जलेन सुखशीतेन तालवृन्तैश च भारत ॥ 3 ॥
पस्पृशुश च करैर गात्रं वीजमानाश च यत्नतः अन्वासन सुचिरं कालं धृतराष्ट्रं तथागतम ॥ 4 ॥
अथ दीर्घस्य कालस्य लब्धसंज्ञॊ महीपतिः विललाप चिरं कालं पुत्राधि भिर अभिप्लुतः ॥ 5 ॥
धिग अस्तु खलु मानुष्यं मानुष्ये च परिग्रहम यतॊमूलानि दुःखानि संभवन्ति मुहुर मुहुः ॥ 6 ॥
पुत्र नाशे ऽरथनाशे च जञातिसंबन्धिनाम अपि पराप्यते सुमहद दुःखं विषाग्निप्रतिमं विभॊ ॥ 7 ॥
येन दह्यन्ति गात्राणि येन परज्ञा विनश्यति येनाभिभूतः पुरुषॊ मरणं बहु मन्यते ॥ 8 ॥
तद इदं वयसनं पराप्तं मया भाग्यविवर्ययात तच चैवाहं करिष्यामि अद्यैव दविजसत्तम ॥ 9 ॥
इत्य उक्त्वा तु महात्मानं पितरं बरह्मवित्तमम धृतराष्ट्रॊ ऽभवन मूढः शॊकं च परमं गतः अभूच च तूष्णीं राजासौ धयायमानॊ महीपते ॥ 10 ॥
तस्य तद वचनं शरुत्वा कृष्णद्वैपायनः परभुः पुत्रशॊकाभिसंतप्तं पुत्रं वचनम अब्रवीत ॥ 11 ॥
धृतराष्ट्र महाबाहॊ यत तवां वक्ष्यामि तच छृणु शरुतवान असि मेधावी धर्मार्थकुशलस तथा ॥ 12 ॥
न ते ऽसत्य अविदितं किं चिद वेदितव्यं परंतप अनित्यतां हि मर्त्यानां विजानासि न संशयः ॥ 13 ॥
अध्रुवे जीवलॊके च सथाने वाशाश्वते सति जीविते मरणान्ते च कस्माच छॊचसि भारत ॥ 14 ॥
परत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः पुत्रं ते कारणं कृत्वा कालयॊगेन कारितः ॥ 15 ॥
अवश्यं भवितव्ये च कुरूणां वैशसे नृप कस्माच छॊचसि ताञ शूरान गतान परमिकां गतिम ॥ 16 ॥
जानता च महाबाहॊ विदुरेण महात्मना यतितं सर्वयत्नेन शमं परति जनेश्वर ॥ 17 ॥
न च दैवकृतॊ मार्गः शक्यॊ भूतेन केन चित घटतापि चिरं कालं नियन्तुम इति मे मतिः ॥ 18 ॥
देवतानां हि यत कार्यं मया परत्यक्षतः शरुतम तत ते ऽहं संप्रवक्ष्यामि कथं सथैर्यं भवेत तव ॥ 19 ॥
पुराहं तवरितॊ यातः सभाम ऐन्द्रीं जितक्लमः अपश्यं तत्र च तदा समवेतान दिवौकसः नारदप्रमुखांश चापि सर्वान देव ऋषींस तथा ॥ 20 ॥
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते कार्यार्थम उपसंप्राप्ता देवतानां समीपतः ॥ 21 ॥
उपगम्य तदा धात्री देवान आह समागतान यत कार्यं मम युष्माभिर बरह्मणः सदने तदा परतिज्ञातं महाभागास तच छीघ्रं संविधीयताम ॥ 22 ॥
तस्यास तद वचनं शरुत्वा विष्णुर लॊकनमस्कृतः उवाच परहसन वाक्यं पृथिवीं देव संसदि ॥ 23 ॥
धृतराष्ट्रस्य पुत्राणां यस तु जयेष्ठः शतस्य वै दुर्यॊधन इति खयातः स ते कार्यं करिष्यति तं च पराप्य महीपालं कृतकृत्या भविष्यसि ॥ 24 ॥
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः अन्यॊन्यं घातयिष्यन्ति दृढैः शस्त्रैः परहारिणः ॥ 25 ॥
ततस ते भविता देवि भारस्य युधि नाशनम गच्छ शीघ्रं सवकं सथानं लॊकान धारय शॊभने ॥ 26 ॥
स एष ते सुतॊ राजँल लॊकसंहार कारणात कलेर अंशः समुत्पन्नॊ गान्धार्या जठरे नृप ॥ 27 ॥
अमर्षी चपलश चापि करॊधनॊ दुष्प्रसाधनः दैवयॊगात समुत्पन्ना भरातरश चास्य तादृशाः ॥ 28 ॥
शकुनिर मातुलश चैव कर्णश च परमः सखा समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः एतम अर्थं महाबाहॊ नारदॊ वेद तत्त्वतः ॥ 29 ॥
आत्मापराधात पुत्रास ते विनष्टाः पृथिवीपते मा ताञ शॊचस्व राजेन्द्र न हि शॊके ऽसति कारणम ॥ 30 ॥
न हि ते पाण्डवाः सवल्पम अपराध्यन्ति भारत पुत्रास तव दुरात्मानॊयैर इयं घातिता मही ॥ 31 ॥
नारदेन च भद्रं ते पूर्वम एव न संशयः युधिष्ठिरस्य समितौ राजसूये निवेदितम ॥ 32 ॥
पाण्डवाः कौरवाश चैव समासाद्य परस्परम न भविष्यन्ति कौन्तेय यत ते कृत्यं तद आचर ॥ 33 ॥
नारदस्य वचः शरुत्वा तदाशॊचन्त पाण्डवाः एतत ते सर्वम आख्यातं देव गुह्यं सनातनम ॥ 34 ॥
कथं ते शॊकनाशः सयात पराणेषु च दया परभॊ सनेहश च पाण्डुपुत्रेषु जञात्वा दैवकृतं विधिम ॥ 35 ॥
एष चार्थॊ महाबाहॊ पूर्वम एव मया शरुतः कथितॊ धर्मराजस्य राजसूये करतूत्तमे ॥ 36 ॥
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते अविग्रहे कौरवाणां दैवं तु बलवत्तरम ॥ 37 ॥
अनतिक्रमणीयॊ हि विधी राजन कथं चन कृतान्तस्य हि भूतेन सथावरेण तरसेन च ॥ 38 ॥
भवान कर्म परॊ यत्र बुद्धिश्रेष्ठश च भारत मुह्यते पराणिनां जञात्वा गतिं चागतिम एव च ॥ 39 ॥
तवां तु शॊकेन संतप्तं मुह्यमानं मुहुर मुहुः जञात्वा युधिष्ठिरॊ राजा पराणान अपि परित्यजेत ॥ 40 ॥
कृपालुर नित्यशॊ वीरस तिर्यग्यॊनिगतेष्व अपि स कथ तवयि राजेन्द्र कृपां वै न करिष्यति ॥ 41 ॥
मम चैव नियॊगेन विधेश चाप्य अनिवर्तनात पाण्डवानां च कारुण्यात पराणान धारय भारत ॥ 42 ॥
एवं ते वर्तमानस्य लॊके कीर्तिर भविष्यति धर्मश च सुमहांस तात तप्तं सयाच च तपश चिरात ॥ 43 ॥
पुत्रशॊकसमुत्पन्नं हुताशं जवलितं यथा परज्ञाम्भसा महाराज निर्वापय सदा सदा ॥ 44 ॥
एतच छरुत्वा तु वचनं वयासस्यामित तेजसः मुहूर्तं समनुध्याय धृतराष्ट्रॊ ऽभयभाषत ॥ 45 ॥
महता शॊकजालेन परणुन्नॊ ऽसमि दविजॊत्तम नात्मानम अवबुध्यामि मुह्यमानॊ मुहुर मुहुः ॥ 46 ॥
इदं तु वचनं शरुत्वा तव दैवनियॊगजम धारयिष्याम्य अहं पराणान यतिष्ये च न शॊचितुम ॥ 47 ॥
एतच छरुत्वा तु वचनं वयासः सत्यवती सुतः धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥ 48 ॥
स्त्रीपर्व · Stri Parva
अध्याय 8
Reach this point to mark the section finished.
Continue to अध्याय 9